प्रशंसादीनां च तात्पर्यं वाचनिकार्थात्यागेनैव कथितं स्वयं भगवता..

(अर्थवादानां मुख्यार्थबाधे गौणाद्यर्थोक्तिः)

५०- मूलम्-प्रशंसादीनां च तात्पर्यं वाचनिकार्थात्यागेनैव कथितं स्वयं भगवता, 'भाक्तं वा नात्मवित्त्वात्तथा हि दर्शयति' इति । तस्माद्विरुद्धवत्प्रतीयमानानि प्रशंसादीनि ज्ञानसहकार्यपेक्षया योजनीयानि । पुराणादीनां तु श्रुत्याविरोधे गीणोऽप्यर्थो युज्यते । 'कुहकचेन्द्रजालं च विरुद्धाचरणानि च । दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर' ॥ इत्यादि बाराहे ॥

टीका

टीका- नन्वेवमर्थवादानां वाचनिकेऽपि स्वार्थे प्रामाण्याङ्गीकारे 'अपाम सोमममृता अभूम' इत्यादीनामपि तदङ्गीकार्यम् । न च तच्छक्यमङ्गीकर्तुम् ।तमेवं विद्वान्' इत्यादिश्रुतिविरुद्धत्वात् । अतो वाचनिकमर्थं परित्यज्यैव सोमपानप्रशंसायां तात्पर्यं कल्प्यमित्यत आह-प्रशंसादीनां चेति ।। आदिपदेन निन्दापरकृतिपुराकल्पानां ग्रहणम् । यत इत्युपस्कर्तव्यम् । ज्ञानसहकार्यपेक्षयेति । ज्ञानस्य सम्पूर्णमोक्षसाधनत्वेऽपि कर्म सहकारीत्यस्यार्थस्यापेक्षया अभिप्रायेणेत्यर्थः । उपलक्षमेतत् । सुत्रोक्तं भाक्तत्वादिकमपि ग्राह्यम् । अयमर्थः । न मुख्य एवार्यो वाचनिको नाम । किन्तु वचनशक्तिगोचर एव । तथाभूते च 'अपाम' इत्यादि-वाक्यानां प्रामाण्यं न त्यज्यते । अमृता इवामृता इति गौण्या वृत्या मन्वन्तरापेक्षया, अमृतशब्दस्य तत्साधनज्ञानलक्षणया तदेकदेशलक्षणया च, ज्ञानसाधनत्वापेक्षया ज्ञानसहकार्यपेक्षया च योजनात् । न चैतन्निर्मूलम् । स्वयं भगवताऽभिहितत्वात् ।

यदि वार्थवादानां सर्वथापि प्रामाण्यं स्वार्थे न स्यात्तदैतद्वाक्यमालम्ब्य पूर्वपक्षितेऽर्थवाद एवायमित्येवोक्त्वा सूत्रकृत् कृती स्यादिति भाक्तम् इत्यादि न ब्रूयादिति । अविरोधाच्चेति द्वितीयपक्षप्रतिषेधप्रपञ्चोऽय- मित्यवधेयम् । वेदे गौण्याद्यभाववादिनः कथमेवमादिग्रन्थान् व्याकुर्वत इति चिन्त्यम् । एतदेवोक्तम् 'प्रत्यक्षादिविरोधेऽतः' इत्यादिना । एवं श्रौतार्थवादानां कृतचर्चः पौराणिकादीनां तु विषये विशेषमाह-पुराणादीनान्त्विति ॥ गौण इत्यमुख्यमात्रग्रहणम् । अपिपदेन सर्वथाप्यप्रामाण्यं समुच्चिनोति । अत्र गौणोऽर्थ इति पूर्वोक्तम् । अप्रामाण्यं तु विशेषः । कुतोऽप्रामाण्यम् ? विप्रलम्भमूलत्वात् । तदेव कुतः ? इत्यत आह-कुहकं चेति । कुहकम् आकर्षणादिविस्मापकसाधनम् | दौ कुहकेन्द्रजालहरमेखलादिकं दृष्टफलं प्रदर्श्य प्रलुब्धान् प्रति पश्चात् पारत्रिकानि विरुद्धाचरणानि कर्तव्यतया दर्शयित्वेत्यर्थः ॥

भावदीपः

(रा.टि.) प्रशंसनेति ॥ गुणोक्त्या स्तुतिरूपाणाम् 'अपाम सोमम्' इत्यादीनामित्यर्थः । निन्देति ।। दोषोक्तिपराणाम्इष्टापूर्तं मन्यमाना वरिष्ठ नान्यच्छ्रोयो वेदयन्ते प्रमूढाः' इत्यादीनाम्, 'जनको वैदेह आसाञ्चक्रे' इत्यादेरेककर्तृकचरितानुवादरूपपरकृतेःअथह प्राणा अहं श्रेयसि न्यूदिरे ' इत्यादेरनेकर्तृकचरितानुवादरूपपुराकल्पस्य च ग्रहणमित्यर्थः । तस्मादिति श्रवणादाह-यत इत्युपस्कर्तव्यमिति ।। सम्पूर्णायामपि ज्ञानेन मुक्तौ यावत् स्वयोग्यानन्दस्य नानुभव:, किन्तु बहुतरस्यैव । तत्र कश्चिदशो भगवच्छक्त्याच्छादितो न भाति । स तु ज्ञानोत्तरभाविकर्मणाऽभिव्यज्यत इति तिरोहितांशसहितानन्दानुभवतत्साधनोत्पादने ज्ञानोत्तरभाविकर्म सहकारीत्यर्थः । तावता किमुक्तं भवतीत्यत आह-अयमर्थ इति । वचनशक्तीति । मुख्यामुख्यवृत्तिपरोऽत्र शक्तिशब्दः । तथाभूते चेति ।। अर्थे इति शेषः । सौत्रभाक्तशब्दार्थमाह- अमृता इवेति ।। मन्वन्तरेति । यावदिन्द्रो यावन्मनुः' इति श्रुतेरिति भावः । मन्वन्तरापेक्षयेत्यस्य योजनादित्यनेनान्वयः। सौत्रवाशब्दार्थमाह-अमृतशब्दस्येति || अमृता इत्यस्यामृतत्वहेतुज्ञानवन्तोऽभूमेत्यर्थं इति भावः । तदेकदेशेति || अमृतपदस्यामृतैकदेशतिरोहितभागाभिव्यक्तिमन्तोऽभूमेत्यर्थं इति भावः । लक्षणाद्वयपक्षे सिद्धमर्थमनुवदति-ज्ञानसाधनत्वापेक्षयेत्यादि || योजनादिति || ' अपाम' इत्यादिवाक्यानामित्यनु- षङ्गः । अभिहितत्वमेव स्पष्टयति- यदि वेति ॥

ननु प्राग्विकल्पितपक्षषट्कमध्ये श्रुतिविरोधश्चैकः । स चोक्तदिशा विरोधाभावादिति समाधातुं शक्यत इति पुनरत्रोक्तिः किमर्थेत्यत आह-द्वितीयपक्षेति । एवमादिग्रन्थानिति || ' प्रशंसादीनां च' इत्यादिग्रन्थानित्यर्थः । विरोधे गौण्यादिवृत्या समाधानं कार्यमित्यत्र जिज्ञासानयानुव्याख्यानसम्मतिमाह एतदेवेति ॥ ' प्रत्यक्षादिविरोधेऽतो गौणार्थस्यापि सम्भवात्' इत्याद्युक्तमित्यर्थः । ननु पुराणादौ अमुख्यत्वाप्रामाण्ययोर्द्वयोरपि विशेषत्वे वेदे द्वयमपि नेति प्राप्तम् । तथा च 'गौण्या वृत्त्या' इत्यादि प्रागुक्तमयुक्तमित्यत आह-अत्र गौणोऽर्थ इतीति ॥ 'गङ्गास्नानेन वा मुक्ति:' 'द्वेषाच्चैद्यादयो नृपाः' इत्यादौ गौणाद्यमुख्यार्यत्वम्, 'अपाम' इत्यादिवाक्योक्तमेव न विशेषोऽत्रेत्यर्थः । कुहकम् इत्यादेः साक्षादप्रामाण्याहेतुत्वादाह-विप्रलभ्येति ॥ आकर्षणादिरूपं यद्विस्मापकम् आश्चर्यकरं तत्साधनमित्यर्थः । क्वचिद्विस्मयसाधनमिति पाठः । हरमेखलेति ग्रन्थविशेष इत्येके । इत्यर्थवादानां मुख्यार्थबाधे गौणाद्यर्थोक्तिः ॥

कर्मप्रकाशः

(स.टि.) सोमपानप्रशंसायां तात्पर्यं परिकल्प्यमिति || अर्थवादवाक्यस्य स्वार्थे प्रामाण्यमिति नियमस्य भङ्गात् । एवमर्थवादान्तरस्यापि प्राशस्त्ये तात्पर्यमेव न स्वार्थे प्रामाण्यमित्यभ्युपेयमिति भावः । मूले भाक्तं चेति ॥ अपाम सोममित्यादिना कर्मफलत्वेनोच्यमानममृतत्वं भाक्तं गौणं न तु मुख्यम्। कर्मिणः अनात्मवित्त्वात् अज्ञातो भगवान्मुख्यामृतत्वं न ददाति । इयमर्थं ' स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद्वाकर्माकृतमिति' श्रुतिर्दर्शयतीति सूत्रार्थः ।

आदिशब्देनेति ।। प्रकृतकर्मादिः प्राशस्त्यबोधनार्थं तदन्यनिन्दादिरूपार्थवादः प्रकृतकर्मादेः प्राशस्त्यबोधनार्थं परेणेदं कृतमिति वचनं परकृतिरूपोऽर्थवादः । प्राज्ञानामनुष्ठानपरम्परावचनं पुराकल्परूपोऽर्थवाद इत्यर्थः । यत इत्युपस्कर्तव्यमिति ॥ कथितं स्वयं भग्नवतेति मूले कथितमित्यतः प्राक् यत इत्युपस्कर्तव्यमित्यर्थः । वचनशक्तिगोचर एवेति ॥ वचनवृत्तिगोचर एवेत्यर्थः । तथाभूते चेति ।। तथाभूतेऽर्थे वचनवृत्तिलभ्येऽर्थे 'अपाम सोमंइत्यादिवाक्यानां प्रामाण्यं प्रामाणिकैर्न त्यज्यते । गौणलाक्षणिकार्थं गृहीत्वापि वाक्यप्रामाण्यं प्रामाणिकाः समर्थयन्ति इति भावः ॥

अनधिगतार्थगन्तृ प्रमाणमिति षष्ठपक्षदूषणावसरे 'अपाम सोमं ' इत्यादिवाक्यानांतमेवं विद्वान्' इति श्रुतिविरोधचिन्ता व्यर्थेति प्रशंसादीनां च तात्पर्यमित्यादिमूलमनुपादेयमित्यत आह-अविरोधाच्चेति ॥ द्व पुराणादीनां तु विषय इति ।। पौरुषेयार्थवादग्रन्थविषय इत्यर्थः मूले पुराणादीनान्तु श्रुत्या विरोध इति ॥ अष्टादशपुराणानां श्रुत्या विरोधे गौणाद्यर्थे प्रामाण्यम् । तदन्येषां पाशुपतादिग्रन्थानां श्रुत्या विरोधे कचिदप्रामाण्यं क्वचिद्गौणाद्यर्थे प्रामण्यमिति भावः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) वाचनिकमर्थमिति ।। सोमपानं कृत्वा मुक्ता अभूम इति वाचनिकमर्थमित्यर्थः । आदिपदेन (आदिशब्देन ) इति ॥ विद्यमानाविद्यमानगुणकथनं प्रशंसाऽप्रकृतकर्माद्यवश्यकर्तव्यतार्थतत्कर्मकर्तृपुरुषनिन्दावचनं पुराकल्परूपोऽर्थवादः । यत इत्युपस्कर्तव्यमिति । तथा चायमर्थः ।वायुर्वै क्षेयपिष्ठा' इत्यादौ यतः वायुः क्षिप्रफलदात्री देवता अतःवायव्यं श्वेतमालभेत भूतिकाम इति वाक्येन ऐश्वर्यकामपुरुषो वायुदेवताकश्वेतछागालम्भनं कुर्यात् । वायुदेवताकपशुयागेन ऐश्वर्यं भावयेदित्युच्यते । तथा निन्दार्थवादेयदृचा स्तुवते' इत्यादिरूपार्थवादे यतः केवलऋचा स्तवने दैत्यानामागमनम् । अत ऋच्यध्यूढसाम्ना तत्स्तवनं कार्यमित्युच्यते । यतो दशरथेन पुत्रार्थं पुत्रेष्टिः कृता । अतः अन्येऽपि 'पुत्रकामः पुत्रेष्ठ्या यजेत' इति परकृतौ । तथा वसिष्टादिभिः ज्ञानिभिः यतः वैशाखस्नानं कृतं अतः अन्यैरपि महाफलेप्सुभिः तत्कार्यमिति पुराकल्पे इति । अत्र सर्वत्र वाचनिकार्थत्यागेनैव तात्पर्यार्थः प्रतीयते । तथा भरतसूत्रकारेण च स्वयं कथितं च । मूले उदाहृतस्य भाक्तं वेति सूत्रस्यायमर्थः । ' अपाम सोमं 'इत्यादिना कर्मफलत्वेनोच्यमानममृतत्वं भाक्तं गौणं न तु मुख्यम् । कुतः कर्मिणः अनात्मवित्वात् (नात्मवित्वात्) आत्मज्ञानित्वाभावात् । तथा च (हि) दर्शयति-श्रुतिथास्ति । स एनमविदितो न भुनक्ति इति स विष्णुः विदित: अधिकारिणा न ज्ञातथेत् नभुनक्ति मोक्षफलं न भोजयतीति श्रुत्यर्थः । मूले विरुद्धवत्प्रतीयमानानीत्यस्य 'तमेवं विद्वान्' इति वाक्येन विरुद्धवत् प्रतीतानिअपाम सोमं' इत्यादिवाक्यानि तत्र 'नान्यः पन्थाइत्युक्त्या मोक्षस्य मार्गान्तरनिषेधेन अत्र सोमपानानन्तरं मोक्षप्राप्युक्त्या एतानि विरुद्धानीत्यर्थो ज्ञेयः । वत्प्रत्ययस्तु तत्समीपस्थोत्तरत्र विद्यमान 'अगन्म ज्योतिः' इति वाक्यपर्यालोचनेन ज्योतिर्ब्रह्म अगन्म जानीम इत्यर्थप्रतीते: कर्मणो ज्ञानार्थत्वेन प्रचात् अमृता अभूम इत्यन्वये ज्ञानस्य मोक्षार्थत्वोक्तेः विरोधाभावज्ञापनार्थः । ज्ञानस्य सम्पूर्णमोक्षसाधनत्वे इति ॥ अपरोक्ष- ज्ञानस्य सर्वानिष्टनिवृत्तिस्वरूपानन्दाविर्भावरूपसम्पूर्णमोक्षसाधनत्वे स्वरूपे कर्मसहकारि अग्निहोत्रादिकं सहायभूतमिति ज्ञानसहकारीति मूलेन उक्त- मित्यर्थः । ज्ञानेन सर्वानिष्टनिवृत्तिःतमेवं विद्वान् अमृतइत्यमृतशब्देन मरणोपलक्षितसर्वानिष्टनिवृत्तिकथनेनोच्यते । कर्मणा मोक्षे स्वरूपानन्दाविभांव क्षणे सहायः क्रियते । अग्निहोत्रादि तु तत्कार्य इव तद्दर्शनादिसूत्रेण अग्नि- होत्रादिकर्मणां ज्ञानकार्य : स्वरूपानन्दाविर्भावलक्षणमोक्षार्थत्वोक्तेः । सूत्रोक्तमिति ।। भाक्तत्वं गौणत्वं अमृता अभूमेत्यस्य किञ्चित्कालमरणाभावलक्षणामुख्यार्थत्वमित्यर्थः ।

पूर्वं ज्ञानसहकार्यपेक्षयेत्युक्त्या उपलक्षणकरणेन च अपामेति वाक्यस्य सिद्धं वाक्यार्थमाह- अयमर्थ इति ॥ वचनशक्तिगोचर एव रूढियोगलक्षणगौणीभिः प्राप्त एवेत्यर्थः । एवं च अमृतशब्दस्य गौण्या लक्षणया च सिद्धार्थमाह- अमृता इवेति । तत्साधनज्ञानलक्षणया मोक्षसाधनज्ञानलक्षणया । तदेकदेशलक्षणया मोक्षैकदेशानन्दाविर्भावलक्षणयेत्यर्थः । तथा च अमृता इत्यस्य मोक्षसाधनज्ञानवन्तः मोक्षे आनन्दातिशयवन्तो वा अभूमेति लक्षणापक्षे अर्थद्वयं बोध्यम् । स्वयमिति ॥ वाशब्देन लाक्षणिकयोरप्यर्थयोग्रहणादिति भावः । अर्थवादानां स्वार्थे प्रामाण्यानङ्गीकारे बाधकान्तरमाह-यदि च (वा) इति ॥

ननु अनधिगतार्थगन्तृ प्रमाणमिति षष्टपक्षदूषणावसरे 'अपाम सोमेत्यादिवाक्यानांतमेवं विद्वान्' इति श्रुतिविरोधचिन्ता व्यर्थेति प्रशंसादीनां च तात्पर्यमित्यादिमूलमनुपादेयमित्यत आह-अविरोधाच्चेतति । विहरण-शंसनस्य पापहेतुत्वापापहेतुत्वविरुद्धार्थकथकत्वाभावलक्षणद्वितीयपक्षप्रतिषेधान्तर्भूतोऽयं पक्ष इति भावः । परापव्याख्यानमुपसंहरति-वेद इति ॥ अत्रानुव्याख्यानसम्मतिमाह-एतदेवेति ।। आदिशब्दात् 'प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात् । अतात्पर्यं पदार्थेषु न कल्प्यमविरोधतः ।।' इति उत्तरवाक्यं ग्राह्यम् । कृतचर्च इति ।। कृतविचारः ' चर्चा संख्या विचारणे' इत्यमरोक्तेः । पौराणिकादीनामर्थवादानां विषये विशेषं गौणलाक्षणिकादिरूपं क्वचित् क्वचिच्च सर्वथाप्रामाण्यमिति विशेषमित्यर्थः । पूर्वोक्तमिति ।। अमृता अभूमेत्यत्रोक्तमित्यर्थः । कुहकं चेति मूलवाक्ये विष्णुना महेश्वरं प्रत्युच्यते तदप्रतीतेर्व्याचष्टे-आकर्षणादिति || आकर्षणं बलात्कारेण परवशीकरणम् । आदिशब्दात् परव्यामोहनादि I इदं यद्विस्मापकपरचित्ताश्चर्यजनकं तत्कुहकम् । मन्त्रौषधादि इन्द्रजालम् । तथा विरुद्धाचरणानि च वेदविरुद्धानि शौचस्नानवर्जनाद्याचरणानि च दर्शयित्वा हे महेश्वर जनं सर्वं मोहयेत्यन्वयः । तत्पुनः स्पष्टयति आदाविति || हरः मुक्ताफलानां माला मेखला कटिसूत्रं आदिशब्दात् कुण्डलादीनि पारत्रिकानि विरुद्धाचरणानि शिवसर्वोत्तमत्वोपदेशरुद्राक्षधारणादीनि ।