तस्य वाक् तन्तिः
अथ षष्ठः खण्डः
श्रुतिस्मृतयः विष्ण्वाज्ञारूपाः
उपनिषत्
तस्य वाक् तन्तिः । नामानि दामानि । तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम् । सर्वं हीदं नामानी ३ । सर्वं वाचाऽभिवदति । वहन्ति ह वा एनं तन्तिसम्बद्धा य एवं वेद ।
भाष्यम्
तस्य नारायणस्यैव सर्ववेदात्मिका हि वाक् । तन्तिरूपा जगद्बन्धे नाम ब्रह्मादिकं च यत् ॥ विप्रक्षत्रियवैश्यादिरूपं चाखिलमेव तु । दाम तेनैव बध्नाति सकलं जगदच्युतः || सर्वे हि नामवन्तोऽत्र सर्वे वेदोदिता अपि वेदात्मिक्या यतो वाचा विष्णुर्वदति सोऽखिलम् || य एतद्विष्णुवाचैव बद्धं नामाख्यदामभिः | ज्ञात्वा जगदुपास्ते तु योग्यः संस्तदुपासने ।। तं प्रत्येवाखिलान्येव भूतानि सह दैवतैः । बलिं हरन्ति पञ्चाथ भूतान्येनं वहन्ति च ।। योग्यश्वास्या (योग्यो सोsस्या ) उपासाया योग्यो ब्रह्मपदस्य यः । भूतयुक्ते रथे तस्मात् स तिष्ठति सुरार्चितः || मुक्तः संश्च तदन्येषां ज्ञानमात्राद्विमुक्तिगैः । स्वावरैः सेव्यतैव स्यात् कैश्विदेव कचित् क्वचित् ॥ तथैव वायुना बद्धं जगदेतत् ततोऽवरम् । सुपर्णशेषगिरिशशक्रसूर्याद्यमञ्जसा ॥
भावप्रदीप:
'तस्य वाक् तन्तिः' इत्यादिखण्डं व्याचष्टे - तस्येत्यादिना ।। ' नामानि दामानी' त्यस्यार्थः- नाम ब्रह्मादिकमिति ॥ ब्रह्मेत्यादिकं यन्नाम यच्च विप्रक्षत्रियवैश्यादिरूपं नाम तदखिलं दामरूपमित्यर्थः । अखिलमित्यस्यासङ्कुचितवृत्तित्वद्योतनायैवशब्दः । तस्येदं वाचा ' इत्यादेरर्थः- तेनैवेत्यादि ।। ' सर्वं हीदं नामानि' इत्यस्यार्थः– सर्वे हीति ।। अत्र जगति । उपलक्षणमेतत् । 'सर्वं हीदं वाचि च ' इत्यपि ग्राह्यमिति भावेनाह - सर्वे वेदोदिता इति ।। कथमेषां वेदोदितत्वमित्यत आह- वेदात्मिक्येति । एतेन सर्वं वाचाऽभि- वदतीत्येतदुक्तार्थम् । 'वहन्ति हवा' इत्येतद् व्याचष्टे - य एतदिति । विष्णुवाचा विष्णुवागाख्यतन्त्या बद्धं जगज्ज्ञात्वेत्यन्वयः । उपासते विष्णुं जगद्बन्धकत्वेनेति शेषः । 'एनं वहन्ती' त्यस्य व्याख्यानं - तं प्रत्येवेत्यादिः । एतेन य एवं वेद एनं वेत्तारं पुरुषं प्रति तन्ति सम्बद्धाः सर्वे देवाद्या जीवा वहन्ति । बलिमिति शेष इति व्याख्यातं भवति ।
एतदेव प्रकारान्तरेण व्याख्याति - पञ्चेत्यादि । एतेन तन्ति सम्बद्धा भूताभिमानिनो देवा एनं वहन्तीति तदर्थ उक्तो भवति । नन्वेतदयुक्तम् । वेत्तृमात्रस्य देवादिसेव्यताया विरुद्धत्वादित्यत आह- योग्योऽस्या इति ।। यो ब्रह्मपदस्य योग्यः सोऽस्या उपासनाया योग्य इत्यन्वयः । भूतयुक्ते भूताभिमानिदेवैर्वाजिरूपैर्युक्ते । सुरार्चित इति तं प्रत्येवाखिलान्येव भूतानि सह दैवतैः बलिं वहन्तीत्युक्तफलान्तरानुवादः । न केवलं संसारित्वावस्थायामेव संसारिदेवादिसेव्यः, किन्तु मुक्तः संश्च मुक्तैः सेव्यत इति चशब्दार्थः । नन्वेवं तर्हि तदन्येषामेतद्विद्या ज्ञानं व्यर्थमेव किं ? नेत्याह- तद- न्येषामिति । तर्हि ज्ञानोपासनयोः को विशेषः ? स्वावरसेव्यताया उभयत्रापि साम्यादित्यत आह- कैश्विदेवेति । नतु सर्वैः स्वावरैः । क्वचित् क्वचिदेव नतु सर्वत्र सर्वदेत्यर्थः । उपासनाफलं तु नैवमिति भावः । ‘तस्य वाक्’ इत्यादिकं वायुविषयतया व्याख्येयमित्याश- येनाह - तथैवेति ।। वायोरपि पूर्वखण्डे प्रस्तुतत्वात्तस्येति परामर्शो युज्यत इति भावः । ' सर्वं सित' मिति सर्वशब्दं सङ्कुचितपरतया व्याचष्टे- ततोऽवरमिति ॥ तदेव विवृणोति - सुपर्णेति ॥