पुरुषे ह वा अयमादितो गर्भो भवति

अथ द्वतीयारण्यके पञ्चमोऽध्यायः प्रथम: खण्ड:

भगवतः प्रादुर्भावः

उपनिषत्

(अपक्रामन्तु गर्भिण्यः) ॐ पुरुषे ह वा अयमादितो गर्भो भवति । यदेतद्रेतस्तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजस्सम्भूतम् । आत्मन्येवात्मानं बिभर्ति । तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति ॥ तदस्य प्रथमं जन्म । तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति । साऽस्यैतमात्मानमत्र गतं भावयति । सा भावयित्री भावयितव्या भवति । तं स्त्री गर्भं बिभर्ति । सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति । स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येतेषां लोकानां सन्तत्या एवं सन्तता हीमे लोकाः।तदस्य द्वितीयं जन्म ।

भाष्यम्

अयं नारायणो देवः पुरुषे प्रथमं विशेत् । अन्नस्थोऽनेन सहितस्तस्मिन् रेतस्त्वमागते ।। तस्मिन् स्थितं स्वरूपं स पुरुषस्थो बिभर्त्यजः । तद्रूपं रेतसा साकं स्वयं पुंसि स्थितो हरिः ।।स्त्रियां सिञ्चति तस्यैव स्थानान्तरगतेः प्रभोः । प्रथमं जन्म विष्णोस्तु स तस्या अङ्गवत् प्रभुः ।। नैनां हिनस्त्यानुकूल्यात् सा पुत्रं भावयत्यथ । पुत्रस्य भावना सैव तद्गत्वाद् हरिभावना ।। सम्भावितव्या सा चैव भर्त्रा पुत्रश्च सादरम् । सम्भावनं कुमारस्य जानतः केशवे भवेत् ।। तस्येत्यर्पणमात्रेण पूजितो हि भवेद्धरिः । पुत्रस्थस्य हरेः पूजां कुर्वतः पृथिवीस्थितिः ।। स्वर्गस्थस्यापि भवति पुत्रपुण्यं यतोऽखिलम् । अत्यल्पपुण्यभाक् स स्यान्नार्चयेत् केशवं यदि ।। पृथिव्यां जन्म पुत्रस्य द्वितीयं विष्णुजन्म हि ।

भावप्रदीप:

रेतसा वनितागर्भे शिशुना गर्भतो बहिः । तत्पित्रा सह चान्यत्र स उदैत्सोऽवताद्धरिः ।। 'पुरुषे ह वा अयं' इत्येतत्खंडं व्याचष्टे - अयं नारायण इत्या- दिना ।। तत्र 'पुरुषे अयमादितो गर्भो भवतीत्यस्य विवरणम्- अन्नस्थोऽयं नारायणोऽनेन सहितस्सन्प्रथमं पुरुषे विशेदिति । 'यदेतद्रेतः' इत्यादेरर्थः तस्मिन्नित्यादि । तस्मिन् भुक्ताने । पुनस्तस्मिन् रेतसि ।तद्यदा स्त्रियां सिञ्चति अथैनज्जनयति तदस्य प्रथमं जन्म' इत्यस्यार्थः- तद्रूपं रेतसा साकमित्यादि । 'तत्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं' इत्यस्यार्थो -- स तस्या इति ॥ स प्रभुस्तस्या अङ्गवत् तिष्ठतीति शेषः । ' तस्मादेनां न हिनस्ति' इत्यस्यार्थो - नैनामितिं । हिनस्ति पतिरिति शेषः । तस्मादित्य- स्यार्थः- आनुकूल्यादिति । गर्भधारणेन स्वस्य स्वर्गादिपुरुषार्थहेतु- पुत्रप्रसवसंभावनाविषयतयाऽनुकूलत्वादित्यर्थः । ' साऽस्यैतमात्मान- मत्रगतं भावयति' त्यस्यार्थः -- सा पुत्रं भावयतीति । मानयती - त्यर्थः । कुतः स्त्रिया स्वगर्भतः पुत्रो माननीय इत्यत आह- पुत्रस्येति ।। या भावना क्रियते सैव हरिभावना भवति । कुतः ? तद्गत्वात् हरेर्गर्भस्थपुत्रगतत्वात् इत्यर्थः । एतेन 'साऽस्ये 'ति वाक्यं द्वे व्याख्यातं भवति । सा स्त्री अस्य पत्युः सकाशाल्लब्धं अत्र गर्भे गतं एतमात्मानं पुत्रं भावयति संभावयतीति । तथाऽस्य पत्युः संबन्धिन्यत्र स्वगर्भगतपुत्रे गतं स्थितं एतमात्मानं हरिमेव भावयतीति । 'सा भावयित्री भावयितव्या भवती' त्यस्यार्थः- संभाव- यितव्येति । पुत्रश्चेत्यनेन कुमारं जन्मनोऽग्रेऽधिभावयतीत्यस्य व्याख्यानसङ्ग्रहः ।स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयति' इत्येतद्व्याचष्टे संभावनमिति ।। कुमारसंभावनस्य सर्वसाधारण्यात् किं तत्संभावनं सर्वेषां हरिपूजात्मकं भवतीत्यत उक्तम्- जानत इति ।। जानतोऽपि कथं कुमारसंभावनं केशवे भवतीत्यतस्तदेव विशदयति तस्येति । अयं पुत्रस्तदधीनसत्ता - दिक एव न मदीयः । किं नाम मम शुभार्थं तेनैव दत्त इत्याद्य- नुसन्धानरूपार्पणमात्रेण कुमारसंभावनेनापि हरिः पूजितो भवेदित्यर्थः । पुत्रसंभावनां हरिपूजात्वेनानुसंदधतः फलमाह - पुत्रस्थस्येति ॥ स्वर्गस्थस्यापि पृथिवीस्थितिरिव भवति । पृथिव्यामेव जीवान् साधनसंपत्तिं कुर्वाणो यथा तथा पुमान् भवतीति यावत् । कुतः ? यतस्तस्य पुत्रपुण्यमखिलं भवतीत्यर्थः । पूजामकुर्वतः फलहासोऽपि भवतीत्याह- अत्यल्पेति ॥ केशवं पुत्रस्थमिति शेषः । एतेन 'एषां लोकानां सन्तत्यै' इत्यादिकं व्याख्यातं भवति । ' तदस्य द्वितीयं जन्मे'ति वाक्यं व्याचष्टे - पृथव्यामिति ॥

Load More