यदक्षरं पञ्चविधं समेति युजो युक्ता अभियत् संवहन्ति

।।  अथ तृतीयाध्याये अष्टम: खण्डः ।।

भगवतः स्त्रीपुरुषरूपनिरूपणम् तत्रैव देवादीनां विहार :

उपनिषत्

तत्रैते श्लोका:- यदक्षरं पञ्चविधं समेति युजो युक्ता अभियत् संवहन्ति । सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥ यदक्षरादक्षरमेति युक्तं युजो युक्ता अभियत् संहन्ति । सत्यस्य सत्यमनु यत्र युज्यते तत्र देवाः सर्व एकं भवन्ति ॥

यदक्षरमिति श्लोकार्थनिरूपणम्

भाष्यम्

यन्नारायणादिरूपेण पञ्चविधमक्षरं परं ब्रह्म तत्स्वस्मिन्नेव स्त्रीपुं- रूपेण समेति । स्त्रीपुंरूपेण युजो देवा अश्वरूपेण रथे युक्ताः सन्तो यन्नारायणाख्यं परं ब्रह्माभिसंवहन्ति । तदेतत्सत्यस्य सत्यं नारायणाख्यं ब्रह्म यत्रानुयुज्यते यस्मिन् स्वरूप एव स्त्रीपुंरूपेण युज्यते । तत्र तस्मिन् एव परे ब्रह्मणि नारायणाख्ये सर्वदेवा एकीभवन्ति मुक्ताः सन्तो मिलिता भवन्ति ॥

भावप्रदीप:

अस्मिन्खण्डे पूर्वखंडप्रतिपादितेऽर्थे प्रमाणत्वेन प्रथमं श्लोका उदह्रियन्ते । तान् प्रकृतसङ्गतत्वेन व्याचष्टे - यन्नारायणादीति । स्त्रीपुंरूपेण स्त्रीपुंसरूपेण । समासान्तो विधिरनित्य इति । यद्वा स्त्रिया सहितः पुमान् स्त्रीपुमान् तद्रूपेणेति मध्यमपदलोपी- कर्मधारयोऽयम् । अचतुरा' दिसूत्रं तु द्वन्द्वविषयम् । 'सत्यस्य । सत्यं सत्यं सत्यस्यापि सत्यताप्रदं मुख्यसत्यमिति यावत् । यस्मिन् स्वरूप एव मूलरूप एव ।।

Load More