तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम् ..

अथ चतुर्थ खण्ड:

प्रपदऊरुउदरेत्यादिशब्दानां इतिहासः

उपनिषत्

तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम् । यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मात् प्रपदे तस्मात् प्रपदे इत्याचक्षते । शफाः खुरा इत्यन्येषां पशूनाम् । तदूर्ध्वमुदसर्पत् । ता ऊरू अभवताम् । उरू गृणीही - त्यब्रवीत् । तदुदरमभवत् । उर्वेव मे कुर्वित्यब्रवीत् । तदुरोऽभवत् । उदरं ब्रह्मेति शार्कराक्ष्या उपासते, हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैव ता ३ ई । ऊर्ध्वं त्वेवोदसर्पत् । तच्छिरोऽश्रयत । यच्छिरोऽश्रयत तच्छिरोऽभवत् । तच्छिरसः शिरस्त्वम् । ता एताः शीर्षंच्छ्रियः श्रिताः,चक्षुः श्रोत्रं मनो वाक्प्राणः । श्रयन्तेऽस्मिंच्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेद ।

भाष्यम्

तमिमं प्रथमज्ञानिपुरुषं चतुराननम् । वासुदेवाभिधं ब्रह्म प्राप प्रपदयोः पुरा ॥ यस्मात् प्रपेदे भगवान् प्रपदाच्चतुराननम् । तस्मात् प्रपदनादेव प्रपदं नाम कीर्तितम् ॥ चतुर्मुखाकारवतां नृणां पादतलोपरि । प्रपदाख्या वर्ततेऽतो न तु पश्वादिनां क्वचित्॥ अयादूर्ध्वं ततो विष्णुः प्रपदादूरुमत्र च । स्थित ऊरू च तावास्तामूरूर्ध्वगमनाद्धरेः ॥ ककिञ्चिदूर्ध्वं ततो गत्वा वायुना सह केशवः । वायुमाहोरुगरणं कुर्वत्र स्थित इत्यपि ॥ उर्वेव गरणं चक्रे वायुर्यत्र स्थितः सदा । तत्स्थानमुदरं नाम पुनराह जनार्दनः ॥ उरु स्थानं निवासं मे कुरु विस्तारसंयुतम् । तथाऽकरोत् स वायुश्च तदुरोऽभूदुरुत्वतः ॥ उरोमध्ये च हृदयं तत्रावासो हरेः सदा । सूक्ष्मदृष्टियुता ये तु मुनयः शार्कराक्ष्यकाः ॥ उदरे ते परं ब्रह्म वासुदेवमुपासते । हृत्स्थमेव परं विष्णुं ध्यायन्त्यारुणयः सदा ॥ उदरस्थं च हृद्गं च ते उभे ब्रह्म तत्परम् । एकमेव यतस्तस्मादुभये ह्यपि तद्विदः ॥

भावप्रदीप:

तं प्रपदाभ्यां प्रापद्येत' इति खण्डं व्याचष्टे - तमिममिति । अयं पुरुष इति प्राक् जीवमात्रस्य प्रकृतत्वादत्रापीमं पुरुषमिति जीवमात्रपरामर्श इति प्रतीतिनिरासाय तं प्रथमं ज्ञानिपुरुषमिति सविशेषणमनूय चतुराननमिति व्याख्यानम् । तमित्यस्यैवार्थः प्रथम- मिति ज्ञानीति च । तच्छब्दस्य प्रसिद्ध्यर्थत्वात् । प्रसिद्ध ह चतुराननो ज्ञानिषु प्रथमत्वेन । चतुर्मुखब्रह्मव्यावृत्त्यै वासुदेवाभिध- मिति विशेषणम् । तदेव ब्रह्म' इत्यादिश्रुतेर्ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् । प्रपदाभ्यामिति तृतीया सप्तम्यर्थेति भावेनोक्तम्- प्रपदयोरिति ।। पुरा आदिसृष्टौ । 'यत् प्रपदाभ्या' मित्यादेर्व्याख्या- यस्मादित्यादि ।। प्रपदात् प्रपदावच्छेदेन । तस्मादित्यस्यैव त्रिवरणम् - प्रपदनादेवेति । प्रपदनावच्छेदकत्वादेव चतुर्मुखपादो- परितनभागरूपम प्रपदमिति कीर्तितमित्यर्थः । नन्वस्तूक्तप्रवृत्ति- निमित्तसद्भावाच्चतुर्मुखपादोपरिभागस्य प्रपदशब्दवाच्यत्वम् । अन्येषा- मपि तत्कथमित्यतस्तत्र निमित्तकथनपूर्वकं 'तस्मात्प्रपदे तस्मात् प्रपदे इत्याचक्षते' इति प्रयोगबाहुल्यज्ञापकद्विरुक्तेस्तात्पर्यमाह- चतुर्मुखेति । पुरुषाकारवतां नृणामित्युपलक्षणम् । देवादीनां चेत्यपि द्रष्टव्यम् ।शफाः खुरा इत्यन्येषा' मित्यस्य तात्पर्यम्न त्विति । पश्वादिनां पश्वादीनां । ' तदूर्ध्वमुदसर्पदि त्यादि व्याचष्टे - अयादित्यादिना ।। ततोऽनन्तरम् । ब्रह्मदेहे प्रपदादूर्ध्व- मुरुमयात् । यात्वा च अत्र उरौ स्थितः । अतो हरेरूर्ध्वगमना- निमित्तात् तौ चतुर्मुखसम्बन्धिनावयवविशेषौ ऊरू ऊरुशब्दवाच्या- वास्तावभूतामित्यर्थः । ऊर्ध्वशब्दोपपदाद् 'ऋ गतौ' इति धातोः कुः । ऊर्ध्वशब्दस्य ऊभावो निर्वचनत्वात् । 'उरु गृणीहीत्यब्रवीत् दुदर- मभवत्' इत्येतद् व्याचष्टे - किञ्चिदिति । ततः ऊरुतः । अत्र वायुना सहेत्यनेन पूर्वमपि वायुना सहैव स्थानद्वयप्राप्तिर्बोद्धव्या । अन्यथा मध्ये ऊरुस्थानादूर्ध्वगमनसमये वायुसहभागोत्ययोगात् । गरणं स्तुतिम् । अपिशब्द एवार्थः । अत्र स्थाने स्थितस्सन्नेव उरु उत्कृष्टं गरणं कुर्विति वायुमाहेति योजना । एतेनोरु यथा भवति तथा मां गृणीहि स्तुहीत्याज्ञापनं वायुमुद्दिश्यैवेति ज्ञापितं भवति । आज्ञप्तश्च वायुर्यत्र स्थाने सदा स्थितः सन्नुर्वेव गरणं चक्रे तत्स्थान- मुदरं नामाभवदित्यनेनोदरशब्दनिर्वचनं कृतं भवति । उशब्द उरु- शब्दपर्यायः । उत्कृष्टवाचित्वात् । गरशब्दे गस्य दः । तथा चोरु गृणात्यत्रेत्युदरमिति गृणातेरच् । ' उर्वेव मे कुर्वित्यब्रवीदित्येतद् व्याचष्टे - पुनराहेति ॥ उर्वित्यनुवादेन विस्तारसंयुतमिति व्याख्यानम् । निवासं वासयोग्यम् । इतीत्यध्याहार्यम् । तत्स्थान- मुरोऽभवत् । कुतः, उरुत्वतः । 'हृदयं ब्रह्मेत्यारुणयः' इति हृदय- स्थस्य ब्रह्मोक्तिः कथं सङ्गच्छते । प्राक्तनस्थानस्यानुक्तत्वादित्यत आहउरोमध्य इति ।। तथाचोरःकथनेनैव हृदयस्यापि लक्षणया सङ्गृहीतत्वात्तत्स्थस्य ब्रह्मत्वोक्तिर्नासङ्गतेति भावः । 'उदरं ब्रह्मेति शार्कराक्षा उपासते' इत्येतद् व्याख्यातुं शार्कराक्षपदं तावद् व्याचष्टे - सूक्ष्मेति ।। शर्करावत् सूक्ष्मं शार्करं सादृश्यार्थेऽण् । शार्कर- मक्षमक्षाद्भवज्ञानं येषां ते मुनयः शार्कराक्षकाः इत्यर्थः । 'उदरं ब्रह्मोपासते' इत्यस्यार्थमाह- उदरे त इति । एतेनोदरमिति प्रथमा सप्तम्यर्थे । 'सप्तसु प्रथमा' इति सूत्रात् । तस्मिन्नुदरनामकं ब्रह्मास्तीत्युपासत इति तद्वाक्यं व्याख्यातं भवति । 'हृदयं ब्रह्मेति वाक्यं व्याचष्टे- हृत्स्थमेवेति ॥ हृद्ययनाद्धृदयशब्दवाच्यं विष्णुं ध्यायन्तीत्यर्थः ।ब्रह्मा हैव ता इ' इत्येतद् व्याचष्टेउदरस्थं चेति ॥ चेति ये भगवद्रूपे ते उभे अपि तत्परं ब्रह्मैकमेव । न तत्र भेदशा कार्या । यत एवं तस्मादुभयेऽपि शार्कराक्षा आरुणयश्च मुनयः तद्विद एव ब्रह्मविद एव । हि प्रसिद्धमित्यर्थः ।।

Load More