तथाहि श्रुतिः । सत्यं ज्ञानमनन्तं ब्रह्म । विज्ञानमानन्दं ब्रह्म

ब्रह्मणो निर्गुणत्वपक्षे श्रुतिविरोधकथनम्

मूलम्

४-मूलम् तथाहि श्रुतिः । सत्यं ज्ञानमनन्तं ब्रह्म । विज्ञानमानन्दं ब्रह्म । यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम-रूपमन्नं च जायते । दिव्योऽह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रओ ह्यक्षरात्परतः परः । एतावानस्य महिमाऽतो ज्यायांश्च पुरुषः। यो नः पिता जनिता यो विधाता धामानि बेल पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः । विष्णोर्न कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि । परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । न ते विष्णो जायमानो न जातो देव महिम्न: परमं तमाप इत्यादिका ।।

टीका

टीकाः- काऽसौ ब्रह्मणो निर्गुणत्वविरोधिनी सगुणत्वस्याभिधात्री श्रुति: का वाऽशेषगुणपूर्त्यभिधायिकेत्यत आह तथाहीति ॥ अत्र अनन्तम्, एतावान्, पूर्णमदः, सर्वकर्मा विष्णोर्नुकम्, परोमात्रया, न ते विप्णावित्येताः श्रुतयोऽशेषगुणपूर्तेरभिधात्र्यः । शेषाः सगुणत्वमात्रस्येति विवेकः । ताभिरपि सगुणत्वं सिद्धयति इति सङ्करेणोदाहरणम् । एतासां गुणगुणिभावविषयत्वं (परब्रह्मविषयत्वं च) ब्रह्मपरत्वं च साधयिष्यते । सत्यमनन्याधीनस्वरूपं विश्वसत्तानिमित्तं वा । ज्ञानं सर्वविषयज्ञान-स्वरूपम् । प्रत्येकं ह्येतानि ब्रह्मलक्षणानि । 'यः सर्वज्ञः' इति वक्ष्यमाणश्रुत्यनुरोधाच्च । विज्ञानानन्दशब्दावप्येवमेव व्याख्येयौ । अनन्तं देशकालगुणपरिच्छेदरहितम् । सर्वज्ञः सर्वविदिति सर्वसामान्यविशेष-विषय (विशेषाकार) ज्ञानवत्तोच्यते । विद्लृ लाभ इत्यस्य इदं वा छन्दसि रूपम् । आप्तकाम इत्यर्थः । तस्माद् यस्य तपो ज्ञानस्वरूपम्, न त्वालोचनात्मकं सन्तापात्मकं वा । अज्ञो हि आलोचयते अप्राप्त-कामस्तपस्यति । 'स तपस्तप्त्वा' 'इदं सर्वमसृजत' इत्यस्य व्याख्यानमेतत् । एतत् ब्रह्म हिरण्यगर्भाख्यम् । दिव्योऽद्भुतः अमूर्तो नियत-परिच्छिन्नपरिमाणरहितः । किन्तु बाह्य आभ्यन्तरश्च । 'अप्राणो ह्यमनाः' इति पोडशकलाराहित्यमुच्यते । शुभ्रः शुद्धः । 'अपरं त्वक्षरं या सा' इत्युक्तप्रकारेण अक्षरात्परतः परः । सर्वैस्तैरजत्यमुपपायते । न केवलं एतावानस्य महिमा किन्त्वतो ज्यायांश्र पुरुषः । पितृत्त्रमनेकवियमित्यतो जनितेत्युक्तम् । जनयितेत्यर्थः । 'जनिता मन्त्रे' इति निपातनात् । यद्यपि विपूर्वी दधातिः करोत्यर्थः । तथापि पुनरुक्तिप्रसङ्गात् विशेषेण बाता विधातेति व्याख्येयम् । अभ्यात्त इति कर्तरि क्तः । न विद्यते वाक्यमनृतं यस्यासाववाक्यः । न विद्यते आदरो मिथ्याभिनिवेशो यस्यासौ नादरः । अवाक्यश्चासौ नादरश्चेति बहुलग्रहणात्समासः । कं प्रयोचमिति विभक्तिपुरुव्यत्ययेन कः प्रावोचदित्यर्थः । इत्यादिकेत्यनेन यात्रती ब्रह्मविषया श्रुतिः सा सर्वापि गृह्यते । न हि सा श्रुतिरस्ति या न किञ्चिद्विधत्ते प्रतिषेधति च इति ।

भावदीपः

(रा.टि.) अनन्तमिति 'सत्यम्' इति वाक्यस्थम्, एतावानस्य महिमेत्ये-तदेतावानित्यनेन गृह्यते । नन्वेवम् 'विज्ञानमानन्दम्' इत्यादेः सगुणत्ववाचिनां मध्ये पाठः, 'सत्यं ज्ञानं' इति गुणमात्रवाचिनः पूर्वं पाठ इति साङ्कर्यं कुतः ? प्रकरणपरिशुद्ध्या कुतो नोक्ताः श्रुतय इत्यत आह-ताभिरिति ।। पूर्णतावाचिनीभिरित्यर्थः । श्रुतीनां लक्षर्णया निर्विशेषचिन्मात्रपरत्वं मन्वानं प्रत्याह - एतासामिति ।। 'न च निर्विशेषं नाम किञ्चिदस्ति' इत्यादिना गुणगुणिभावविषयत्वम्, 'न च सिद्धेऽर्थे' इत्यादिनाऽनीश्वरमतमायामतमपास्य ब्रह्मपरत्वं साधयिष्यत इत्यर्थः । सत्यादिपदानां लक्षणपरत्वात्तत्तद्वाक्य-मसाधारणधर्मरूपलक्षणपरं यथा भवति तथाऽर्थमाह-सत्यमनन्याधीन-स्वरूपमिति ।। सत्यशब्दस्य सच्छब्दपर्यायत्वात्, सच्छब्दस्य च 'सत्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे' इति स्मृतेः, असम्भवस्तु सतोऽनुपपत्तेः इति सूत्रे सत इत्यस्य स्वतन्त्रस्येति व्याख्यानेन स्वतन्त्रे प्रयोगाच्च स्वतन्त्रार्थकत्वमिति भावः । सत्यमित्यस्य 'सत्यस्य सत्यम्' इति श्रुतेर्वा, सत्वं यापयतीति व्युत्पत्तिबलाद्वाऽर्थमाह-विश्वसत्तानिमित्तं वेति ।॥ एवं कुतो व्याख्येयम् ? सत्यरूपं ज्ञानरूपम् इत्येवाऽर्थोऽस्तु । न चेदमति. प्रसक्तम्, सत्यत्वे सति ज्ञानत्वे सत्यनन्तत्वं विशिष्टमेकं लक्षणमिति हास्त्वित्यत आह-प्रत्येकमिति ।। असमासेन निर्देश एव प्रत्येकलक्षणत्वे ज्ञापकमिति भावः । एतानीति । अनन्तत्वाद्यपेक्षया बहुवचनम् । न केवलं प्रत्येकलक्षणादनतिव्याप्यर्थमेवमर्थ उच्यते । किन्तूत्तरवाक्यबलाचेत्याह-यः सर्वज्ञ इति ।। ।। तत्र सर्वविषयकज्ञानरूपत्वप्रतीतेरिति भावः ।

अपौनरुत्तत्यायाह- सामान्याकारेति ॥ विद्लृ लाभ इत्यस्येति ॥ सर्वं विन्दत इति सर्वविद् इत्यर्थः । 'सत्यूद्विषद्रुहदुहयुजविदभिदच्छिदजिनी-राजामुपसर्गेऽपि क्विप्' इति तृतीयद्वितीयपादीयसूत्रेण 'विद ज्ञाने' इत्यस्यैव क्विपो विधानेनास्य धातोरविधानाच्छन्दसि रूपमित्युक्तम् । लब्धार्थमाह-आप्तकाम इत्यर्थ इति ॥ सर्वज्ञः सर्वविद इति द्वयं 'ज्ञानमयं तपः' इत्पत्र हेतुरिति भावेन योजयति-तस्मादिति ।। सर्वज्ञत्वात्, सर्ववित्त्वपदोक्ताष्ठ-कामत्वाचेत्यर्थः । एतेन 'तस्मात्' इत्यग्रेतनपदमत्राप्याकृष्यत इति दर्शितम् । अस्पष्टत्वात्रत्वित्युक्तार्थे इमौ हेतू इति भावेन व्यनक्ति-अज्ञो हीति ॥ कुत्रस्थस्य ह्यस्य तपःपदस्य व्याख्येयमित्यत आह-स तपस्तप्त्वेति ।। यद्यपि 'तपसा चीयते ब्रह्म' तपसा चीयते सम्बध्यते अतपदिति यावत्, इति पूर्ववाक्योक्ततपःशब्दस्य व्याख्यानमेतदिति प्रतीयते । तथापि तस्य स्पष्टत्वात् स्थलान्तरगतस्याप्येतद्व्याख्यानमिति ज्ञापनाय वाक्यान्तरे तप्त्वा इति तपःकरणस्य स्पष्टत्वात्तत्प्रदर्शितम् । 'इदं सर्वमसृजत' इति वाक्यशेषोक्तिः । विश्वसृष्ट्यर्थत्वात्तपस आलोचनाद्यात्मकत्वभ्रमस्यात्र व्याख्यानवीजस्य सूचनायेति ज्ञेयम् । एतद्ब्रह्मचतुर्मुखाख्यम्' इत्याथर्वणभाष्यानुसारादाह-एतद्ब्रह्मेति ।। दिव्यो दिविज इति भ्रमनिरासायाह-दिव्योद्भुत इति ॥ 'अणोरणीयान्' इत्यादिश्रुतेः परिच्छिन्नापरिच्छिन्नपरिमाणस्य सत्त्वादाह-नियतेति ।। तर्हि किंरूप इति भावेन कृतस्य किन्त्विति प्रश्नस्योत्तरत्वेन श्रौतवाक्यशेषमाह-बाह्य आभ्यन्तरश्रेति ।। वहिरन्तर्व्यापीत्यर्थः । विभागे-नोत्तया बाह्यानां वस्तूनामाभ्यन्तर इति व्याख्या निरस्ता ।

षोडशकलेति ।। 'प्राणाच्छ्रद्धां खं वायुर्जोतिराषः पृथिवी इन्द्रियं मनोऽनमनाद्वीर्यं तपो मन्त्राः र्मक लोकाः लोकेषु नाम च' इति षट्पभोक्तपोठशकलाराहित्यमुपलक्षणत्वेन ग्राह्यमित्यर्थः । इत्युक्तप्रकारेणेति ।। 'अपरन्त्वक्षरं या सा प्रकृतिर्जडरूपिका । अक्षरं परमं श्रीस्तु परतः परमक्षरम् । वासुदेवः परानन्दः' इत्याथर्वणभाष्योक्तप्रकारेण अक्षराज्जडप्रकृतेः परतः श्रीतत्वात्पर इत्यर्थः । प्रकृतिपरत्वाद्युक्तेः क उपयोग इत्यत आह-सर्वेरेतैरिति ।। दिव्यत्वादिविशेषणैरित्यर्थः । अजत्वोपपादनम् 'अक्षरा-त्सम्भवतीह विश्वम्' इति प्रागुक्तविश्वकर्तृत्वोपयोगितयेति योज्यम् । एतावान् महिमेत्युत्क्त्वा ततो ज्यायस्त्वोक्तेव्र्व्याहतत्वनिरासाय काङ्घितपूर्त्या योजयति-न केवलमिति ।। मुक्तामुक्तवर्गनियामकत्वादिप्रागुक्तमस्य पुरुषस्य एतावानेव न केवलमेतावान् अत एतस्मादपि महिम्नो ज्यायानुत्कृष्टमहिमेत्यर्थः । स च महिमा अस्मदुक्तपुरुषसूक्तार्थे व्यक्तः । अनेकेति ।। 'जनिता चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः' इति वचनादिति भावः । निपातनादिति ॥ णिचो लोपेनोत्त्वादङ्गपाद इत्यर्थः । विशेषेण धातेति ।। धारणपोषणयोः कर्तेत्यर्थः । पूर्णमदः इत्यादिवाक्यं मूलरूपावताररूपपरतया सूत्रंभाष्यादौ व्यक्तमिति भावः । कर्तरि क्त इति ॥ अभि आदत्त इदं सर्वमित्यभ्यात्तः । 'अच उपसर्गात्तः' इति ददातेस्तत्वेऽभ्यात्त इति रूपम् । नसमासत्वात् 'नलोपो नञः' इति न भवतीति भावेनोक्तम्-नादर इति ।। बहुलेति ।। विशेषणं विशेष्येण बहुलम्' इति बहुलग्रहणाद् विशेषणयोरपि समास इत्यर्थः । विभक्तीति ।। कमित्यस्य क इति, प्रवोचमित्युत्तमपुरुषस्य प्रथमपुरुषतया व्यत्ययेनेत्यर्थः । 'व्यत्ययो बहुलम्' इति सूत्रादिति भावः । सा सर्वापीति ॥ ननु तावताज्ञानानन्दद्युतिबलौदार्यशौर्यादिभावधर्माणाम् अज्ञानदुःखपारतन्त्र्यादि. दोषाभावरूपाभावधर्माणामेतद्वह्मणि गुणत्वेनाभिमतानां कथं ततो लाभ इत्यत आह-न हि सा श्रुतिरित्यादि ॥ उक्तं हि 'संज्ञातश्चेत्तदुक्तम्' इति सूत्रभाष्ये. 'सर्वविद्या उक्त्वा सोऽहं नामविदेवास्मि, नात्मवित्', इति वचनात् सर्वस्य ब्रह्मनामत्वम् ।

विवरणम्

(श्री.टि) ननु तर्हीशेषगुणपूर्तिसगुणत्वाभिधायकश्रुत्योस्सङ्कीर्णतयोदाहरणं कस्मादित्यत आह-ताभिरपीति ।। अशेषगुणपूर्त्यभिधायिकाभिरपीत्यर्थः । सङ्करेण साङ्कर्येण मिश्रतयेर्त्यः । ननु ब्रह्मणो गुणात्मकत्वात् कथं श्रुतीनां सगुणत्वगुणपूर्णत्वाभिधायकत्वम् । अस्तु वा कथञ्चित् तत् तथाप्येताः श्रुतयः पह्मणः सगुणत्वादिकं न वदन्ति । निर्गुणत्वश्रुतिविरोधेन श्रुतीनां माया-कल्पितेश्वरपरतया मिथ्याभूतधर्मपरत्वादित्यत आह-एतासामिति ।। विषयत्वं प्रतिपादकत्वम् । साधयिष्यते गुणगुणिभावोऽविशेषत्वखण्डनेन साधयिष्यते । ब्रह्मविषत्वन्तु निर्गुणत्वप्रतिपादकश्रुतिविरोधपरिहारेण मिथ्याविशेषत्वखण्डनेन सत्वं यापयतीति सत्यमिति निर्वचनसूचितं अभिप्रेत्याह-विश्वेति ।। 'सद्भावं यापयेद्यस्मात् सत्यं तत्तेन कथ्यते' इति वचनादिति भावः । ज्ञानस्वरूपत्वस्य जीवेऽपि सत्वादाहज्ञानमिति ।। ननु सत्यादिशब्दानामबाध्यत्वादिरेवार्थः कुतो न व्याख्यायते किमनन्याधीनेत्यादि व्याख्यानेन । पृथग्लक्षणत्वा-ज्ञापकाभावादित्यत अह-प्रत्येकं हीति ।। 'किं तद्ब्रह्म' इति ब्रह्मलक्षणे पृष्टे हीदं प्रवृत्तमिति प्रसिद्धमिति हिशब्देन व्याचष्टे । यः सर्वज्ञ इतीति ॥ एवमेवेति ।। सर्वविषयकज्ञानरूपत्वाद्विज्ञानम् अपरिच्छिन्नानन्दरूपत्वादानन्दम् इत्येवं विज्ञानानन्दशब्दौ यथा सत्यादिशब्दवद् ब्रह्मलक्षणप्रतिपादनपरौ स्यातां तथा व्याख्ख्येयावित्यर्थः । देशेत्यादि ।। देशकालगुणैर्यः परिच्छेद इत्यत्ता तद्रहितमित्यर्थः । व्याप्तं नित्यं गुणपूर्णम् चेत्यनन्तशब्दार्थो द्रष्टव्यः ।

पुनरुक्तेराह-सर्वज्ञ इति ।। जगति सामान्याकारविशेषाकारयोस्तत्त्वेन भगवज्ज्ञानस्य च विद्यमानाशेषविषयकत्वाज्जगनिष्ठसामान्यविशेषाकार-भगवज्ज्ञानस्य च विषयकज्ञानवत्तोच्यत इत्यर्थः । 'विद ज्ञाने' इत्यस्य रूपमित्यङ्गीकृत्य पुनरुक्तिरित्युत्क्त्वा लाभार्थकविदधातोरिदं रूपमित्यपुनरुक्तिरिति पक्षान्तरमाह-विद्लृ लाभ इत्यस्य वेदमिति ।। ननु लाभार्थकत्वे सर्वविदित्यनुपपत्रम् । तथाहि विद् अस्मात् 'अनुपसर्गाल्लिम्पविन्दधारिवेद्युदेजिचेति सातिसाहिम्यश्च' इति शप्रत्ययः । 'पाघ्राध्माधेदृशः' इति पूर्वसूत्रात् श इत्यस्यानुवृत्तेः । तथा च 'लशकतद्धिते' इति शकारलोपे, विद् अ इतिजाते, 'शे मुत्रादीनाम्' मुचविदलुपसिचेत्यादीनां शे परे नुमागमः स्यादिति नुमि मित्वादिकारात्परे जाते, तस्यानुस्वारे विन्देति जाते सर्वविन्देति भवेत् सर्वविदिति त्वयुक्तमेवेत्यत उक्तम् छन्दसीति ।। 'क्विप्  च' इति सर्वधातुभ्यः किविधानाल्लाभार्थकविदेः किप्प्रत्यये सर्वस्य तस्य लोपे दस्य च तत्वे सर्वविदिति युक्तमिति भावः । तस्मात् सर्वज्ञत्वादाप्तकामत्वाचेत्यर्थः । ननु कुतः प्रमाणाद्भगवतस्तपः प्रमितं येन तत्रालोचनात्मकत्वसन्तापात्मकत्व शङ्कायां तदनूद्य तस्य ज्ञानमयत्वमुच्येतेत्यत आह- स तप इति ।। तथा चास्यां श्रुतौ भगवतस्तपः प्रतीतौ तस्य च तपसः 'तपः आलोचने' 'तपः सन्तापे' इत्यालोचनात्मकं सन्तापात्मकं वेत्युच्यते । तत्रालोचनात्मकं कुतो नेत्यतो यस्सर्वज्ञ इत्युक्तम् । भगवान्नालोचनात्मकतपोवान् सर्वज्ञत्वादित्यनुमानेऽप्रयोजकताशङ्कायामुक्तम्-अज्ञो ह्यालोचयत इति ।। तत्र व्यतिरेकव्याप्तिरुक्ता। हिशब्द एवार्थे । अज्ञ एवालोचयते इत्यर्थः । तेन वह्निमत्वादेव धूमवत्त्वमितिवदेवकारमहिम्ना साध्याभावपुरस्सरा व्याप्तिर्लभ्यते । तथा सन्तापात्मकमेव तपः कुतो नेत्याकाङ्क्षायां सर्वविदित्युक्तम् । भगवान् न सन्तापात्मकतपोवान् आप्तकामत्वादित्यनुमानेऽप्रयोजकतापरिहाराय व्यतिरेकव्याप्तिरुक्ता अप्राप्तकामश्च तपस्यतीति ।। सन्तापात्मकतपः करिष्यतीत्यर्थः । अत्रापि चशब्दस्यैवार्थत्वात्तन्महिम्ना साध्याभावपुरस्सरव्याप्तिलाभइति द्रष्टव्यम् ।

'एतद्ब्रह्म चतुर्मुखाख्यम्' इत्याथर्वणभाष्यं मनसि निधायाह एतद्ब्रह्मेति ॥ नियतेति ॥ नियमेन परिच्छिन्नपरिमाणवानेव नान्यपरिमाण इति नेत्यर्थः । महत्परिमाणवानित्यर्थः । आभ्यन्तरः परिच्छिन्नपरिमाणवानित्यर्थः । तर्हि कीदृक्परिमाण इति पुच्छति किन्त्विति ।। उत्तरमाह- बाह्य इति ॥ एतत्परिमाणद्वयम् अचिन्त्यशक्त्या भगवत्यविरुद्धमिति द्रष्यव्यम् । यथोक्तम् विशेषनिषेधादितरकलासद्भावशङ्कायामाह अप्राण इति ॥ उच्यते लक्षणया 'तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च' इति । प्रतिपाद्यत इत्यर्थः । विनिगमनाविरहादुभयोर्लक्षकत्वमिति ध्येयम् । शुक्लरूप स्याजत्वानुपपादकत्वादाह शुभ्र इति ।। शुभ्रशब्दपर्यायश्वेतशब्दस्य 'शुद्धे सुखे श्वेतः श्वेतो वर्णः क्वचिद्भवेत्' इति शुद्धे प्रयोगादिति भावः । अपरमित्यादि ।। 'अपरन्त्वक्षरं या सा प्रकृतिर्जडरूपिका । श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया । तामक्षरं परं प्राहुः परतः परमक्षरम् ।।' इति स्कान्धे त्र्यक्षराभिधानाद् अक्षरात्परतः परः इत्यपि विशेषणमेव इति भाष्योक्तप्रकारेण अक्षराज्जडप्रकृतेः परो विष्णुरित्यर्थः । सर्वैरेतैरिति ॥ दिव्यत्वादिविशेषणैरित्यर्थः । अत एव हिशब्दानां प्रयोग इति द्रष्टव्यम् । अनेकविधंमिति ।। 'जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ।।' इति वचनादिति भावः । तर्हि मन्त्रे कुतो णिजनाश्रयणमित्यत आह- जनितेति ।। 'जनिता मन्त्रे' मन्त्रे णिलोपेन जनितेति निपात्यत इति सूत्रार्थः । करोत्यर्थ इति ।। करोतेरर्थः एवार्थों यस्यासौ करोत्यर्थः । करोतिसमानार्थ इत्यर्थः । पुनरुक्तीति ॥ जनितेत्यनेनेत्यर्थः । धातेति ॥ 'डुधाञ् धारणपोषणयोः' इति धातोर्धारण-पोषणकर्तेत्यर्थः । अभ्यात्त इत्यत्र अभ्यादीयत इत्यभ्यात्त इति कर्मणि क्तप्रत्ययाङ्गीकारे सर्वेणानेनाभ्यात्त इति वक्तव्यत्वापत्त्या सर्वमिदमभ्यात्त इत्यस्यानुपपत्तेः, अभ्यादानमभ्यात्त इति भावे क्तप्रत्ययाङ्गीकारे परमात्म-विशेषणानुपपत्तिः, भावे क्तप्रत्ययान्तस्य नपुंसकत्वनियमेन पुंलिङ्गत्वानुपपत्तिश्रेत्यत आह- कर्तरि क्त इति ।। तथा च अभि आपूर्वकाद् दात्रः क्तप्रत्यये पश्चाद् 'अच उपसर्गात्तः' उपसर्गात्परस्य घुसंज्ञकस्य दाधातोस्तकारादेशः स्यात् तप्रत्यये परे इत्युक्तत्वेन, 'दाधाध्वदाप्' दारूपा थारूपाश्च धातवो घुसंज्ञकाः स्युः इत्यस्य दारूपत्वेन घुसंज्ञकत्वात्तस्य तकारादेशे प्रत्ययस्थतकारे च मिलिते सत्यभ्यात्त इति रूपम् । तथा च सर्वमिदमभित आदत्त इत्यभ्यात्त इत्यर्थः । अनृतं भक्तविषय इति शेषः ।

नन्ववाक्यनादरपदयोः कथं कर्मधारयसमासः? 'विशेषणं विशेष्येण बहुलम्' भेदकं भेद्येन समस्यते यथा नीलोत्पलम् । एवं चावाक्यनादर-पदयोरुभयोरपि विशेषणत्वात् कथं विशेषणपदयोः परस्परं समास इत्यत आह- बहुलग्रहणादिति ।। क्वचित् स्यात् क्वचित् न स्यात् क्वचिदन्यदेव स्यादिति बहुलशब्दार्थः । एवं च सूत्रे बहुलग्रहणात् विशेषणयोरपि समासो युक्त इति भावः । कं प्रवोचम् इत्यसङ्गतमित्यत आह-विभक्तीति ।। प्रथमाविभक्तिप्रथमपुषयोर्व्यत्ययेन द्वितीयाविभत्त्युत्तमपुरुषौ द्रष्टव्यौ । 'व्यत्ययो बहुलम्' इति स्मरणादित्यर्थः । 'सुप्तिडुपग्रहलिङ्गनराणां कालहलंस्वर-कर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन' इति बृहद्भाष्योक्तेरिति ध्येयम् । यावतीत्यादि ।। ब्रह्मविषयत्वेन परसम्मता यावती श्रुतिरित्यर्थः । गृह्यत इति ॥ सगुणत्वे प्रमाणत्वेनेत्यर्थः । ननु 'आत्मा वा अरे द्रष्टव्यः' 'निरनिष्टो निरवद्यः' इत्यादिब्रह्मपरश्रुतौ गुणा-प्रतिपादनात् कथमेतदित्यत आह नहीति ।। तथा च दर्शनकर्मत्वरूपो दोषाभावरूपश्च गुणः प्रतिपाद्यत एव । 'दोषाभावो गुण इति प्रसिद्धो लौकिकेषु' इति वचनेन दोषाभावस्यापि शुभधर्मत्वेन गुणत्वादिति भावः ।

कर्मप्रकाशः

(स.टि) सत्यं ज्ञानमित्यस्यां श्रुतौ ज्ञानपदं सर्वविषयज्ञानपरं बोध्य-मित्याह-ज्ञानमिति ।। कुतः सर्वविषयज्ञानपरमित्यत आह-प्रत्येकमिति ॥ हि यस्मात्सत्यं ज्ञानमित्यादीनि प्रत्येकं ब्रह्मलक्षणानि तस्मात् ज्ञानपदं सर्वविषयज्ञानपरमित्यर्थः । अन्यथा ज्ञानस्वरूपमस्मदादिसाधारणमित्यतिव्या स्यादिति भावः । हेत्वन्तरमाह यः सर्वज्ञ इति ।। यः सर्वज्ञ इति श्रुतौ सर्वविषयज्ञानस्य गृहीतत्वादत्रापि ज्ञानपदं सर्वविषयज्ञानपरमिति भावः । एवमेवेति ।। अतिव्याप्तिपरिहाराय विज्ञानशब्दः सर्वविषयज्ञानस्वरूपार्थतया आनन्दशब्दोऽपरिच्छिन्नानन्दस्वरूपार्थकतया व्याख्येय इति भावः । ईश्वरातिरिक्तसर्वज्ञानवत्त्वमर्थः 1 सर्वविदित्यस्येश्वरगताशेषधर्मज्ञान-सर्वसामान्यविशेषाकारज्ञानवत्तोच्यत इति ॥ सर्वसामान्याकारज्ञानमिति जगद्ज्ञानसंज्ञा । जगद्ज्ञानगताकारस्य रमाब्रह्माद्यनेकप्रतिपत्तृसाधारणत्वात् । सर्वविशेषाकारज्ञानमिति ।। ब्रह्मगताशेषधर्मज्ञानसंज्ञा । ततश्च सर्वज्ञ इत्यस्य यद्यप्याचं लक्षणं रमाब्रह्मादावतिव्याप्तमिति भाति । तेषां सर्वज्ञत्वात् । तथापि निरतिशयस्पष्टत्वादिविशेषस्य विवक्षितत्वात् नातिव्याप्तिरिति बोध्यम् । अत एव स्वपरगताखिलविशेषविषयमिति भेदेन विषयद्वयमुक्तम्। । सर्वविच्छन्दस्य अर्थान्तरं वक्तुं विदितिरूपसिद्धिमाह-विद्लृ लाभ इतीति ॥ छन्दसीति ।। क्विप् चेति ।। सर्वधातुभ्यः छन्दसि क्विपो विधानात् किन्तमेतद्रूपमिति भावः । कर्तरि क्त इति ।। अभि आङ्‌पूर्वाद्ददातेः कर्तरि क्तप्रत्यये अच उपसर्गात्त इति दा इत्यस्य त इत्यादेशे अभ्यात्त इति रूपमिति भावः । ननु विशेषणं बहुलमिति विशेषणविशेष्ययोः समासविधानादनयोर्विष्णु-विशेषणत्वेन विशेष्यवाचकपदाभावात्कथमत्र समास इत्यत आह- बहुल-ग्रहणादिति ।।

गूढवाक्यार्थपञ्चिका

(छ.टि.) अत्र पूर्वं ब्रह्मणो महत्वोपपादनार्थं अशेषगुणपरिपूर्त्येरिति हेतुरुक्तः । तत्सिद्धयर्थं प्रमाणमपेक्षितम् । तथा कैमुत्यन्यायेन एतद्धेतु निराकरणाय मायिना अगुणत्वे उक्ते तन्निराकरणाय वक्तव्ये सगुणत्वे प्रमाणं वाच्यमिति भावेन शङ्कते काऽसाविति ।। मूलोदाहृतश्रुतिषु मध्ये सगुणत्वाभिधात्रीणां श्रुतीनां बहुत्वात् । ताः विहाय अशेषगुणपरिपूर्त्यभिः धात्रीः श्रुतीः प्रतीकेन दर्शयति-अत्रेति ।। अत्र 'सत्यं ज्ञानमनन्तम्' इति श्रुतौ अनन्तमिति पदमेकमेव अशेषगुणपूर्णत्वाभिधायकं 'मय्यनन्तगुणेऽनन्ते' इति भागवते अनन्तशब्दव्याख्यानात् सत्यं ज्ञानमिति तु सगुणत्वाभिवायकं । 'एतावानस्य महिमा' इत्यत्र तु पूर्वोक्तसहस्रशीर्षत्वादिगुणानुवादपूर्वकं 'अतो ज्यायांश्च पुरुष' इति सामान्यत अधिकगुणत्वोक्तेः अशेषगुणपूर्णत्वं सिद्धचति । 'पूर्णमद' इत्यत्र तु प्रतियोग्यनुक्तेः सर्वगुणानां अनन्तत्वात् अशेषगुणपरिपूर्णत्वसिद्धिः । 'सर्वकर्मा' इत्यत्र तु सर्वकर्तृत्वादिगुणानां उपलक्षकत्वोक्तेः तत्सिद्धिः । विष्णोर्नुकमित्यत्र वीर्यशब्दे बहुवचनस्य प्रभृत्यर्थकत्वेन गुणार्थकत्वात् वाक्यार्थमर्यादया तत्सिद्धिः । 'परो मात्रया । न ते विष्णोः' इत्यत्रापि तथा । ननु अगुणत्वखण्डनावसरे सगुणत्वमात्रसाथनस्योपयुक्तत्वात् । सकलगुणपूर्त्यभिधानस्य अनुपयुक्तत्वात् । तत्प्रतिपादक-श्रुत्युदाहरणं असङ्गतमित्यत आह-ताभिरपीति ।। अशेषगुणपूर्णत्वपराभिरपीत्यर्थः ।

ननु सत्यज्ञानादिवाक्यानां अखण्डार्थनिष्टत्वेन स्वरूपपरत्वात् कयं गुणगुणिभावप्रतिपादकत्वम् । तथा पुरुषसूक्तस्य शबलप्रतिपादकत्वेन ब्रह्म-प्रतिपादकत्वाभावात् । कथं तेन ब्रह्मणः सगुणत्वसिद्धिरित्यत आह-एतासामिति ।। सत्यमनन्याधीनस्वरूपमिति ।। 'सत्यं तथ्यमृतं सम्यक्' इत्यमरोक्तेः सत्यशब्दः यथार्थस्वरूपवाची । 'मुख्यामुख्ययोः मुख्ये संप्रत्यय' इति न्यायेन अनन्याधीनत्वार्थकश्चेति भावः । विश्वसत्तानिमित्तं वेति ॥ सच्छब्दस्य 'सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते' इति गीतोक्तेः । सत्तार्थकत्वात् योग्यत्वेन विश्वविषयकत्वस्य विवक्षितत्वात् । तादृशसच्छब्द उपपदे यातेरन्तर्णीतण्यर्थादातोऽनुपसर्गे कः' इति कप्रत्यये सत्यमिति रूपम् । तथा च विश्वस्य सत् सन्तां यापयतीति ब्रह्म सत्यमित्यवयवार्थः । विश्व-सत्तानिमित्तमिति तु तात्पर्यार्थ इत्यवगन्तव्यम् । तथा चानुव्याख्यानं-'सद्भावं यापयेद्यस्मात्सत्यं तत्तेन कथ्यते इति । भावशब्दस्य धर्मार्थकत्वात् सद्भा सत्तामित्यर्थः । एवं गीतायामपि सद्भावे इत्यस्य सत्तायामित्यर्थो बोध्यः सच्छब्दनिष्पत्तिस्तु असभ्वीत्यतः लटि शत्रादेशे छान्दसत्वात् जस्त्वाभाव बोध्या । ननु 'ब्रह्म विदाप्नोति परं' इत्युक्ते किं लक्षणकं ब्रह्मेत्यपेक्षायां प्रवृत्तमिदं वाक्यं 'सत्यं ज्ञानमनन्तम्' इति । तत्रैकैकस्य पदस्य अतिव्याप्त्याद्यभावात् कथमिदं विशिष्टमेकं लक्षणमित्यत आह-प्रत्येकमिति ॥ एतानि सत्यत्वादीनि त्रीणि । पूर्वोक्तव्याख्यानबलेन असाधारणधर्मत्वात् इति भावः । तत्र ज्ञाने युक्तत्यन्तरं चाह यः सर्वज्ञ इति ।। चकारात् ज्ञानमिति सामान्योक्त्या सर्वविषयकत्वसिद्धेश्चेति ज्ञेयम् । एवमेवेति ।। विज्ञानशब्दस्यादि सर्वविषयज्ञानार्थकत्वेन आनन्दशब्दस्य अपरिछिनसुखार्थकत्वेनेत्यर्थः । परिच्छेदरहितमिति । 'अन्तः स्यात् प्रान्तिके नाश' इति विश्वोक्ते: अन्तशब्दस्य चरमार्थकत्वेन तत्प्रतियोगित्वेन देशकालगुणानां ग्रहणात् । मुख्यामुख्यन्यायेन स्वतो व्याप्तत्वं नित्यत्वं परिछिन्नगुणशून्यत्वं अनन्तशब्दार्थ इत्युक्तं भवति ।

सर्वज्ञः सर्वविदितिशब्दयोः पुनरुक्तिपरिहारार्थमर्थभेदमाह-सर्वसामान्यः विशेषाकारेति ।। पदार्थनिष्ठप्रमेयत्वाभिधेयत्वादिरूप सामान्याकारत्वादि विशेषज्ञानशब्दद्वयेन पृथक् विवक्षितमिति न पुनरुक्तिरिति भावः । छन्दति रूपमिति ।। सत्यूद्विषेति ज्ञानार्थकविदेर्विहितोऽपि क्विप् । लाभार्थकविदेशी जातः अनुपसर्गाल्लिंपविन्देति लाभार्थकविदेर्विहितः शसुप्रत्ययस्तु अत्र 'सर्वे विधयः छन्दसि विकल्प्यन्ते' इत्युक्तेरिति भावः । तस्मादिति ॥ सर्व विच्छब्देन आप्तकामत्वोक्तेः तस्य सर्वज्ञशब्दस्य च हेतुगर्भत्वादिति भावः । नत्वालोचनात्मकं विचारात्मकमित्यर्थः । 'तप आलोचन' इति धातोः । संतापात्मकं वेति ।। 'तप संताप' इति धातोः कृच्छ्रचान्द्रायणादिः रूपमित्यर्थः । हेतुहेतुमद्भावं घटयति अज्ञो हीति ।। ननु कुत्रत्यतपः शब्दस्येदं व्याख्यानमित्यत आह स तपस्तप्त्वेति ।। तथा च स विष्णुः तप्त्वा कृत्वा इदं सर्वमसृजतेति तपः ज्ञानं तद्विषयीभूतमिति यावत् । तद्वाक्यार्थ उक्तो भवति । ब्रह्मशब्दस्य परब्रह्मत्वप्रतीतिं वारयन्नाह-हिरण्यगर्भाख्यमिति ।। दिव्योऽद्भुत इति ।। द्युप्रागपागुदप्रतीचो यदिति यत्प्रत्ययः । यद्यपि भावार्थे विहितः । तेन दिविभवत्वं नाम स्वर्गे विद्य-मानत्वमात्रं प्रतीयते । तस्येन्द्रादिसाधारण्येन विष्णुलक्षणत्वासंभवात् 'असाधारण्येन व्यपदेशा भवन्ति' इति न्यायेन अक्ष इत्यादिवत् दिवि आश्चर्यरूपत्वेन विद्यमानत्वाविवक्षणात् अद्भुत इत्युक्तम् ।

ननु इयत्तावच्छिन्नपरिमाणयोग्यत्वं मूर्तत्वं तदभावो ह्यमूर्तत्वम् । 'अणोरणीयान्' इति श्रुत्या अणुत्वोक्तेः कथममूर्तत्वसंभव इत्यत आह-अमूर्तो नियतपरिच्छिन्नपरिमाणरहित इति ।। अत्र परिच्छिन्नपरिमाणनियमाभावस्य विवक्षणानाणुत्वश्रुतिविरोध इति भावः । नियतपरिच्छिन्नपरिमाणाभावे कीदृशपरिमाणवान् विष्णुरिति किन्त्वित्यनेन शंकिते श्रुतावुत्तरमुक्तं स बाह्याभ्यंतर इति । बाह्यः परममहत्परिमाणवान् । आभ्यन्तरः दीर्घत्वाणुत्व-परिमाणवानिति । ननु अप्राणो ह्यमना इति परमात्मनः प्राणमनसोः निषेधो नोपपद्यते । प्राणाद्वायुरजायत चन्द्रमा मनसो जात' इति प्राणमनसोः सत्वसिद्धेरित्यतः पदद्वयोपलक्षितमर्थमाह-अप्राणो ह्यमना इतीति ॥ षोडशकलास्तु षट्प्रश्नान्तिमप्रश्नोक्ता ज्ञेयाः । तास्तु प्राणः, श्रद्धा, आकाशः, वायुः, तेजो, जलं, पृथिवीन्द्रियं, मनोऽनं, रेतस्तपो मन्त्रकर्मनामजीवाख्याः । तद्राहित्यं नाम तन्निमित्तसुखदुःखादिशून्यत्वम् । न तु तत्संबन्धशून्यत्वम् । स्वस्वामिभावसम्बन्धस्य प्रमाणसिद्धत्वात् । शुभ्रः परमेश्वरः शुक्लरूप इत्यर्थस्य स्फुटत्वात् षोडशकलराहित्योपपादकत्वेन शुभ्र-शब्दस्य अर्थान्तरमाह-शुभ्रः श्रुद्ध इति ॥ इत्युक्तप्रकारेणेति ।। 'अपरं त्वक्षरं या सा' प्रकृतिर्जडरूपिका 'श्रीः परा प्रकृतिः प्रोक्ता' इत्युक्तप्रकारेण अपराक्षरात् जडप्रकृतेः उत्तमायाः श्रीरूपायाश्चेतनप्रकृतेः पराक्षरात् परः हरिरित्यर्थः । एतैरिति ॥ दिव्यो ह्यमूर्तः पुरुष इत्यादिभिः । अत्र ज्ञापकं हिशब्दानां प्रयोग एव । अतो ज्यायांच पुरुषः इत्येतद्वाक्यमवतारयितुं 'एतावानस्य महिमा' इत्यनंतरं शेषमाह न केवलमिति ।। चशब्दादयमर्थो लभ्पते । अनेकविधमिति । 'जनिता चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भत्राता पञ्चैते पितरः स्मृताः ॥ इति स्मृतेरिति भावः । ननु जनितेत्पुत्र जनेः हेतुमण्यन्तात् तृचि इडागमे जनीज्रपिति मित्वात् 'अत उपधायाः' इति वृद्धः 'मितां ह्रस्वः' इति ह्रस्वत्वे णेः णेरनिटीति पर्युदासे नलोपाभावे गुणायादेशयोजनयितेति भाव्यम् । कथं जनितेत्यत आहजनितामन्त्र इति निपातनादिति ॥ डुधाञ् धारणपोषणयो' इति धातुरित्यर्थः । करोत्यर्थः करोतेः कुधातोः अर्थ इव अर्थो यस्यासौ तथोक्तः । कृधातुसमानार्थ इति यावत् । विशेषेण धातेति ।। धारणपोषणकर्तेत्यर्थः । एतादृशः यः स विष्णुः विश्वा विश्वानि भुवनानि पृथिव्यादीनि धामानि अनन्तासनादिखस्थानानि च वेद जानातीत्यर्थः । 'पूर्णमद' इत्यस्यार्थस्तु-अदो मूलरूपं पूर्ण देशतः कालतः गुणतश्चेति शेषः । इदं अवताररूपं च पूर्णम् । पूर्णात् मूलरूपात् पूर्ण अवताररूपं उदुच्यते व्यक्तं भवति । सृष्टिकाले इति शेषः । प्रलयकाले तु पूर्णस्य मूलरूपस्य सम्बन्धि यत्पूर्ण अवताररूपं तत् आदाय स्वस्मिन्नन्तर्भाव्य पूर्णमेव मूलरूपमेव शिष्यत इति। सर्वकर्मेत्यादेस्तु सर्वकर्त्ता सर्वशुभगन्धवान् इत्याद्यर्थो बोध्यः । अभ्यात इति ।। अभित आदत्त इत्यभ्यात्त इति विग्रहः । अभ्यापूर्वात् दाञः 'आदिकर्मणि क्तः कर्तरि च' इति सूत्रेण क्तप्रत्यये 'अच उपसर्गात्त' इति सूत्रेण दाधातोः तः स्यात् । क्तप्रत्यये परे तकारद्वयप्रश्लेषात् सर्वदेशे आत्त इति रूपम् । तथा च इमं सर्वं जगत् अभितः सर्वप्रकारेण रक्षणाद्यर्थं आत्तः गृहीतवानिति सर्वमिदमभ्यात्त इति श्रुत्यर्थः । न विद्यते वाक्यमनृतमिति विष्णोः वेदादिवाक्यस्य सत्वात् वाक्यराहित्यं बाधितमित्यतः अनृतमिति शेषोक्तिः । न विद्यते आदर इति ।। अत्रादरशब्दस्य 'अमानोनाः प्रतिषेधे' इत्यन्तर्गणसूत्रोक्तनिषेधवाचकनशब्देन समासे नादर इति रूपं न तु नत्रा । तेन 'नलोपो नञ' इति नलोपः न भवति ।

ननु अवाक्यनादरशब्दयोरपि विशेषणत्वात् 'विशेषणं विशेष्येण बहुलं' इति कथं कर्मधारय इत्यत आह बहुलग्रहणादिति ।। क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्दिभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्तीत्युक्तेः अत्र बहुलग्रहणस्य अन्यार्थकत्वात् केवल-विशेषणयोरपि समास इति भावः । विभक्तीति ।। त्रिष्णोर्नुकमित्यत्र कमिति द्वितीया प्रथमाविभक्त्यर्थे । प्रवोचमिति उत्तमपुरुषप्रयोगः प्रथमपुरुषार्थे व्यत्ययो बहुलमिति वचनाद्बोध्य इति भावः । वचपरिभाषणे इति धातोर्लङ् च्लिप्रत्ययस्य अस्य वक्तिख्यातिभ्योऽङिति आङादेशे 'च उमि'ति उमागमे मित्वाद् वशब्दात् परतो जाते 'आद्गुणः' इति गुणे बहुलं छन्दस्यमाङ्-योगेऽपीत्यडभावो ज्ञेयः । ब्रह्मविपयेति ।। ब्रह्मविषयत्वेन परवादिसम्मता उपनिषदिरित्यर्थः । अस्माकं मते तु सर्वस्यापि वेदस्य वाक्यसमन्वयपक्षेण पदसमन्वयपक्षेण वा ब्रह्मविषयत्वेन यावतीति विशेषणस्य न प्रयोजनम् । ननु आदिशब्देन गृहीतायां 'यतो वा इमानि भूतानि । य आत्माऽपहतपाप्तत्मा' इत्यादिश्रुतौ कथं गुणप्रतिपादकत्वमित्यत आह-न हीति । या न किञ्चिद्विधत्ते प्रतिषेधति चेति ।। यतो वा इमानि भूतानि जायन्ते' इत्यादि-ब्रह्मपरा श्रुतिः ब्रह्मणि जगत्कर्तृत्वादिकं गुणं विधत्ते । य आत्माऽपहत-पाप्मा' इत्यादिश्रुतिस्तु दोषनिषेधिकाऽपि प्रतिपादकत्वात् गुणप्रतिपादिकैवेति भावः । दोषाभावलक्षणशुभधर्म-प्रतिपादक्त्वात् गुणप्रतिपादिकैवेति भाव: