प्राणो वंश इति स्थविरः शाकल्यः
अथ तृतीयारण्यके द्वितीयोऽध्यायः प्रथम: खण्ड:
इन्द्रियाभिमानिदेवानां वायुराश्रयः
उपनिषत्
ॐ प्राणो वंश इति स्थविरः शाकल्यः । तद्यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युरेवमस्मिन् प्राणे चक्षुः श्रोत्रं मनो वागिन्द्रियाणि शरीरं सर्व आत्मा समाहितः । तस्यैतस्यात्मनः प्राण ऊष्मरूपम् | अस्थीनि स्पर्शरूपम् । मज्जानः स्वररूपम् । मांसं लोहितमित्ये- तदन्यच्चतुर्थमन्तस्थरूपम् इति ह स्माह ह्रस्वो माण्डूकेयः ।
अस्थिमज्जास्वरादिशब्दानां निर्वचनपूर्वकं भगवत्प्रतिपादकत्वसमर्थनम्
भाष्यम्
गृहस्याच्छादनादीनां मध्यवंशो यथाश्रयः । तथेन्द्रियाभिमान्यादिदेवानां वायुराश्रयः ।। तेषु सर्वेषु भगवान् बहुरूपो हरिः स्थितः । विष्णुनामाक्षरेष्वेवमन्येष्वपि तदर्थतः ।। प्राणनामा तु भगवान् प्राणस्थ श्रोष्मसु स्थितः । ऊष्मनामा समर्थत्वात् स एव भगवान् हरिः ।। पूर्णत्वादात्मनामाऽसौ प्रतिमात्वादमुष्य तु । सङ्घात आत्मशब्दोक्तो ह्यस्थिरश्वास्थिनामकः ||अस्थिस्थितो हरिः स्पर्शसंस्थितः स्पर्शनामकः । स्पर्शहेतुत्वतः स्पर्शनामा स भगवान् हरिः ।। मज्जासुस्थ स मज्जाख्यो मदं जनयतीति ह । स एव स्वरसंस्थश्च स्वराख्यः स्वरतेः प्रभुः ।। प्रमाणं सारयेद्यस्मान्मांसाख्यो मांससंस्थितः । लोहिताख्यो रक्तवर्णो लोहितस्थो जनार्दनः ॥
भावप्रदीप:
अस्थिमज्जापर्वगतं सर्वगं मृत्युनाशकम् । वन्दे दुर्गापतिं विष्णुं सर्ववेदोदितं प्रभुम् ॥ 'प्राणो वंशः' इति खण्डं व्याचष्टे – गृहस्येत्यादिना ॥ इन्द्रियाभिमान्यादिदेवानामिति । चक्षुरादीन्द्रियाणां तदभिमानि- देवानाम् । आदिपदेन शरीरस्य तदभिमानिदेवस्य चाश्रय इत्यर्थः । एतेन प्राणवंशत्वोपपादनाय ' तद्यथा शालावंशे' इत्यादि यदुक्तं तद्व्याख्यातं भवति । तेषु सर्वेषु चक्षुरादीन्द्रियेषु शरीरे तदभिमानि- देवेषु तदाश्रये प्राणे च हरिर्बहुरूपः स्थित इत्यनेन 'सर्व आत्मा समाहितः' इत्येतद्व्याख्यातं भवति । सर्वो बहुरूपः आत्मा परमात्मा तत्र सर्वत्र समाहितः स्थित इति । ‘तस्यैतस्यात्मनः प्राण ऊष्मरूपं' इत्यादेस्तात्पर्यमाह विष्णुनामेति । एवं देहे- न्द्रियतदभिमानिषु यथा तथा विष्णुनामाक्षरेषु स्थितः । यथा विष्णु- नामाक्षरेषु स्थित एवमन्येष्वप्यक्षरेषु स्थितः । कुतः ? तदर्थतः सर्वनामाक्षराणां विष्णुनामार्थत्वात् । अथवा तदर्थतः तत्तत्प्रति- पाद्यत्वेन स्थित इत्यर्थः । अत्र विष्णुनामग्रहणमुपसंहारे वक्ष्यमाणा- नुसारेण । विष्णुनाम्न्यप्यष्मस्पर्शस्वरान्तस्थान्यक्षराणि सन्त्येवेति । ‘प्राण उष्मरूपं’ इत्यस्यार्थः- प्राणनामा त्विति ॥ समर्थत्वात् कस्यापि सोढुमशक्यत्वात् ऊष्मनामा । 'सर्व आत्मा' इत्यत्रात्मशब्दार्थमाह- पूर्णत्वादिति । तस्यैवामुख्यमर्थान्तरं चाह प्रतिमात्वादिति ॥ संघातो देहेन्द्रियसमुदायः । तथा च ' तस्यैतस्यात्मनः' इति संघातपरामर्शोपपत्तिरिति भावः 'अस्थीनि स्पर्शरूपं' इत्यस्य विवरणम् – अस्थिरश्चेति । अधिकं स्थिर इत्यर्थः । स्पर्शनामकत्वं कुत इत्यत आह- स्पर्शहेतुत्वत इति ।। स्पर्शनहेतुत्वादित्यर्थः । ‘मज्जानः स्वररूपं’ इत्यस्यार्थमाह- मज्जासुस्थ इति ।। मज्जाशब्द आकारान्तः स्त्रीलिङ्गो नकारान्तः पुल्लिङ्गश्वास्ति । अतो मज्जानो मज्जास्वित्युभयथाप्युपपन्नम् । मदं आनन्दं जनयतीति मज्जाख्यः । मदशब्दपर्यायो मच्छब्दः । तस्मिन्नुपपदे जनेर्डन्, स्त्रीलिङ्गत्वे डः टाप् च । स्वरतेः स्वरमणात्स्वराख्यः । 'मांसं लोहितं' इत्यस्यार्थः- प्रमाणमिति । वेदादिप्रमाणं सारयेत् प्रवर्तयेत् ।।