एवं स भगवान् विष्णुर्महिदासाभिधः प्रभुः
स एष गिरिश्चक्षुः श्रोत्रं मनो वाक्प्राणः
अवाक्प्राक्च सदा गच्छेद्वायुरानन्दरूपिणा
य एवं वेद तं वायुममृतं सर्वनायकम्
'ब्रह्म, पन्थाः, सत्यं, कर्मेति ..
अद उ एव नारायणाख्यमधिकं दैवतं अन्यानि दैवतमात्राणि
तस्योष्णिग्लोमानी’त्यादि लोमसूष्णिगित्याद्यर्थे
न च जीववागादिना पृथिव्यन्यादकं सृष्टमित्यत्र किञ्चिन्मान-मस्ति
आह महिदास ऐतरेयः' इति तु सर्वस्य वचनस्य ..
आपाः ३ इति, आपः इति
।। अथ अष्टम: खण्डः ।।
भगवतः आपशब्दवाच्यत्वं
उपनिषत्
आपाः ३ इति, आपः इति । तदिदमाप एव । इदं वै मूलमदस्तूलम् । अयं पितैते पुत्राः । यत्र ह क्वचन पुत्रस्य तत्पितुः । यत्र वा पितुस्तत् पुत्रस्य । इत्येतत् तदुक्तं भवतीति ।
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः । अहं मां देवेभ्यो वेदा ओमद्देवान् वेद । इतः प्रदाना ह्येते । इतः सम्भृता इति ।
लक्ष्मी -महिदाससंवादेन भगवतः आपशब्दवाच्यत्वसमर्थनम्
भाष्यम्
आप इत्येव देवानां ब्रह्मादीनां कथं भवेत् । नामेत्यपृच्छल्लक्ष्मीस्तं महिदासं जनार्दनम् ।। आप इत्येव नामैषां भवतीत्याह स प्रभुः । इदं मदाख्यं यद् ब्रह्म ह्याप इत्यभिधीयते ।। आ पूर्णत्वाद् गुणैः सर्वैस्तन्मूलमखिलस्य च । तूलभूतं तदन्यत् तु पिता ह्येष जनार्दनः ।। पुत्रा ब्रह्मादयः सर्वे नैवायं वृक्षमूलवत् । स्वतन्त्रत्वाज्जगन्नाथः पितृत्वात् परमेशितुः ।। तन्नामाप इति ह्येतद्ब्रह्मरुद्रादिनां भवेत् । यथा यदव इत्येव रघवः कुरवस्तथा ।। पुत्रनाम पितुश्च स्यात् तत्तन्त्रत्वात् सुतस्य हि । यथा पितामहाद्याश्च पितरो नाम कीर्तिताः ॥ तथापि मुख्यया वृत्त्या व्यवहारव्यवस्थितिः । आप इत्येव देवानां सर्वेषां प्रददौ हरिः । स्वकीयमेवमन्यानि पृथक् पृथगदात् प्रभुः । नारायणादिनामानि ददौ नान्यस्य केशवः ।
भावप्रदीप:
'आपाः' इत्यादि खण्डं व्याचष्टे - आप इत्यादिना ।। तत्रापा इत्याप इतीति द्विरुक्तिः किमर्थेत्यतस्तत्राद्यं प्रश्नवाक्यं द्वितीय- मुत्तरवाक्यमतो न पौनरुक्त्यमित्याशयेनाह - आप इति । पूर्वखण्डे 'आपश्च वरुणश्चे'त्यत्राप्शब्देन ब्रह्मादिसर्वदेवा गृहीताः । नच तत्र किमपि निमित्तमुक्तम् । तदभावे तु तत्र तच्छब्दप्रवृत्तिर- नुपपन्नैवोपपद्येत । अतस्तत्र किं निमित्तमिति प्रश्नाशयः । वक्ष्य- माणानुसारेण निमित्तसद्भावादुपपन्नमेवैषामप्शब्दवाच्यत्वमिति परिहारा- भिप्रायः । तत्र निमित्तं वक्तुमुपोद्घातमाह – तदिदमा इति । द् व्याचष्टे— इदमिति ।। तत्र निमित्तकथनम्-- पूर्णत्वादिति ।। आङ्पूर्वात् 'पृ पालनपूरणयोः' इत्यतः क्विप् ङिच्च । डित्वाट्टेर्लोपः । उपसर्गस्य च ह्रस्वता । तथाचाप् इति प्रातिपदिकम् । स्त्रीरूपत्वात् स्त्रीलिङ्गम् । बहुरूपत्वाद्बहुवचनमिति भावः । ' इदं वै मूलमदस्तूलं' इत्यस्यार्थः- तन्मूलमित्यादि । तद् ब्रह्म मूलं कारणम् । तदन्यत् चतुर्मुखादिकं सर्वं तूलभूतं कार्यरूपम् । ‘अयं पितैते पुत्राः' इत्यस्यार्थः- पिता ह्येष इत्यादि । ननु मूलतूलशब्दा- भ्यामेव पिता पुत्रभावलाभात्पुनरयं पितैते पुत्रा इत्युक्तिः कुत इत्यत आह- नैवेति ॥ वृक्षमूलं वृक्षं प्रति यथोपादानकारणं न तथायं किन्तु पितृवन्निमित्तकारणमेव । कुतः स्वतन्त्रत्वात् परानपेक्ष- सत्वादिमत्त्वात् । न चाचेतनस्य वृक्षमूलस्य परानपेक्षत्वम् । उप- लक्षणमेतत् । नापीमे वृक्षवदुपादेयरूपा इत्यपि द्रष्टव्यम् । तथाच मूलतूलपदाभ्यामुपादानोपादेयभाव उच्यत इति प्रतीतिनिरासाय तद्व्याख्यानमिदं कृतमिति भावः । एवमुपोद्घातमुक्त्वा प्रकृतप्रश्नस्यो- त्तरमुच्यते यत्र ह कचेत्यादि । तद्वयाचष्टे - पितृत्वादिति ॥ रुद्रादिनां रुद्रादीनाम् । तत्र दृष्टान्तमाह - यथेति ॥ यद्वादिवंश- जातानां यादवादीनां यदुरघ्वादिनाम तथेत्यर्थः । एतेन 'यत्र वा पितुस्तत्पुत्रस्य' इत्येतद् विवृतं भवति । 'यत्र ह क्वच' इत्यस्य व्याख्या - पुत्रनामेति ।। तत्र दृष्टान्तः - यथेति ॥ तर्हि पितृपुत्र - नाम्नोः साङ्कर्येण व्यवहारव्यवस्था क्वापि न स्यादित्यत आह- तथापीति ।। मुख्ययेत्युपलक्षणम् । अमुख्ययेत्यपि ग्राह्यम् । यदि पुत्रनाम पितृषु प्रयुज्यते तदा मुख्यैव वृत्तिर्ज्ञेया । यदा पितृनाम पुत्रेषु प्रयुज्यते तदाऽमुख्यवृत्तिरेव । अतो न व्यवहारा - व्यवस्थितिरिति भावः । अस्त्वेवं किं प्रकृत इत्यत आह- आप इति । तथा चाप इत्येव देवानां नाम कथं भवेदित्यस्य तेषां मत्पुत्रत्वान्मन्नाम तेष्वमुख्यया वृत्त्या प्रयुज्यत इत्युत्तरमिति भावः । एवं तर्हि ब्रह्मादिनामानि न स्वकीयानीति प्राप्तमित्यत आह-एवमिति । तथाचाप इति सामान्यनाम । ब्रह्मादिनामानि तु विशेषनामानि । उभयान्यपि विष्णोः स्वकीयान्येवेति भावः । नारायणादिनामसु तु विशेषोऽस्तीति प्रसङ्गादाह - नारायणादीति ॥ यथोक्तम्–
‘ऋते नारायणादीनि नामानि पुरुषोत्तमः ।
प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम् ।। इति ।