अविस्मृतित्वान्मेधा स दृष्टिर्दर्शनरूपतः
एष ब्रह्मा, एष इन्द्रः, एष प्रजापतिः..
स एतेन प्रज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्य ..
जानन्त्याऽपि देव्या लोकानुग्रहार्थं विशेषज्ञानार्थं ..
यत्प्रेरणादयं जीवो दर्शनादीन् करोति च
प्रजापतिः शिवः, लिङ्गाभिमानित्वात्
क्षुद्रमिश्राणीव बीजानि शाल्यादिबीजवत्
'स एतेने 'त्यलोकशब्दोक्तो मुक्तः परामृश्यते
अनारब्धफलानां च प्रारब्धानां च सर्वशः
कोऽयमात्मेति वयमुपास्महे
अथ द्वतीयारण्यके षष्ठोऽध्यायः प्रथम खण्ड:
भगवतल्लक्षणनिरूपणम्
उपनिषत्
ॐ कोऽयमात्मेति वयमुपास्महे । कतरः स आत्मा । येन वा पश्यति । येन वा शृणोति । येन वा गन्धानाजिघ्रति । येन वा वाचं व्याकरोति । येन वा स्वादु चास्वादु च विजानाति ।
रमामहिदाससंवादः
भाष्यम्
अयं विष्णुर्हि किंरूप उपास्योऽस्माभिरच्युतः । इत्यपृच्छद् रमा देवी महिदासं जनार्दनम् ।। आह तां महिदासोऽथ पूर्णानन्दतमस्त्विति । उपास्यस्तादृशो ह्यस्य स्वभावः परमात्मनः ।। येन जीवो दर्शनादीन् प्रेरितः कुरुते सदा ।
भावप्रदीप:
पूर्णानन्दतमं सर्वप्रेरकं सर्वनायकम् । मोक्षदं भोगदं चैव मुकुन्दं भज मे मनः ।। 'कोऽयमात्मा' इति खण्डं व्याचष्टे - अयं विष्णुरिति ॥ अत्र 'कोऽयमात्मे 'ति प्रश्नः कस्येति न ज्ञायते । आत्मशब्देन पूर्वं विष्णोरेव प्रस्तुतत्वात् पुनः 'कोऽयमात्मा' इति प्रश्नोऽप्यनुपपन्न एव । ‘कोऽयमात्मे’तिवत् ‘कतरः स आत्मे' त्यपि प्रश्नान्तर्भूतमिति भाति । तथात्वे च तस्योत्तरमुत्तरत्र न प्रतीयते । अतः प्रश्नोत्तर - वाक्ये सम्यग्व्याचष्टे - अयमित्यादिना ।। तत्रात्मशब्दार्थो- विष्णुरिति । क इत्यस्य - किं रूप इति । रमादेवीति प्रश्न- कर्तृनिर्देशः । कतर इत्यस्य व्याख्यानं - पूर्णानन्दतमस्त्विति । इत्युपास्य इत्यन्वयः । ‘स आत्मा' इत्यस्यार्थस्तादृशो ह्यस्य स्वभावः परमात्मन इति । पूर्णानन्दतमत्वं नागन्तुको धर्मः किन्तु स्वभाव एवासावित्यर्थः । ' येन वा पश्यती' त्यादिकं सर्वेन्द्रिय- व्यापरोपलक्षकमित्यभिप्रेत्य सङ्ग्रहेण व्याचष्टे - येनेति ।। येन प्रेरित इत्यन्वयः ।।