तद्वा इदं बृहतीसहस्रं सम्पन्नम्

।।  अथ तृतीयाध्याये पञ्चम: खण्डः ।।

बृहतीसहस्रसम्पादनविषये विप्रतिपत्तिः

उपनिषत्

तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तद्धैतदेके नानाच्छन्दसां सहस्रं प्रतिजानते । किमन्यत्सत् । अन्यद् ब्रूयामेति, त्रिष्टुप्सहस्रमेके, जगतीसहस्रमेके, अनुष्टुप्सहस्रमेके ।

भाष्यम्

तदिदमुक्तप्रकारेणैव बृहतीसहस्रं सम्पन्नं भवति । तदेके नाना- च्छन्दसां सहस्रं शंसितव्यमेव बृहतीसहस्रसम्पादनमविवक्षितमिति प्रतिजानते । केचित् त्रिष्टुप्सहस्रमेव शंसितव्यमिति ॥

भावप्रदीप:

'तद्वा इदं बृहतीसहस्रं ' इति खण्डं व्याचष्टे - तदिदमुक्त - प्रकारेणेत्यादिना ।। तत्र बृहतीसहस्रसंपादनप्रकारस्य प्राङ् निरू-पितत्वात्तन्निरूपणीयान्तरस्याभावाद्व्यर्थमेवेदं तद्वा इदमित्यादिकथन- मित्याशङ्कय मतान्तरप्रतिशेधार्थं प्रागुक्तप्रकारतावधारणाय पुनः- प्रस्तावनार्थत्वात् नेदं व्यर्थमित्याशयेनादिमवाक्यं व्याख्याति- तदिदमुक्तेति ॥ तदिदं बृहतीसहस्रं उक्तप्रकारेणैव यावतीभिः ऋग्भिः शंसिताभिः षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्त्यः शंसनीया इत्याद्यत्युक्तप्रकारेण शंसनं कृतं चेदेव संपन्नं भवति नान्यथेत्यर्थः । स्यादेतद्बृहतीसहस्रसंपादनस्योक्तप्रकारतावधारणं यदि तत्संपादनमेव कर्तव्यं स्यात् । नैतदस्ति । त्रिष्टुबादिसहस्राणामपि शंसनसंभवादित्याशङ्कच प्रतिषेधार्थं मातान्तरमनुवदति- तद्वैक इति ॥ तव्याचष्टे - तदेक इति । तत् तत्र शंसनविषये । नानाछन्दसां नानाछन्दस्कानामृचां सहस्रम् । एवमनियममतमनूद्य नियममतान्त- राण्यनुवदति - त्रिष्टुप् सहस्र मेक इत्यादि ।। तदिदं नानाछन्दसां सहस्रमित्यस्यैव विवरणमिति प्रतीतिनिरासयैतेषां मतान्तरत्वज्ञापना- योपलक्षणयैकं वाक्यं सावधारणं व्याचष्टे- केचिदिति ॥ एवं केचिज्जगतीसहस्रमेव शंसितव्यमिति । केचिदनुष्टुप्सहस्रमेव शंसि- तव्यमिति प्रतिजानत इत्यपि द्रष्टव्यम् ।।

Load More