न च 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा

कार्यत्वानुमाने श्रुतिविरोधाभावस्योक्तिः

मूलम्

६-मूलम्- न च 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च' इत्यादिविरोधः । सत्वादिगुणाभावोक्तेस्तत्र । अन्यथा 'एको देवस्सर्वभूतेषु गूढः' इत्यादीनामपि गुणत्वात् स्वोक्तिविरोधः ॥

टीका

टीका-नानेनानुमानेन ब्रह्मणः सगुणत्वं सिद्धयति । निर्गुणत्व-श्रुतिविरोधादित्यत आह-न चेति ।। विरोधपरिहारसमुच्चितेनैवानुमानेन सगुणत्वं सिद्धयतीति चशब्दः समुच्चये । निर्गुणश्चेत्येतावदुदाहर्तव्येऽन्यांशोदाहरणमुत्तरत्रोपयोक्ष्यते । कुतो न विरोध इत्यत आह-सत्त्वादीति ॥ केवल इति शरीराभावे प्रतिपादिते तत्र हेत्वाकाङ्गायां शरीरसम्वन्धे कारणानां सत्त्वरजस्तमसां गुणानामभावस्तत्र श्रुतौ निर्गुणपदेनोच्यते । अतो भिन्नविषयत्वान्न विरोधः । प्रकृतगुणाभाव एवार्थः किं न स्यात् । कुतोऽर्थान्तरकल्पनेत्यत आह-अन्यथेति ।। श्रुतेरनुमित्सितगुणाभावपरत्वे स्वोक्तिविरोधः स्यात् । कुतः ? एको देव इत्यादिपदैरुक्तानामेकत्वादीनामपि गुणत्वात्स्वयमेवैकत्वादिगुणानभिधाय तदभावं वदन्ती श्रुतिः कथम् 'मे माता बन्ध्या' इतिवत् स्वोक्तिविरुद्धा न स्यात् । अतोऽर्थान्तरे योज्येति । एकत्वाद्यनुवादेन तदभावो बोध्यत इति चेन्न । ज्ञापकाभावेन वैपरीत्यस्यापि सम्भवात् ।।

भावदीपः

(रा.टि) अनुमानेनेति कार्यत्वानुमानोक्तिः । दुर्गमत्वात् न चेत्यत्र चशब्दार्थमाह विरोधेति ॥ न केवलं कार्यत्वानुमानात्कर्तृत्वसार्वज्ञादि गुणसिद्धिः । किन्तु नैर्गुण्यश्रुत्यविरोधाच्चेति चशब्दस्समुच्चय इत्यर्थः । श्रुत्यविरोधानुक्तौ चानुमानमात्रानेष्टसिद्धिरित्यर्थः । उत्तरत्रेति । 'अन्यथा' इतिवाक्ये । सत्त्वाद्यभावोक्तौ प्रसक्तिमाह केवल इतीति ॥ प्रकृतगुणेति ॥ सार्वज्ञसत्यकामत्वादिगुणेत्यर्थः । एको देव इत्यादिपदैरुक्तानामिति ॥ एकादिपदानामर्थः सूत्रभाष्यटीकायां व्यक्तः । ज्ञापकेति ॥ यत्तदाद्यनुवादलिङ्गाभावात् । लिङ्गाभावेऽप्यनुवादत्वकल्पनायां निर्गुण इत्यनूद्य एक इत्यादिना गुणविधिरेवेति वैपरीत्यस्यापि सम्भवात् । निषेधस्यापि 'मृडमृद' इत्यादिसूत्रेणापवाददर्शनादिति भावः । इति कार्यत्वानुमाने श्रुत्यविरोधोक्तिः ॥

विवरणम्

(श्री.टि.) निर्गुणत्वश्रुतीति ।। तत्प्रतिपादकश्रुतीत्यर्थः । पूर्वं निर्गुणत्वसाधक्युक्तिविरोधस्यापरिहृतत्वाद्विरोधपरिहारसमुच्चायक 'नच' इत्यत्रत्यन शब्दवैयर्थ्यमत्रेत्यत आह- विरोधेति ॥ समुच्चयप्रकारविवरणं विरोधेत्यादि । इत्येवंरूपेण समुच्चये चशब्द इत्यन्वयः । न केवलमनुमानेन सगुणत्वं सिध्यति । तत्रैतच्छ्रतिविरोधश्च नास्तीत्यर्थः । एतावतीति ॥ तदंशस्यैव पूर्वपक्ष्य‌भिप्रेतार्थसाधकत्वादिति भावः । उत्तरत्रेति ।। 'अन्यथा' इति स्वोक्तिविरोधदान इत्यर्थः । शरीराभाव इति ।। केवलशब्दस्य जडामिश्रत्वार्थकत्वादिति भावः । प्रकृतेति ।। अनुमिततया प्रकृतेत्यर्थः । अर्थान्तरेति ।। निर्गुणपदस्य सत्त्वादिगुणप्रतिषेधरूपार्थान्तरेत्यर्थः । अर्थान्ते सत्त्वादिगुणाभावरूपे । बोध्यत इति ।। निर्गुणपदेनेति शेषः । तथा च निषेधायानुवादरूपत्वानेकत्वादिगुणविधाने तात्पर्यम् । अतो न स्वोक्तिविरोध इति भावः । ज्ञापकेति ।। य एकत्वादियुक्ततया प्रतीतः स निर्गुण इत्तेवं यत्तदाद्युपन्धरूपस्यानुवादादिज्ञानकस्याभावादित्यर्थः । वैपरीत्यस्यापीति ॥ निर्गुणत्वमनूद्य तनिषेधायैकत्वादिगुणा एवाभिधीयन्त इति वैपरीत्यस्येत्यर्थः । न चाभावप्रतिपादकत्वानिर्गुण इत्यस्यैव निषेधपरत्वमस्त्विति वाच्यम् । तथात्वे 'निर्गुणश्च' इति श्रुतौ चशब्दानुपपत्तेरिति ध्येयम् ।।

कर्मप्रकाशः

(.टि) चशब्दः समुच्चय इति ।। न केवलं साधकमनुमानमात्रास्ति, किन्तु विरोधाभावश्चेति समुच्चये चशब्द इत्यर्थः । एकत्वादीनामपीति ।। एकत्वादीनामप्यनुमित्सितगुणत्यादित्यर्थः । पृथिव्याद्यतिरिक्तत्वेति ।। यद्यपि तार्किकमते क्षेत्रज्ञानामिव परमात्मनोऽपि आत्मपदार्थान्तर्भावात् पृथिव्याद्यतिरिक्तत्वमसिद्धम् । तथापि न शङ्कितुर्मतेऽसिद्धिः । 'स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुर्भावाभावौ द्विधेतरत् ।।' इति वाक्यं दृष्ट्ा भावाभावसंज्ञा परमेश्वरातिरिक्तस्यैव न परमात्मनः । ततश्च नात्मपदार्थे परमात्मनोऽन्तर्भाव इति मन्यमानस्य पूर्वपक्षित्वात् ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) 'न च एको देव' इति मूले चशब्दस्य समुच्चेतव्यंत वदन् तस्य समुच्चेतव्यत्वमुपपादयति विरोधपरिहारेति ।। तथा च अनुमानेन सगुणत्वसाधने विरोधो न चास्तीति विरोधाभावः समुच्चीयते इत्युक्तं भवति । 'एको देव' इति श्रुत्यादेरयमर्थः एको मुख्यः सर्वोत्तमः देवः क्रीडादि-गुणविशिष्टः सर्वभूतेषु गूढः सर्वप्राणिषु हृदयगुहायां विद्यमानः सर्वव्यापी सर्वस्य बहिः आधाररूपेणापि व्याप्तः । सर्वभूतान्तरात्मा न केवलं आकाशवत् सर्वभूतान्तर्बहिश्च व्याप्तः । किन्तु सर्वभूतानां स्वस्वव्यापारेषु अन्तःप्रेरकः कर्माध्यक्षः कर्मणां तत्तज्जीवकृतसुकृतदुष्कृतानां अध्यक्षः स्वामी फलदातेति यावत् । सर्वभूताधिवासः सर्वस्य जडचेतनात्मकस्य अधिवासः सत्ताप्रतीतिप्रवृत्तिकर्तृत्वेनाश्रयः । साक्षी साक्षात् परनिरपेक्षेण सर्वद्रष्टा । 'साक्षाद्रष्टरि संज्ञायां' इति पाणिनिस्मरणात् । चेता ज्ञानस्वरूपः । केवलः नित्यमुक्तः । 'मुक्तिः कैवल्यनिर्वाणं' इति अमरकोशे तद्धर्मस्य मुक्तित्वोक्तेः। केवलो जडामिश्र इति तु संप्रदायविदः । निर्गुणश्च सत्वादिगुणरहितश्चेति । ननु श्रुतिविरोधोक्तौ 'एको देव' इत्यादेरुपयोगाभावात्किमर्थमुपन्यास इत्यत आह उत्तरत्रेति ।। परिहार इत्यर्थः । ननु विधिप्रकरणे सत्वादिगुणनिषेधस्य कः प्रसङ्ग इत्यत आह-केवल इतीति ।। केवलशब्देन नित्यमुक्तत्वोत्क्त्या चिदानन्दैकशरीरवत्वेऽपि जडशरीराभावे प्रतिपादित इत्यर्थः । प्रकृतेति ॥ क्षित्पादिकं सकर्तृकं कार्यत्वादित्याद्यनुमानप्रकृतेत्यर्थः । मूले 'एको देवः सर्वभूतेषु गूढः इत्यादीनामपि गुणत्वादिति कथमुच्यते । 'एको देव' इति श्रुतिप्रतीकग्रहणेन एकादिशब्दानां शब्दपदार्थकत्वेन गुणत्वाभावादित्यतो व्याचष्टे एक इति ॥ इत्यादीनामिति पदेन लक्षणया तत्त्पदोक्तानां ग्रहणात् नासङ्गतिरिति भावः । ज्ञापकाभावेनेति ।। यः एकत्वदिमान् स निर्गुण इति यत्तच्छब्दादिज्ञापकाभावेनेत्यर्थः । वैपरीत्यस्य निर्गुणश्चेति निर्गुणत्वानुवादेन एको देव' इति सगुणत्वविधानस्यापीत्यर्थः । उपलक्षणमेतत् । चशब्द-विरोधाच्चेत्यपि द्रष्टव्यम् । न च निर्गुणपदस्यान्त्यत्वादभावप्रतिपादकत्वाच्च गुणनिषेधपरत्वमिति वाच्यम् । चशब्दविरोधस्यापरिहारात् ।