अथ खल्वियं सर्वस्यै वाच उपनिषत्
अथ तृतीयारण्यके द्वितीयोऽध्यायः पञ्चम: खण्ड:
स्पर्शाद्यक्षरप्रतिपाद्यरूपाभिधानम्
उपनिषत्
अथ खल्वियं सर्वस्यै वाच उपनिषत् । सर्वा होवेमाः सर्वस्यै वाच उपनिषदः । इमां त्वेवाचक्षते । पृथिव्या रूपं स्पर्शा अन्तरिक्षस्योष्माणो दिवः स्वराः । अग्ने रूपं स्पर्शा, वायुरुष्माण आदित्यस्य स्वराः । ऋग्वेदस्य रूपं स्पर्शा, यजुर्वेदस्योष्माणः सामवेदस्य स्वराः । चक्षुषो रूपं स्पर्शाः श्रोत्रस्योष्माणो मनसः स्वराः । प्राणस्य रूपं स्पर्शा अपानस्योष्माणो व्यानस्य स्वराः ।
भाष्यम्
अथ सर्ववाग्विषया विद्योच्यते । विष्णुशब्दार्थत्वात् सर्ववाचाम् । पूर्वोक्ता अपि सर्ववागुपनिषद एव । तथापि मुख्यत एव सर्ववाग्विषयत्वाद् वक्ष्यमाणामेव 'सर्वस्यै वाच उपनिषत्' इति सर्वेऽप्याचक्षते । पृथिव्यादिस्थितो विष्णुः पृथिव्याद्यभिधानवान् । स्पर्शादीनां देवताऽसौ क्रमेणैव प्रकीर्तितः ॥
भावप्रदीप:
'अथ खल्वियं' इत्येतत्खण्डं व्याचष्टे - अथेति । सर्वस्यै वाचे सर्वस्या वाचः उपनिषत् रहस्यरूपा लौकिकवैदिकसर्ववाग्विषयका इयं वक्ष्यमाणा विष्णुनामार्थविषयिणी विद्येोच्यत इत्यर्थ इति भावः । कथं वक्ष्यमाणविद्यायास्सर्ववाग्विषयकत्वमित्यतस्तत्र हेतुं स्वयमाह - विष्विति ।। विष्णुशब्दस्य योऽर्थस्तदर्थकत्वात्सर्ववाचामित्यर्थः । 'सर्वा ह्येवेमास्सर्वस्यैवाच उपनिषदः' इत्येतद्व्याचष्टे पूर्वोक्ता इति ।। तथापीति श्रवणात् यद्यपीति प्राक् पूरणीयम् । 'इमां त्वेवाचक्षते' इत्यस्यार्थमाह- तथापीति ।। ' पृथिव्या रूपं स्पर्शाः' इत्यादिकं व्याचष्टे-पृथिव्यादिस्थित इति ॥