तत्रैक आहुरगुणं ब्रह्मेति । न तद्युक्तं श्रुतियुक्तिविरोधात्

ब्रह्मणस्सगुणत्वे परकृताक्षेपस्यानुवादनिरासौ

मूलम्

३- मूलम्- तत्रैक आहुरगुणं ब्रह्मेति । न तद्युक्तं श्रुतियुक्तिविरोधात् ॥

टीका

टीका- एतत्समर्थयितुं मायावादिनां विप्रतिपत्तिं तावदुद्भावयति-तत्रेति ॥ तत्रावसरे । एतदुक्तं भवति । ब्रह्म तावन्निर्गुणम् । 'केवलो निर्गुणश्च' इत्यादिश्रुतेः । सगुणत्वसाधकप्रमाणाभावाच्च । तस्य चाशेषगुणपूर्तिप्रत्याशा जलाभ्यवहारासमर्थनस्य मुमूर्षोः शष्कुलीभक्षणप्रत्याशायिता । तथा च कथमसिद्धयाऽशेगुणपूर्त्या ब्रह्मणो महत्वसाधनम् । किन्तु सर्वात्मकत्वेनेति । प्रतिविधत्तेनेति ।। युक्तशब्दश्शोभनपर्यायः । यथाऽऽह भिक्षुः । तया च युक्तिविरोधान्न युक्तमिति न साध्याविशिष्टता। युत्क्त्युपेतमिति व्याख्यानमसत् । प्रमाणाधीनत्वात्प्रमेयसिद्धेः प्रामाणिकमिति वक्तव्यत्वात् । लक्षणायाः प्रयोजनाभावात् । प्रतिज्ञाध्याहाप्रसङ्गाच्च । श्रुतियुक्तिविरोधादिति तत्र हेतुं बदता ब्रह्मणः सगुणत्वेऽशेपगुणपूर्णत्वे च प्रमाणसद्भावोऽपि सूचितः । यद्यप्यत्र महतां प्रत्यक्षमपि ग्रहीतुं शक्यते । तथापि तत्सद्भावः श्रुत्यादिनैव साधनीय इति गौरवान्नोपात्तम् । न त्वभावात् उत्तरत्र ग्रहणाच्च ।

भावदीपः

(रा. टि) तत्रेत्यनुवादः, अवसर इति व्याख्या । 'अशेषगुणपूर्तेः महद्भि तत्परं ब्रह्म' इत्युक्तिसमय इत्यर्थः । तेनावसरसङ्गतिरुक्ता भवति । ननु नाशेषगुणपूर्णं ब्रह्मेत्याक्षेप्तव्यम् । न त्वगुणं ब्रह्मेति । सगुणं ब्रह्मेत्युक्तावेवागुणं ब्रह्मेत्याक्षेपस्य सङ्गतत्वादेवमाक्षेपस्य निर्वाजत्वाचेत्यत आह-एतदुक्तं भवतीति ।। प्रत्याशायितेति ।। प्रागुक्तकैमुत्याक्षेपाभिप्रायेणागुणमित्युक्तिरिति भावः । कथं तर्हि महत्वमिति भावेन कृतस्य किन्त्विति प्रश्नस्योत्तरम्-सर्वात्मकत्वेनेतीति ।। प्रतिविधत्ते इति ।। निषेधतीत्यर्थः । न युक्तमित्यस्य युक्तिविरुद्धमित्यर्थत्वे वक्ष्यमाणदोषादाह- युक्तशब्द इति ।। युत्क्त्युपेत-मित्यर्थोऽस्त्वित्यत आह-युत्क्त्युपेतमिति ॥ ननु युक्तमित्यत्र युक्तिशब्दे प्रमाणमात्रलक्षणाऽस्तु । तथा च न युक्तमित्यस्य न प्रामाणिकमित्यर्थः स्यादित्यत आह-लक्षणाया इति ।। प्रतिज्ञाध्याहारेति ।। तद्‌गुणत्वं न प्रामाणिकमतो न समञ्जसमिति प्रतिज्ञाध्याहारं विना आकाङ्क्षापूर्तेरभावादिति भावः । एतच्चोपलक्षणम् । 'न चैको देवः' इत्यादिना निर्गुण इति पराभिमत प्रमाणस्याशङ्कयमानत्वात् कथमप्रामाणिकत्वोक्तिः, श्रुतियुक्तिविरोधाच्चेति चशब्दाध्याहारापाताच्चेत्यपि ध्येयम् । सूचित इति ।। तादृशप्रमाणेनैव विरोधस्य वाच्यत्वादिति भावः । यद्यप्यत्रेति ॥ श्रुतियुक्तीतिवाक्ये प्रत्यक्ष-श्रुतियुक्तिविरोधादिति वक्तुं शक्यत्वादित्यर्थः । न त्वभावादित्यत्र ज्ञापकमाह-'अशेषविशेषवचनानुभवयुक्तिविरोधच्च' इत्यत्रानुभवपदेन उत्तरत्रेति ॥ प्रत्यक्षस्य ग्रहणादित्यर्थः ।

विवरणम्

(श्री. टि.) अवसर इति ।। ब्रह्मणो गुणपरिपूर्णत्वेन महत्वमुक्त्वा नाम्नो महार्थत्वमङ्गीकृत्य महानाम्नीशब्दव्याख्यानावसर इत्यर्थः । ननु महानाम्नी-शब्दव्याख्यानस्योक्तरीत्या त्वयापि वाच्यत्वाद् ब्रह्मणो महत्वं त्वयापि क्तव्यमेव । तत्कथमिति पृच्छति किन्त्विति ।। उत्तरमाह-सर्वात्मकत्वेनेति ।। सर्वपदार्थात्मकत्वेनैव ब्रह्मणो महत्वं वाच्यमित्यर्थः । ननु न तद्युक्तमित्यत्र नञो विरुद्धार्थत्वाद् युक्तिविरोधाद्युक्तिविरुद्धमिति साध्या-विशिष्टतेत्यत आह-युक्तशब्द इति ।। युक्तशब्दस्य शोभनपर्यायत्वम-प्रामाणिकमित्यत आह- यथाहेति ॥ भिक्षुः कश्चिनिघण्टुकारो युक्तशब्दस्य शोभनपर्यायत्वं स्वकृतनिघण्टावाहेत्यर्थः । नरहरितीर्थश्रीपादानां व्याख्यान-मनूद्य दूषयति-युत्क्त्युपेतमिति ।। ब्रह्मणो निर्गुणत्वमसिद्धं यतस्तद्युत्क्त्युपेतं नेति हेतुप्रतिपादकमिदं वाक्यं तन्मत इति द्रष्टव्यम् । प्रमाणेति ।। 'मानाधीना मेयसिद्धिः' इति निर्गुणत्वरूपप्रमेयाभावे साधनीये प्रमाणाभाव एव हेतूकर्तव्यो न प्रामाणिकमिति वक्तव्यम् । न तु तद्विशेषाभावो हेतूकार्यः । तथात्वे पर्वतीयवद्धेः प्रत्यक्षासिद्धतया तदभाव एव स्यादित्यर्थः । प्रामाणिकमितीति ।। न प्रामाणिकमित्यत्र प्रतियोग्यंशमात्रानुवाद इति ध्येयम् । तर्हि युक्तिपदमेव प्रमाणमात्रोपलक्षकं अस्त्वित्यत आह-लक्षणाया इति ॥ प्रयोजनेति ।। न हि मुख्यार्थानुपपत्तिमात्रेण लक्षणा किन्तु प्रयोजने च सति। यथोक्तम्- 'मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्यार्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया।' इति । न च तदत्रास्तीत्यर्थः । रूढलक्षणत्वान्न प्रयोजनापेक्षेत्यत आह-प्रतिज्ञेति ।। यद्यपि श्रुतियुक्तिविरोधादिति हेत्वोर्न तद्युक्तमिति प्रतिज्ञाऽस्त्येवेति नाध्याहारः, तथापि न युक्तमित्यस्य तन्मते निर्गुणत्वसिध्यभावे हेतुत्वेन ब्रह्मणी निर्गुणत्वमसिद्धं यतस्तत्र युक्तं न प्रामाणिकमिति वाक्यार्थी वाच्यः । तथा च युत्त्युपेतत्वाभावहेतोत्रंह्मणो निर्गुणत्वमसिद्धमिति प्रतिज्ञाध्याहारप्रसङ्गादित्यर्थः ।

केचित्तु यतो न युक्तं न प्रामाणिकम् अतो निर्गुणत्वमसदिति पूर्ववाक्यार्थे लब्धे श्रुतियुक्तिविरोधादित्यस्य च निर्गुणत्वासिद्धावेव हेत्वन्तरत्वे चशब्दाभावदोषप्रसङ्गः । तस्मान्निर्गुणत्वासिद्धिसाधकमप्रामाणिकत्वं असिद्धमिति शङ्कायामप्रामाणिकत्वसाधनार्थं श्रुतियुक्तिविरोधादिति वाक्यं प्रवृत्तमिति वाच्यम् । एवं च श्रुतियुक्तिविरोधादिति हेत्वोर्नचाप्रामाणिकत्वं असिद्धमिति प्रतिज्ञाध्याहारप्रसङ्गादित्यर्थ इत्याहुः ननु सगुणत्वसाधकप्रमाणाभावादुक्तमसद् इत्युक्तमेवेति चेत्तत्राह श्रुतीति ।। तत्र निर्गुणत्वपक्षस्याशोभनत्वे । तथा च सगुणत्वसाधकप्रमाणाभावोऽसिद्ध इति भावः । अत्र सगुणत्वे । महतां ब्रह्मादीनामपरोक्षज्ञानिनाम् । तदीयप्रत्यक्षस्य सगुणत्वावगाहित्वात् । तथा च सगुणत्वसाधकश्रुतियुक्तिप्रत्यक्षविरोधादिति वाच्यमिति भावः । तत्सद्भावः तदीयप्रत्यक्षसद्भावः । श्रुत्यादिनैवेति ।। आदिपदेन तदनुगृहीतानुमानसङ्ग्रहः । तदीयप्रत्यक्षस्यास्माभिः प्रत्यक्षेण निश्चेतुमशक्यत्वादित्येवशब्दार्थः । गौरवाद् यत्नगौरवात् । अभावादेव तन्नोपात्तमिति किं न स्यादित्यत आह-उत्तरत्रेति ।। 'अशेषविशेषवचनानुभवविरोधश्च' इति वाक्य इत्यर्थः ।

कर्मप्रकाशः

(स.टि) यथाह भिक्षुरिति ।। एवमेव भिक्षुराहेति अर्थः। अध्याहारेति ।। युक्तिविरुद्धत्वान्न युक्तं न प्रामाणिकम् । ततश्च परमशोभनमिति परम-प्रतिज्ञाध्याहारप्रसङ्गाच्चेत्यर्थः । एतेन प्रतिज्ञासद्भावादध्याहारप्रसङ्गादित्यभिधानमयुक्तमिति परास्तम् । परमप्रतिज्ञाध्याहारस्यैवापादनात् । उत्तरत्रेति ।। अशेषवचनानुभवयुक्तिविरोधश्चत्युत्तरत्र ग्रहणादित्यर्थः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) तत्रेत्यस्य महत्वे इत्यर्थभ्रातिं वारयति-तत्रावसर इति ॥ अशेषगुणपूर्तेरिति हेतुकथनकाले इत्यर्थः । ननु अगुणं ब्रह्मेति प्रतिज्ञा अयुक्ता, हेतोरकथनादित्यत आह-एतदुक्तं भवतीति ।। शष्कुलीभक्षणप्रत्याशायितेति ।। शष्कुलीकठिनभक्षविशेषः । तद्भक्षणे या प्रत्याशापेक्षा तत्सदृशी । प्रत्याशाशब्दात् 'आचारार्थे कर्तुः क्यङ् सलोपश्च' इति क्यङ् प्रत्ययान्तात्कप्रत्ययः । ननु तर्हि ब्रह्मणो महतो महीयानित्यादिश्रुत्युक्तमहत्वं कथमिति शङ्कते - किंत्विति ॥ समाधत्ते-सर्वात्मकत्वेनेतीति ।। सर्वस्य रूपत्वं नेत्यर्थः । प्रतिविधत्त इति ।। एतत्पूर्वपक्षं निराकरोतीत्यर्थः । न च तद्युक्तमिति मूले नत्रो विरुद्धार्थकत्वात् युक्तिविरुद्धमित्यर्थप्रतीतेः श्रुतियुक्ति-विरोधादिति वक्ष्यमाणहेतुद्वयमध्यस्थयुक्तिविरोधादित्यनेन साध्याविशिष्टताशङ्कां वारयितुमाह-युक्तशब्दः शोभनपर्याय इति ।। 'युक्तमौपयिकं लक्ष्यम्' इत्यमरोक्तयुक्तशब्दस्य लक्ष्यार्थत्वेन शोभनस्यैव लब्धौ योग्यत्वेन युक्तशब्दस शोभनपर्यायत्वमुक्तम् । तथा च अगुणं ब्रह्मेति यन्मतं तन्न युक्तम् । न लभ्यम् । साधयितुमशक्यमिति यावत् । इति मूलस्यार्थ उक्तो भवति । तत्र संमतिमाह-यथाऽऽह भिक्षुरिति ।। क्षिभुर्नामकः कश्चित्कविः । बाधक्रीडा कृष्णदेवस्य युक्ता कृष्णेत्येतन्नाम तस्यैव युक्तमित्यादौ शोभनार्थे युक्तशब्द-प्रयोगात् । भिक्षुनामकस्य कवित्वं तु भुक्कण्णनामकविना स्वश्लोके कविभिः सह पाठात् सिद्धम् । 'भट्टिर्नष्टो भारविश्चैव नष्टः भिक्षुर्नष्टो भीमसेनोऽपि नष्टः । भुक्कण्णोऽहं भूपतिस्वं च राजन् भभ्भापंक्तावन्तकः संप्रविष्टः' ।। इति श्लोकः भुक्कण्णेन कविना अपराधे कृते राजाज्ञापितस्वमरणेन निवृत्त्यर्थं कृत्वा प्रेषितः । अस्यार्थस्तु हे राजन् मद्दुःखं श्रुणु । पूर्वं भट्टिनामकः कविर्नष्टः । पश्चात् भारविनामकः । तदनन्तरं भिक्षुनामकः । तत पश्चात् भीमसेननामकः। एवं चत्वारो नष्टाः । इदानीं पञ्चमः । अहं भुक्कण्ण उर्वरितः । षष्ठस्तु भूपतिस्त्वं । मम मरणे जाते तव मरणं प्रसक्तं भविष्यति । कुत इत्यतोऽत्र हेतुरुच्यते । यस्मात् अन्तकः मृत्युः भभ्भापंक्तौ भभाभिभीभुभू इति भकारपंक्ती संप्रविष्टः । अतो मम मरणं त्वया न कार्यमिति भावः । स्वव्याख्यानबीजमाह- तथा चेति ।। परव्याख्यानं दूषयति- युत्तत्युपेतमिति ।।

ननु ब्रह्मणो निर्गुणत्वस्य युत्त्युपेतत्वाभावकथनेन असत्वसाधनात् कथमिदं व्याख्यानमसदित्यत आहप्रामाणाधीनत्वादिति ।। युत्क्त्युपेतत्वाभावेऽपि श्रुतिप्रत्यक्षाभ्यां ब्रह्मणो निर्गुणत्वसाधनासंभवात् । असत्त्रसाधने सर्व-प्रमाणशून्यत्वस्यैव वक्तव्यत्वात् । युत्क्त्युपेतत्वमात्रनिराकरणमसदिति भावः । ननु लक्षणया युक्तिशब्देन श्रुत्यादिकं गृह्यत इत्यत आह-लक्षणाया इति ।। प्रतिज्ञाध्याहारेति ।। युक्तं नेति पदाभ्यां यच्छब्दाध्याहारेण हेतुकयनात् तच्छब्देन ब्रह्मणो निर्गुणत्वपरामर्शेऽपि अविद्यमानत्वरूपसाध्याध्याहासंगात् ब्रह्मणो निर्गुणत्वं यतो न युक्तं अतो न विद्यत इति वाक्यार्याप्रतीतेः प्रतिज्ञाध्याहारपदेन लक्षणया साध्याध्याहारग्रहणादिति भावः । सगुणत्वे इति ॥ यदि श्रुत्या गुणाः प्रतिपाद्यन्ते तदा तद्विरोधेन अगुणत्वं न स्यात् । तथा च तया श्रुत्या गुणसद्भावप्रतिपादनात् पूर्वोक्ताशेषगुणपूर्तेरिति हेतुसमर्थनं कृतं भविष्यति । गुणसद्भावसिध्या गुणाभावेन अशेषगुणाभावलक्षणकैमुत्य-न्यायस्यापाकरणादिति भावः । उत्तरत्र ग्रहणादिति ।। अशेषविशेषवत्वेनानुभवयुक्तिविरोधश्चेति वाक्ये इति शेषः । तत्रानुभवशब्दस्य उत्तरत्र अनुभवो योगिनां हिरण्यगर्भादीनां प्रत्यक्षं सविशेषविषयं पुराणादिसिद्धमिति व्याख्यास्यमानत्वात् ।