अथ हास्मा एतत्कृष्णहारीतो वाग्ब्राह्मणमिवोपोदाहरति
तस्यै वा एतस्यै संहितायै णकारो बलम् षकारः प्राण आत्मा
एतद्ध स्म वैतद्विद्वांस आहुः ऋषयः कावषेयाः
ता एताः संहिता नानन्तेवासिने प्रब्रूयात्..
य एतेन 'ण' इति शब्देनाक्रियमाणं विष्णोः पूर्णबलं..
यद्वयं संहितायुक्तत्वेन वचोऽधीमहे तेनास्माकं णशब्दषशब्दार्थरूपो विष्णुरुपात्तः
सर्वैश्च वैदिकपदैरपि लोकशब्दै-र्मेघाग्निवारिधितलादिरवैश्च सर्वैः
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं ..
हनुशब्दो ज्ञानवाची हनुमान् मतिशब्दितः
साधको रामवाक्यानां तत्समीपगतः सदा
पूर्णानन्दगुणोदारधाम्ने नित्याय वेधसे । अमन्दानन्दसान्द्राय प्रेयसे विष्णवे नमः
अथ हास्मा एतत्कृष्णहारीतो वाग्ब्राह्मणमिवोपोदाहरति
अथ तृतीयारण्यके द्वितीयोऽध्यायः षषट: खण्ड:
आयासपरिहाराय ब्रह्मणा हरिस्तुतिः कृता
उपनिषत्
अथ हास्मा एतत्कृष्णहारीतो वाग्ब्राह्मणमिवो- पोदाहरति । प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत संवत्सरः । स च्छन्दोभिरात्मानं समदधात् । यच्छन्दोभिरात्मानं समदधात् तस्मात् संहिता ।
भाष्यम्
संवत्सर इति विशेषणाद्विरिञ्च एवात्र प्रजापतिः । ' ब्रह्मा विश्वः कतमः स्वयम्भूः प्रजापतिः संवत्सरः' इत्यादि श्रुतेः । श्रान्तो ब्रह्मा सर्ववेदैः स्तुत्वा नारायणं प्रभुम् । तेनैव सम्यक्सन्धाय दाढ देहस्य सोऽकरोत् ॥ सन्धानात् संहितेत्युक्तो विष्णुरेव सनातनः ।
भावप्रदीप:
‘अथ हा स्मा एतत्कृष्णहारितः' इत्येतत्खण्डं व्याचष्टे - संवत्सर इत्यादिना ।। तत्र 'प्रजापतिः प्रजाः सृष्ट्वा ' इत्यत्र प्रजापतिशब्दः 'प्रजापतिः शिवः शेफो लिङ्गमित्यभिधीयते' इत्यादिवचनाद्रुद्रपर इति प्रतीतिनिरासाय सोपपत्तिकं विवक्षितं तदर्थमाह- संवत्सर इति ।। संवत्सरशब्दश्च विरिञ्चपर इति प्रागुपपादितमेवेति भावः । श्रुतिमप्यत्रार्थे प्रमाणयति - ब्रह्मेति । समग्रं खण्डं प्रमाणेनैव व्याचष्टे - श्रान्तो ब्रह्मेत्यादिना ।। प्रजाः सृष्ट्वा श्रान्तः सन् श्रान्तिपरिहाराय सर्ववेदैर्नारायणं स्तुत्वा तेनैव स्तुतेन नारायणेनैव स्वदेहं सन्धाय देहस्य दाढर्त्यमकरोदित्यन्वयः । अत्र 'श्रान्त' इति ‘व्यश्रंसते’त्यस्यार्थः । ‘सर्ववेदैस्तुत्वे' त्यनेन 'छन्दोभि 'रित्यस्य, 'नारायणं स्तुत्वे 'ति शेषेणान्वयः सूचितः । तेनैव सम्यक् सन्धायेत्यनेन 'आत्मानं स्वदेहं छन्दोभिस्स्तुतेन हरिणा समदधात् ' इति मूलव्याख्यानं सूचयति ‘यच्छन्दोभिरात्मानं समदधात्तस्मात्संहिता' इत्येव्याचष्टे – सन्धानादिति ।। स्वदे ब्रह्म सन्धितत्वादित्यर्थः ।।