एवाह्येवैवाह्यग्ना ३ इ
(एवाह्येवेत्यृचोऽर्थोपवर्णनम् )
मूलम्
२४-मूलम्- एवाह्येवैवाह्यग्ना ३ इ । एवाह्येवैवाहीन्द्रं । एवाह्येवैवाहिविष्णा३ उ । एवाह्येवैवाहि पूषन् । एवा हि शक्रो वशी हि शक्रो वशाँ अनु ॥ १० ॥
एवाह्येवैवाहीत्यग्न्यादिदेवतानां संवादरूपेणोक्तमर्थमतिशयेनावधारयति । अभ्यासो हि तात्पर्यार्थः । एवं हि एवमेव हीत्यर्थः । 'विनिश्चिते तु संवादे विभागो रङ्ग एव च' इति शब्दनिर्णये । अतोऽग्र इत्यादि । एवमेव हि शक्रः । वशाननु यथावशं स्वतन्त्रो वर्तत इत्यर्थः ॥ १० ॥
टीका
टीका- एवाहीत्यादेस्तात्पर्यमाह एवाहीति ॥ बहूनां संवादस्य फल-मतिशयेनेति । अयादीन् सर्वान् सम्बोध्य सकृदेव एवाहीत्युच्यताम् । किं पृथक् पृथगित्यत आह-अभ्यास इति ॥ एवाहीत्यस्यार्थः एवं हीति । अग्न इति वक्तव्ये अग्ना इ इति विभागः किमर्थः । अवर्णवर्णभक्तिकत्वादेकारस्य । तथा विष्णविति च वक्तव्ये विष्णा उ इति । अवर्णोवर्णभक्तिकत्वादोकारस्य । तथेन्द्र इति रङ्गश्च किमर्थ इत्यत आह-निश्चित इति ॥ विनिश्चितेऽप्यर्थे संवादेऽतिनिश्चियार्थे । विभागः स्वरभक्तीनाम् ॥ १० ॥
भावदीपः
(रा.टि.) ‘एवाह्येवैवाह्याग्ना३ इ । एवाह्येवैवाहीन्द्रं । एवाह्येवैवाहि विष्णा३ उ । एवाह्येवैवाहि पूषन् । एवा हि शब्दो वशी हि शक्रो वश अनु’ । मूले ‘एवाह्येवैवाहि' इति वाक्यमुपलक्षणमिति भावेनाह-एवा-हीत्यादेरिति ।। अनेकवाक्यजातस्येत्यर्थः । अतिशयेनेत्यस्य बोधकपदाभावादाह-बहूनामिति ॥ बहूनां संवादार्थमनेकवाक्योक्तेरुपयोगस्य सिद्धत्वात् ‘अभ्यासो हि तात्पर्यार्थः' इत्युक्तिः कथमित्यत आह-अग्यादीनिति ।। एवंहीत्यस्य विवरणम् एवमेवहीत्येतदिति भ्रमनिरासायाह-एवाहीत्यस्यार्थ इत्यादि । ननु किमर्थ इति प्रयोजनप्रश्नोऽयुक्तः मूलोक्तश्च विभाग एवायं न युक्तः, एकैकाक्षरत्वादेकारादेरित्यतस्तदुपपादयति-अवर्णे-वर्णेति ।। अवर्णेवर्णी भक्ती एकैकभागौ यस्य तस्य भावस्तस्माद् अवर्णेवर्णभक्तित्वादित्यर्थः । एवमग्रेऽपि । अत एव शाब्दिका ए ओ ऐ औ इत्येतानि सन्ध्यक्षराणि प्राहुरिति भावः । उ इतीत्यनन्तरं विभागः किमर्थं इत्यनुषङ्गः । भक्तित्वादिति पञ्चम्यन्तयोर्विभागपदेनान्वयः । रङ्ग इति स्वरविशेषः । विनिश्चिते त्वित्यस्यार्थः-विनिश्चितेऽप्यर्थ इति ।। विषय-सप्तमीयम् । विनिश्रितार्थविषयेऽपि संवादे राति विभागो र भवतीति मूलार्थ उक्तो भवति । फलितमाह अतिविनिश्रितार्थ इति || ' अचः स्वराः' इत्युक्तत्वाद् एकाररूपे च स्वरे अवर्णादिभक्तीनामित्यर्थः । एवाहि शक इत्यस्यार्थो मूले एवमेव हि शक्र इति । तत्र प्रकरणवलादेवैवाहीत्या-वृत्तिमभिप्रेत्य एवमेवहीत्यर्थेक्तिरिति ध्येयम् । वशी हि शक्र इत्यस्य स्वतन्त्रो वर्तत इति । वशाँ अनु इत्यस्य पूर्ववदेवार्थ इति स्पष्टत्वान्न व्याख्या कृता । यथावशमिति क्रियाविशेषणस्य वा स्वतन्त्रो वर्तत इत्यर्थः || १० ||
विवरणम्
(श्री.टि.) पृथक्पृथगिति । हे अग्ने इन्द्र विष्णो पूषन् देवा एवा-हीत्यनुक्त्वा पृथक्पृथक् ‘एवाह्येवैवाह्यग्ना इ' इत्यादिरूपेण किमर्थमुच्यते ? इत्यर्थः । नन्वत्र अग्ना इ इत्यत्र एकारं विहाय इवर्ण एव कथ्यते विभागः क्वत्य इत्यत आह-अवर्णेवर्णेति ॥ भक्तिर्भाग एकदेशः । एकाररूपस्वरस्य अवर्णेवर्णरूपैकदेशवत्वादित्यर्थः । अकारेकारयोर्गुणे हि ए इति जातमस्तीत्युक्तं युक्तमिति भावः । उ इति ।। विभागः किमर्थ इति वर्तते । ननु विष्णा उ इत्यत्र ओकारं विहाय उवर्ण एव कथ्यते विभागः क्वत्य इत्यत आह- अवर्णोवर्णेति । ओकाररूपस्वरस्य अवर्णोवर्णरूपैकदेशवत्वादित्यर्थः । अकारोकारयोर्गुणे हि ओ इति जातमस्तीत्युक्तं युक्तमिति भावः । संवादेऽतिविनिश्चयार्थ इति । तथा च संवाद इति तादर्थ्ये सप्तमीत्युक्तं भवति । विनिश्चितोऽप्यर्थे संवादो नामातिविनिश्चयस्तदर्थेऽतिविनिश्चयरूपे संवादे द्योतमाने स्वरभक्तीनामेकारौकारादिस्वराक्षराणां विभागः आ इ आउ एवमादिरूपः, रङ्गश्च भवतीति श्लोकार्थः ॥ १० ॥
कर्मप्रकाशः
(स.टि.) एवा हीत्यादेरिति ॥ ' एवाह्येवैवाह्यग्नाँ३इ । एवाह्येवैवाहीन्द्र एवाह्येवैवाहि विष्णाँ३इ । एवाह्येवेवाहि पूषन् । एवाह्येवैवाहि देवाः एवाहि शक्रो वशीहि शक्रो वशाँ अनु ।।' इति निगदषट्कस्येत्यर्थः ।
ननु भाष्ये एवं हीति व्याख्येयं पदमनूद्य एवमेव हीति व्याख्यातम् । तदनुपपन्नम् । निगदे एवं हीति पदाभावादित्यत आह एवाहीत्यस्यार्थ इति ॥ निगदगतस्य एवाहीतिपदस्य एवं हीत्यर्थः । तथा एवैवाहीति निगदपदस्य एवमेव हीत्यर्थो भाष्यकारेणोक्तः । येन निगदे व्याख्येयपदादर्शनं दोषः स्यादिति भावः । अग्न इति वक्तव्य इति ॥ इतः परं टीकायां श्रूयमाणम् 'अवर्णे वर्णभक्तिकत्वादेकारस्येति वाक्यं प्रक्षिप्तम् । तथा विष्णाविति च वक्तव्ये विष्णा उ इत्यतः परं च श्रूयमाणं अवर्णो वर्णभक्तिकत्वादोकारस्य' इति वाक्यं प्रक्षिप्तम् । न टीकावाक्यम् । अवश्यं चैतदेवं विज्ञेयम् । आद्यस्य वाक्यस्य पूर्वोत्तराभ्यामन्वयाभावात् । न हि एकारस्य अवर्णेवर्ण इति विभक्तिकत्वादिति पञ्चम्यन्तस्य अग्ग्रा इति विभागः किम इति पूर्वेणान्वपोऽस्ति । येनेदं टीकावाक्यं स्यात् । तथा विष्णो इति वक्तव्य इत्युत्तरेणान्वयप्रसक्त्यभावाच्च । एवमुत्तरवाक्यस्यापि पूर्वोत्तराभ्यामन्वयाभावो द्रष्टव्यः ।
विभागः स्वरभक्तीनामिति ॥ ननु विभागः स्वरभक्तीनामित्येतदनुपपन्नम्। अग्ना इत्यकारेकाररूपवर्णद्वयस्य अग्ने इत्येकारविभागत्वाभावात् । तथा उ इत्यकारोकाररूपवर्णद्वयस्य विष्णो इत्योकारविभागत्वाभावात् । नित्यविभूनां वर्णानां विभागायोगाच्चेति चेत् । सत्यम् । वर्णानां विभागो नास्तीति । तथापि विभागस्वरभक्तीनामित्येतद्युज्यते । गङ्गेश इत्यादौ आद्गुण इति सूत्रेण अवर्णेवर्णस्थाने एकार उच्यते । तथा गङ्गोदकमित्यादौ अवर्णो-वर्णस्थाने ओकार उच्यत इत्येकारस्य अवर्णोवर्णभक्तिकत्वं ओकारस्यावर्णो-वर्णभक्तिकत्वम् च यथोपचर्यत तथा अग्ने इत्येकारस्थाने अवर्णेवर्शादेशौ तथा विष्णो इत्योकारस्थाने अवर्णोवर्णादेशौ 'विनिश्चिते तु संवादे विभागो रङ्ग एव च' इति स्मृत्या विधीयेते इति अनयोरप्यकारेकारयोः अकारोकारयोश्च एकारौकारविभागोपचारविषयत्वात् । तथा च विभागरस्वरभक्तीत्तानामित्यस्य अग्ने इत्येकारस्थाने अग्रा इति वर्णद्वयादेशः । विष्णो इत्योकारस्थाने विष्णा उ इति वर्णद्वयादेश इत्यत्र तात्पर्यम् ।
गूढवाक्यार्थपञ्चिका
(छ. टि.) ननु एवाह्येवैवाहीत्यादेः पूर्ववत् व्याख्यानादर्शनात् मूले किगुच्यत इति न ज्ञायते इत्यतो अभिप्रायमाह एवाहीत्यादेस्तात्पर्यमाहेति ।। निगदषट्कस्येति शेषः । ‘एवाह्येवैवाह्यग्रा३ इ । एवाह्येवैवाहीन्द्रं । एवाह्ये-वैवाहि विष्णा३ उ । एवाह्येवैवाहि पूषन् । एवाह्येवैवाहि देवाः । एवा हि शक्रो वशी हि शक्रो वशाँ अनु' इति वाक्यपट्केण अग्यादिदेवतासंवादरूपेण अग्नीन्द्रविष्णुपूषदेवशक्राणां समतिरूपेण 'विदा मघवन्' इत्यादिनोक्तमर्थं भगवन्माहात्म्यरूपमिति मूलार्थसिद्धेऽपि अतिशयेनेत्युक्तार्थस्य वाक्यपट्के अप्रतीतेस्तद्ज्ञापकमाह-बहूनामिति ॥ अग्र्यादीनामिति शेषः । मूले अभ्यासग्रहणेन श्रुतौ पुनः पुनः एवाह्येवैवाहीत्युक्तिर्गृह्यते ।
मूले एवं हि एवमेव हीत्युक्त्या एवं हीत्यस्य एवमेव हीति व्याख्यानमिति प्रतीयते । तदयुक्तम् । श्रुतौ एवं हीति वाक्यस्याभावादित्यतो मूलोक्तोभमयोरपि वाक्ययोर्व्याख्यानत्वमेवेत्यभिप्रेत्य श्रुत्युक्तं व्याख्येयवाक्यद्वयं मूलेन सङ्गमयति-एवाहीत्यस्यार्थः एवं हीत्यादि ।। अनेन मूलोक्त इत्यर्थशब्दः एवं हीत्यनेनापि सम्बध्यत इत्युक्तं भवति । तथा च प्रथमनिगदवाक्यस्यायमर्थः । एवाहीत्यत्र एवंशब्दे मकारस्य वर्णव्यत्ययेन अकारादेशमाश्रित्य मूले एवं हीत्यर्थ इत्युक्तम् । तथैववाहीत्यत्रापि एवंशब्दे एवेत्यादेशमाश्रित्य एवमेव हीत्यर्थ इति व्याख्यातम् । तत्र पूर्वैवंशब्देन 'विदा मघवन्' इत्याद्युक्तं परामृश्यते । द्वितीयैवंशब्देन तु यथास्थितत्वमुच्यते । तेन हे अग्ने एवाहि एव हि । विदा मघवन्' इत्याद्युक्तं प्रमेयं हि । एवैवाहि एवमेव हि अस्मदुक्त-प्रकारेण यथास्थितमेव हि भवतां सम्मतमिति यावत् । एवं उत्तरवाक्य-चतुष्टयमपि योज्यम् । ननु अग्निशब्दस्य इकारान्तत्वेन सम्बुद्धौ परतः 'ह्रस्वस्य गुण:' इति गुणे इकारस्य एकारादेशात् अग्ने इति भाव्यम् । एवं विष्णुशब्दस्यापि संबुद्धौ विष्णो इति भाव्यम् । तत्कथं श्रुतौ अग्ना इ विष्णा उ इति प्रयुज्यते । न च वाच्यं 'एचोऽप्रगृह्यस्यादूराद्भूते पूर्वस्यार्धस्याऽऽदुत्तरस्येतौ' इति 'आमन्त्रिते च छन्दसि प्लुतविकारोऽयं वक्तव्य' इति वचनात् अग्ने विष्णो इति शब्दयोरामन्त्रितत्वात् एकारौकारयोः पूर्वार्ध प्लुतसहित आकारादेशस्य एकारस्य उत्तरार्धे इकारादेशस्य ओकारस्योत्तरार्धे उकारादेशस्यासिद्धत्वेऽपि श्रुतौ तत्प्रयोगः किमर्थमिति भावेन शङ्कते अग्ने इति वक्तव्य इत्यादि ।।
ननु अग्ने इत्यत्र एकारे उत्तरार्धस्य इकारादेशः । विष्णो इत्यत्र ओकारे उत्तरार्धस्य उकारादेशश्च कुत: सूत्रे उत्तरस्येदुताविति सामान्योक्तेः एकारोत्तरार्धस्य उकारः ओकारोत्तरार्धस्य इकारः किं न स्यादित्यतस्त हेतुद्वयमाह अवर्णैवर्णभक्तिकत्वादेकारस्येति ।। अवर्णोवर्णभक्तिकत्वादोकारस्येति च ।। एकारपूर्वभागस्य कण्ठस्थानकत्वेन उत्तरभागस्य तालुस्थानकत्वेन उपचारात् अवर्णेवर्णाख्यदेशोपयुक्तभागवत्वात् एदैतोः कण्ठतालु इति शिक्षायां एकारस्य अकारइकारसम्बन्धिस्थानद्वयोक्तेः स्थानसाम्येन पूर्वभागस्य अकारादेशः उत्तरभागस्य इकारादेशः । एवं विष्णो इत्यत्र ओकारस्य कण्ठोष्टस्थानकत्वेन लक्षणया अवर्णोवर्णस्थानकपूवोत्तरभागवत्वात् पूर्वार्धस्य स्थानसाम्यात् अकारादेशः उत्तरार्धस्य उकारादेशः । न तु एकारौत्तरभागस्य उकारादेशः । ओकारोत्तरभागस्य इकारादेशः स्थानसाम्याभावेन स्थानेन्तरतमपरिभाषया विरोधात् । तथा एवाह्येवैवाहीन्द्रमित्यत्र इन्द्रेति सम्बुध्यन्ते शब्दे प्रयोक्तव्ये इन्द्र इति रंगश्च किमर्थः किं प्रयोजनक इत्यर्थः । रंगस्य लक्षणं तु अन्यत्रोक्तम्- ‘हृदयादुत्थितो रंग : महाँ इन्द्रो निदर्शनं । ङणगास्तु प्रयोक्तव्याः रंगवर्णे विवक्षिताः ॥ रंगवर्णं प्रयुंजानो ग्रसद्वै पूर्वमक्षरं । दीर्घस्वरं प्रयुंजयात् पश्चान्नासिक्यमाचरेत् ।।' इति तत्प्रयोगप्रकारस्य च शिक्षायामुक्तेश्चेति भावः । 'विनिश्चिते तु संवादे' इत्यत्र अग्न्यादिसंवादे सतीत्यर्थभ्रान्तिं वारयितुमाह-विनिश्रितेऽप्यर्थ इति ॥ संवादे अग्न्यादिसम्मतौ कथायां सत्यां विनिश्चितेऽपि प्रमेये स्वरभक्तीनां एकरिकाराख्यस्वरभागभूतपूर्वोत्तरार्धानां आदेशभूत इति शेषः । विभागः अकारेकारादिरूपः तत्प्रयोग इति यावत् । विनिश्चिते त्विति तुशब्दविशेषार्थ: तस्याप्यर्थः टीकाकारैरतिविनिश्चयार्थ इति कृतः । मूलटीकावाक्ययोर्मिलित्वायं भावः । संवादेन उक्तार्थनिश्चये जातेऽपि अग्ने विष्णो इति सम्बुध्यन्तं प्रयोगं विहाय एकारौकारयोः पूर्वोत्तरार्धादेशभूतानां अकारेकारोकाराणां प्रयोगकरणं श्रुतौ अतिविनिश्चियद्योतनार्थमिति । एतेन वर्णानां नित्यत्वात् विभुत्वात् अखण्डत्वेन कथं पूर्वोत्तरविभागः कथ्यत इति शङ्का परास्ता । आकाशवत् वर्णानामपि पूर्वोत्तरावयवरूपविभागाङ्गीकारात् । न च वाच्यं अवयवाङ्गीकारे वर्णानां द्रव्यत्वेनानित्यत्वापत्तिः । द्रव्यं समवायिकारणं अवयवत्वादिति अवयवलक्षणोक्तेः वर्णानामप्यवयवत्वादिति । अस्माभिराकाशादौ अवयवत्वेऽपि नित्यत्वाङ्गीकारात् । प्रदेशत्वमेव अवयवत्वमिति अवयवलक्षणाङ्गीकारेण अवयवत्वेऽनन्तर्भावात् ।
एवमेव वैय्याकरणसिद्धान्तोऽपि । तैरपि तस्यादित 'उदात्तधर्म ह्रस्वं ' इति सूत्रे स्वरितवर्णपूर्वावयवस्य उदात्तत्ववत्वेन परिशपतो उत्तरावयवस्य अनुदात्तत्वोक्तेः वर्णानां अवयवाङ्गीकारात् । 'एचोऽप्रगृह्यस्य' इति सूत्रे तु स्पष्टमेव । पूर्वस्यार्धस्योत्तरस्येति अवयवद्वयोक्तेश्च । वर्णानां निरवयवत्वरूपाखण्डत्वानुक्तेश्च । तन्मतेऽपि वर्णानां नित्यत्वसर्वगतत्वविरोधात् । एवाहि शक्र इत्यत्र एवेत्यस्यावृत्तिपूर्ववदर्थद्वयं चाभिप्रेत्य मूले एवमेव हि शक्र इन्द्रनामको विष्णु इत्युक्तमिति स्पष्टत्वात् टीकायां न व्याख्यातम् । एवं वशी हि शक्र इति श्रुतौ तु हि यस्मात् शक्रः वशी भक्तवशवान्, अत एव वशाँ अनु वशान् स्वेच्छाविशेषान् अनु अनुसृत्य अस्य क्रियाविशेषणत्वेन बर्तत इत्यध्याहृतम् । तस्य सर्वस्यापि तात्पर्यं स्वतन्त्रो वर्तत इति मूले स्पष्टत्वादिदमपि टीकायां न व्याख्यातम् । तथा चायं भावः । एवमेव हि इन्द्रः हि यस्मात् शक्रः हि यस्मात् भक्तवशानांश्च तस्मात् स्वेच्छाधीनत्वेन स्वतन्त्र वर्तते, सोऽपि 'विदा मघवन्' इत्यायुक्तप्रकारेणाङ्गीकरोति खल्विति यावदिति । पूर्वोक्तप्रमेयस्य देवसंमतिकथने देवेषु मध्ये अग्रेनर्चितत्वेन सोपानारोहणन्यायेन एवाह्येवैवाह्यग्ग्रा इ इति प्रथमतो ग्रहणम् । विष्णोः सर्वोत्तमत्वेन मध्ये अन्तेऽपि विष्णुग्रहणम् । वशां अन्विति स्वातन्त्र्योक्तेः शक्रशब्देन विष्णुग्रहणात् देवा इति मध्ये अन्येषां देवानां ग्रहणम् । 'अग्निर्वै देवानामवमो विष्णुः परमः तदन्तरेण सर्वा अन्यदेवता:' इत्यैतरेय ब्राह्मणोक्तेः । तथा च सर्वदेवसंमतिकथनमित्यवधेयम् ॥ छ ॥