तं देवाः प्राणयन्त
॥ अथ पञ्चम खण्ड: ॥
प्रातः - सायंशब्दयोः इतिहासः तच्छब्दवाच्यत्वं च
उपनिषत्
तं देवाः प्राणयन्त । स प्रणीतः प्रातायत । प्रातायीती ३ तत्प्रातरभवत् । समागादिती ३ तत्सायमभवत् । अहरेव प्राणो, रात्रिरपानः |
भाष्यम्
तस्मात् श्रुत्वा परं ब्रह्म देवा नारायणाभिधम् । शिष्यप्रशिष्यादिषु च तेऽनयन् वायुनोदितम् ।। वायुमप्यनयन् सर्वे यशसा तद्गुणोक्तितः ये ये गुणान् विजानन्ति वायोस्तानाविशन् मरुत् || तत्र तत्र प्रविष्टत्वात् प्रततोऽसौ बभूव ह । प्रततत्वात् प्रातरिति तस्य नामाभवद्विभोः । सङ्गतश्चाभवज्जीवचिता रूपान्तरेण सः । सङ्गतत्वात् सायमिति तद्रूपं नामतोऽभवत् ।। वायोस्तत्पुनरध्यात्मं प्राणापानाभिधं द्वयम् ।
भावप्रदीप:
'तं देवाः प्राणयन्त' इत्यादि खण्डं व्याचष्टे - तस्माच्छ्रुत्वे- त्यादिना || अत्र तमिति ब्रह्मेमं पुरुषमिति ब्रह्मशब्देन प्रकृतस्य नारायणस्य परामर्शः । अतः पुल्लिङ्गीपपत्तिरित्याशयेनोक्तम्- नारा- यणाभिधं परं ब्रह्मेति ।। ' प्राणयन्ते' त्यस्यार्थः शिष्यप्रशिष्यादि - ष्वनयन्निति । उपदिदिशुरित्यर्थः । तमित्यस्यैवार्थान्तरम्– वायुनोदितमिति । पूर्वं प्राणस्य प्रस्तुतत्वेन तदुपदिष्टस्यापि तमिति निर्देशोपपत्तेः । अत एव तस्माच्छ्रुत्वेत्युपक्रमे शेषः पूरितः । अस्यैव पुनरर्थान्तरमाह— वायुमपीति ।। शिष्यप्रशिष्यादिष्विति बर्तते । ‘यशसे’त्यस्यैव विवरणम् - तद्गुणोक्तित इति ॥ 'स प्रणीतः प्रातायत' इत्यस्यार्थमाह- ये य इति । एतेन प्रणीतः शिष्यादिषु देवैरुपदिष्टगुणः स वायुः प्रातायत तेषु प्रविश्य प्रततो बभूवेति मूलं व्याख्यातं भवति । 'प्रातायात तत्प्रातरभवदि 'ति वाक्यं व्याचष्टे– प्रततत्वादिति । एतेन यस्मात्प्राणः स्वगुणज्ञानिषु प्रातायीति प्रततोऽभवत् तत् तस्मात् प्रातर्नामकोऽभवदिति मूलार्थ उक्तो भवति । प्रकर्षेणाततत्वात् प्रातरिति निर्वचनम् । प्राङ्पूर्वात् 'तनु विस्तारे' इति धातोः कर्तरि उरिप्रत्ययः । 'समागादित तत्सायमभवदि’त्यस्य व्याख्या सङ्गतश्चेति । जीवचिता जीवस्वरूपेण । तदित्यस्यार्थः- सङ्गतत्वादिति ।। तथाच सम्पूर्वादयतेः कर्तर्यमिः । समित्यस्य सः । ' अहरेव प्राणो रात्रिरपानः' इत्यादि व्याचष्टे - वायोरिति ।। द्वयं रूपद्वयं आहार्यत्वादहः । रतिदातृत्वाद् रात्रिरित्युच्यत इति शेषः । नजुपपदाद्धरतेर्विच् । रतिरेव रातम् । तदुपपदाद् रातेः किः । उपपदान्तलोपश्च ।।