युक्तिश्च । बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो गुणा युक्ताः

ब्रह्मणः सगुणत्वे युक्तेः प्रतिपादनम्

मूलम्

५-मूलम्-युक्तिश्च । बुद्धिपूर्वं सर्वकर्तृत्वात् सर्वज्ञत्वादयो गुणा युक्ताः। 'कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम्' इति भागवते ।।

टीका

टीका- इदानी ब्रह्मणः सगुणत्वे युक्ति चाह युक्तिश्चेति ॥ अनेन सार्वज्ञादिगुणोपेतं बुद्धिपूर्वं सर्वकर्तृत्वात् । न यदेवं न तदेवं यथा यज्ञदत इति केवलव्यतिरेक्यनुमानमुक्तमिति व्याचक्षते । तत्तु न बुध्यामहे । अप्रसिद्धविशेषणत्वात् । तद्रूपणत्वेऽपि बुद्धिपूर्वमिति विशेषणस्य व्यर्थत्वात् । अदृष्टद्वारा कर्र्तृषु जीवेषु व्यभिचारस्य सर्वग्रहणेनैव परिहतत्वात् । सम्भूतेषु व्यभिचारस्यानाशङ्कनीयत्वात् । कालादिव्यवच्छेदार्थम् बुद्धिपूर्वमिति विशेणमिति चेन्न । तस्य कर्र्तृग्रहणेनैव निरस्तत्वात् । बुद्धिपूर्व प्रवृत्तिहिं कर्तृत्वमित्युक्ततत्वात् । अत एव चादृष्टद्वारा कारणेपु जीवात्मसु न प्रसङ्गः । कारणत्वमिह कर्तुत्वं विवक्षितम् । ततः कालादी प्रसङ्गः । तन्निवृत्तये बुद्धिपूर्वमिति विशेणमिति चेन्न । वाचकग्रहणेनैवाप्रसङ्गे गौणं प्रयुज्य व्यभिचारपरिहाराय विशेणपूरणे प्रयतमान-स्वाकुशलत्वप्रसङ्गात् । स्वरूपासिद्धिश्च कथं परिहरणीया? यो हि ब्रह्म निर्गुणं मन्यते स कथं तस्य बुद्धिपूर्व सर्वकारणत्वं मन्येत । 'स तपस्तप्त्वा इदं सर्वमसृजत' इत्यादिश्रुत्या हेतुसिद्धिरिति चेत्, तहि हेतुसिद्धादेव सगुणत्वसिद्धेरनुमेयाभावः । सार्वज्ञादिसिद्धयर्थमनुमानमिति चेन्न । तस्याप्रसक्तत्वात् । सर्वकर्तृत्वशब्दार्थान्तर्गतत्वेन साध्याविशिष्टत्वदोषाच्चेति ।

तर्हि कथमेतत्? इत्थम् । क्षित्यादिकं सकर्तृकं कार्यत्वाद्धटवदिति युक्तिश्च ब्रह्मणः सगुणत्वेऽस्तीति प्रथमवाक्यार्थः । तत्राशङ्कानन्वनेन प्रसिद्धकर्तृनिरपेक्षोत्पत्तिकस्य क्षित्यादेः सकर्तृकत्वं सिध्यति न तु ब्रह्मणः सगुणत्वमिति । तत्राह-बुद्धिपूर्वमिति ।। यया युत्क्त्या सर्वस्य जगतः कर्ता सिद्धस्तस्य सर्वज्ञत्वादयो युक्तास्तयैव युत्क्त्या सिद्धाः । कुतः? सर्वकर्तृत्वात् । सर्वकर्तृत्वान्तर्गतत्वात् तेषाम् । कथम् ? बुद्धिपूर्व हि कर्तृत्वं भवतीति । एतदुक्तं भवति । सर्वस्य कर्ता तावदनुमानेन सिद्धः ।तस्य चैकत्वं प्रथमप्राप्तत्वात्कल्पनालाघवादनेकत्वे प्रमाणाभावाच्च न्गीकार्यम् । स च ब्रह्मैव । 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुतेः । अन्यत्रासम्भवाच्च । कर्तृत्वं च कार्यकारकक्रियाफलाभिज्ञानतदिच्छाप्रयत्न-पूर्वकः स्पन्दः । ततः सर्वकर्तेत्युक्ते सर्वज्ञः सत्यकामः सत्यसङ्कल्पः समस्तशक्तिसमन्त्रित एवोक्तो भवतीति कथं नानेन ब्रह्मणः सगुणत्व-सिद्धिरिति । अत्रैव पुराणसम्मतिमाह कर्तृत्वादिति ॥ कर्तृत्वेन सगुणत्वलाभादित्यर्थः । न केवलं सगुणं किन्तु ब्रह्म पूर्णम् । पुरुषमिति भगवतो नामसङ्कीर्तनम् । पुरुषत्वोत्क्त्याऽस्मदादिसालक्षण्यं प्राप्तम् । तत्परिहारायोक्तम्-पुरुषर्षभमिति ।। तदुपपादनाय कर्तृत्वात्सगुणं ब्रह्मेति । स सङ्गत्त्येति द्वितीयान्वयः ।

भावदीपः

(रा.टि.) सगुणत्व इति ।। सगुणत्वस्यापि प्रतिज्ञाप्रसक्तेः पूर्वमुक्तत्वादिति भावः । तद्रूपणत्व इति ।। 'आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्' इति प्रमाणलक्षणादावुक्तेरिति भावः । सम्भूयेष्विति ।। सम्मिलितेषु नानाजीवेष्वित्यर्थः । अनाशङ्कनीयत्वादिति ।। एकव्यक्तिनिष्ठसर्वकर्तृत्वस्य सार्वज्ञादिसिद्धचङ्गत्वेनाभिप्रेततया (रूपं) व्यभिचारोक्तेरनभिप्रेततदूषणोक्तित्वेना सङ्गतेरिति भावः । इत्युक्तत्वादिति ।। युक्तिपादे 'असदिति चेत्' इत्यधिकरणानुव्याख्यान इति योज्यम् । अत एव चेति ।। कर्तृत्वस्योक्तरूपत्वादेवेत्यर्थः । पूर्वं सर्वपदेन जीवेष्वव्यभिचारोक्तिरिह तु कर्तृपदेनैवेति भेदः । शङ्कते-कारणत्वमिति ।। कर्तृत्वमिहग्रन्थे कारणत्वमात्रं विवक्षितमित्यर्थः । वाचकेति ।। कर्तृपदग्रहणेनैवेत्यर्थः । गौणमिति । कारणमात्रार्थकं कर्तृपदमुक्तत्वेत्यर्थः । प्रयतमानस्य मूलकारस्येत्यर्थः । इत्यादिश्रुत्येति ॥ तस्याः पूर्वोक्तदिशा ज्ञानपूर्वमसृजतेत्यर्थत्वादिति भावः । सगुणत्वेति ॥ ज्ञानरूपगुणवत्वासिद्धेरित्यर्थः । कर्तृत्वशब्दार्थेति ।। 'कर्तृत्वञ्च कार्यकारकक्रिया' इत्यादिना उत्तरत्र व्यक्तम् । न हि पञ्चाशत्कोटिविस्तीर्णभूगोलादिः केनचिदल्पज्ञानादिमता प्रसिद्धकर्जेत्पद्यत इति सम्भाव्यते । अतः प्रसिद्धकर्त निरपेक्षोत्पत्तिकं क्षित्यादि सर्वज्ञत्वादिमत्कर्तकत्वेनैव सिद्धचति । न तु प्रसिद्धजीवकर्तृकत्वेन वा ब्रह्मकर्तृकत्वेन वेत्यर्थः । उत्पत्तिकस्येत्युक्तोत्पत्तिः सम्भूतवाक्यसिद्धा । प्रसिद्धकर्तनिरपेक्षोत्पत्तिकं क्षित्यादिकं पक्ष इति भावः । बुद्धिपूर्वमितीति वाक्यप्रतीकम्, बुद्धिपूर्वमित्यादीत्यर्थः । आकाङ्क्षामनुसृत्याप्युक्तमेव वाक्यार्थमाह यया युक्त्येति ॥ कर्तृत्वं भवतीति शेपोक्तिः । अस्फुटत्वादाह एतदुक्तं भवतीति ॥ एकत्वमित्यङ्गीकार्यमित्यन्वयः । सामान्यस्य विशेषपर्यवसानावश्यम्भावादाह-स चेति ॥ कर्तेत्यर्थः । ब्रह्मवेति कुत इति चेत् सामान्यस्य क्वचिद्विशेषे पर्यवसानावश्यम्भावात् शैवस्कान्दगाणपत्यागमोक्तशिवादौ पर्यवसानापेक्षया निर्दोषश्रुत्युक्तब्रह्मरूपकर्तरि पर्यवसानं युक्तमिति भावेन श्रतिमाह यतो वा इमानीति । अन्यत्र प्रकृतिजीवादौ । तावता कर्तृत्वान्तर्गतत्वेन सार्वज्ञादिसिद्धिः कथमित्यत आह-कर्तृत्वञ्चेति ॥ कारकपदेनापादानाधिकरणादिसाधनकलापग्रहः । तदिच्छा कार्यादीच्छा । प्रयत्नः कारकगोचरकृतिः । स्पन्दः अङ्गचेष्टा । अत्रैवेति ॥ कर्तृत्वान्तर्गतमेव सार्वज्ञादीत्यत्रैवेत्यर्थः । स सङ्गत्येति ।। तृतीयस्कन्धे त्रपत्रिंशाध्याये 'स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना' इत्यादिना स पूर्वप्रकृतश्चतुर्मुखः पुरुषं सङ्गत्येश्वरमूर्तिना जाते गुणव्यतिकरे पुनः यथापूर्वं प्रजायत इत्यन्वय इत्यर्थः ॥

विवरणम्

(श्री.टि.) व्याचक्षते नरहरितीर्थाः । गौरवान्न बुध्यामहे इत्युक्तम् । वस्तुतस्त्वयुक्तमेवेति हृदयम् । अप्रसिद्धेति ॥ पक्षस्येति शेषः । व्यतिरेकिण्यप्रसिद्ध‌विशेषणत्वं न दोषः । 'आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्' इत्युक्तेश्चेत्यत आह-तद्रूपणत्वेऽपीति ।। नन्वदृष्टद्वारा कर्तृषु जीवेषु प्रत्येकं व्यभिचारवारणाय बुद्धिपूर्वमिति विशेषणसार्थक्यमित्यत आह-अदृष्टेति ।। परिहृतत्वादिति ।। अदृष्टद्वाराऽप्येको जीव एकस्यैव कर्ता न सर्वस्येति भावः । नन्वदृष्टद्वरिको जीव एकं करोत्यपरोऽन्यत्करोतीत्येवं मिलितेषु जीवेषु सर्वकर्तृत्वमस्तीति व्यभिचारोऽतो विशेषणं सार्थकमिति चेत्तत्राह सम्भूतेप्त्रिति ।। अनाशङ्कनीयत्वादिति ।। एक एकं जानात्यपरोऽन्यदित्येवं रूपेण सम्भूतेषु जीवेषु सार्वज्ञरूपसाध्यस्यापि सत्त्वेन व्यभिचारस्यानाशङ्कनीयत्वादित्यर्थः । तस्य कर्तृत्वादेः । कथं निरास इत्यत आह-बुद्धिपूर्वमिति ।। कालादौ सर्वोत्पत्तिमनिमित्तकारणे बुद्धिपूर्वप्रवृत्त्यभावादिति भावः । पूर्वमदृष्टद्वारा कारणेषु जीवेषु शङ्कितो व्यभिचारः सर्वग्रहणेन परिहृतः । इदानीं यदा बुद्धिपूर्वं प्रवृत्तिरेव कर्तृत्वमिति विवक्षितं तदा जीवेष्वदृष्टद्वारा कारणेषु तदभावात् कर्तृग्रहणेनैव व्यभिचारवारणे सर्वपदमप्यकिञ्चिकरमेवेत्याशयेनाह-अत एवेति ।। अनुव्याख्यान एवं कर्तृ-स्वरूपस्योक्तत्वादेवेत्यर्थः । इह हेतौ । कालादाविति ॥ सर्वोत्पत्तिम-न्निमित्तकारणत्वादिति भावः। प्रसङ्गः व्यभिचारप्रसङ्गः । वाचकग्रहणेनेति ।। बुद्धिपूर्वप्रवृत्तिरूपमुख्यार्थवाचककर्तृपदेनैवेत्यर्थः । गौणमिति ॥ कारणत्व-रूपगौणार्थकं कर्तृपदमित्यर्थः । व्यभिचारेति ॥ कालादावित्यर्थः । विशेपणेति ।। बुद्धिपूर्वमितिविशेषणेत्यर्थः। प्रयतमानस्य भगवतो मूलकारस्य । अकुशलत्वेति ।। वृथा लवणं जग्ध्वा पुनः पानीयान्वेषणे प्रयतमानस्येवेति शेषः । अङ्गीकृत्याप्यकुशलत्वं दूषणमाह-स्वरूपेति ।। परेणोद्भाव्यमानेति शेषः । कथमित्यत आह-यो हीति ।। हेतुसिद्धिरिति ।। 'स तपस्तप्त्वा' इति श्रुत्या बुद्धिपूर्वककर्तृत्वरूपविशेषणसिद्धिः । तपसो ज्ञानात्मकत्वेन तपस्तप्त्वेत्यस्य ज्ञात्वेत्यर्थकत्वात् । 'इदं सर्वम्' इति श्रुत्या सर्वकर्तृत्व-सिद्धिरिति श्रुतिद्वयेन विशिष्टहेतुसिद्धिरित्यर्थः । तथा चैवमादौ परं प्रति हेतुं प्रसाध्य पश्चादनुमानप्रयोगकरणान्न स्वरूपासिद्धिरिति भावः । सगुणत्वेति ।। हेतुसाधकश्रुत्यैव ज्ञानकर्तृत्वादिरूपगुणवत्वसिद्धेस्तत्साधनं पुनरनुमानेन क्रियमाणमयुक्तम् । सिद्धसाधनादिति भावः । सार्वज्ञेति ।। गुणविशेषेत्यर्थः । अप्रसक्तत्वादिति ।। सगुणत्वे हि विवादप्रसक्तिर्न तु सार्वज्ञादौ । अतोऽप्रसक्तसाधनेऽर्थान्तरतेति भावः । दोषान्तरमाह सर्वेति ।। सार्वज्ञस्येति शेषः । कार्यकारकक्रियाफलाभिज्ञानतदिच्छापूर्वकस्पन्दस्यैव कर्तृत्वेन सार्वज्ञस्यापि सर्वकर्तुत्वाख्यहेतुशरीरान्तर्गतत्वेन साध्यवद्धेतोरपि सन्दिग्धत्वापत्या साध्याविशिष्टता स्यात् । विशेषणीभूतैकदेशसन्देहे तद्धिशिष्टस्यापि हेतोः सन्देहादित्यर्थः । अंशे साध्यहेत्वोरैक्यमिति साध्यावैशिष्टचं केचिद्व्याकुर्वते कथमेतदिति । 'युक्तिश्च' इत्यादिवाक्यं कथं व्याख्येयमित्यर्थः । बुद्धिपूर्व हीति । बुद्धिप्रभृतीत्यर्थः । कर्तृत्वमिति । बुध्यादिमद्रूपकर्तृभावो धर्म इत्यर्थः । प्रथमप्राप्तत्वादिति ।। परेणाप्येकमकल्पयित्वा द्वितीयकल्पनानुपपत्तेरेकत्वं प्रथमोपस्थितमित्यर्थः । कल्पनेति ।। अनेकत्वकल्पने तु गौरवमिति भाव: अनेकत्वे प्रमाणाभावाच्चेति । न चातिबहुगुरुतरकार्यकर्तरनेकत्वमेवोचितं दृष्टानुसारादिति वाच्यम् । 'यतो वा इमानि भूतानि जायन्ते' मिति भावः । । इत्यादिश्रुत्युक्तरीत्यैवाङ्गीकर्तव्यतया तत्र च यत इत्येकवचनेन सर्वकर्तुरकत्व-प्रतीतेर्लोकदर्शनस्याप्रयोजकत्वादिति भावः । ननु श्रुत्युक्तोऽपि सर्वस्य कर्ता ब्रह्मवेति कुतः? चतुर्मुखादिः कस्मान्न स्यादित्यत आह-अन्यत्रेति ॥ 'वासुदेवो वा इदमग्र आसीन ब्रह्मा न च शङ्करः' इत्यादिश्रुत्यवगतप्रलयासत्त्ववति चतुर्मुखादावादिकालीनक्षित्यादिकर्तृत्वरूपलक्षणस्यासम्भवादिति भावः । ननु ब्रह्मणो जन्यपदार्थं प्रति कर्तृत्वेऽपि न सार्वज्ञसिद्धिः । जन्य-पदार्थविषयकज्ञानस्य कर्तृत्वान्तर्गतत्वेऽप्यजन्यपदार्थविषयकज्ञानस्य तदनन्तर्गतेरित्यत आह-कर्तृत्वं चेति ।। एवं च कालादिरूपाजन्यपदार्थस्यापि कारकादौ प्रवेशात्तद्विषयकमपि ज्ञानं कर्तृत्वान्तर्गतमेवेति भावः । सत्यकामः अवितथेच्छः । सत्यसङ्कल्पः अवितथप्रयत्नः ।

ननु 'कर्तृत्वात्सगुणम्' इति सगुणत्वे कर्तृत्वं हेतुरिति प्रतीयते । तदयुक्तम् । ज्ञानादिगुणवत्वरूपसगुणत्वस्योक्तरीत्या कर्तृत्वशब्दार्थान्तर्गतत्वेन हेतुसिद्धावेव साध्यसिद्धेरनुमेयाभावप्रसङ्गादित्यत आह-कर्तृत्वेनेति ।। नात्र हेतुहेतुमद्भावोऽभिप्रेतः । किं नाम ब्रह्म सगुणमित्युक्ते कथं सगुणत्व-मित्याशङ्कायां कर्तृत्वादियुक्तब्रह्मणस्तावत् कर्तृत्वं प्रमितं तथा च सगुणत्वमपि प्राप्तमेव ज्ञानादिगुणवत्त्वस्य कर्तृशब्दार्थान्तर्गतत्वेन कर्तृत्वोत्त्यैव सगुणत्व-लाभादिति योजनादित्यर्थः । ननु पुरुवः पूर्णाः पाः षड्गुणा यत्रेति व्युत्पत्त्या पुरुषशब्देनैव ब्रह्मत्वलाभाद्ब्रह्मेति व्यर्थमित्यत आह-पुरुषमितीति ॥ नामेति ।। 'जगृहे पौरुषं रूपं' इति पुराणप्रसिद्धनामेत्यर्थः । तथा च पुरुष-शब्दस्य विशेष्यभूतस्य रूढत्वाङ्गीकारात्रोक्तदोषः इति भावः । पुरुषर्षभमित्युक्तत्वात् पुरुषमिति व्यर्थमित्यत आह-पुरुमितीत्यप्याहुः । पुरुषत्वोक्त्येति ।। रूढपुरुपदेनेत्यर्थः । द्वितीयेति ।। पुरुषमिति द्वितीयायाः 'स सङ्कल्प पुनः काले कालेनेश्वरमूर्तिना' इत्युत्तरार्धस्थेन सङ्गत्येत्यनेनान्वय इत्यर्थः ।।

कर्मप्रकाशः

(स.टि) अनेनेति ।। बुद्धिपूर्वं सर्वकर्तृत्वादित्यनेन मूलेन ईश्वरपक्षकं केवलव्यतिरेक्यनुमानं सूचितम् । ईश्वरधर्मस्य हेतुतया उपादानात् । अन्यस्य हेतुत्वे हेतोः पक्षधर्मतालाभात् । अत्र कर्तृत्वमात्रस्य हेतुत्वोक्तौ सर्वज्ञत्वादिसिद्धिर्न स्यात् । घटादिकर्तुः कुलालस्य पलपरिमाणाद्युपेततया घट-ज्ञानाभावेन सर्वकर्ताऽपीश्वरो न सामस्त्येन स्वकार्यज्ञानवानित्यपि शङ्कोदयसम्भवात् तत्परिहाराय बुद्धिपूर्वकं सर्वकर्तृत्वादित्युक्तम् । सामस्त्येन स्वकार्यज्ञानपूर्वकं सर्वस्वकार्यकर्तृत्वं हेत्वर्थः । न चैवं सति शङ्काऽवशिष्यते ।

एतन्मते मूले युक्तिश्चेत्यनन्तरम् उच्यत इति शेषः । प्रतिज्ञातां युक्तिं वक्तुं बुद्धिपूर्वं सर्वकर्तृत्वादित्युत्तरं मूलम् । युक्ताः युक्तिसिद्धत्वेन प्रतिज्ञाताः सर्वज्ञत्वादयो धर्माः बुद्धिपूर्वं सर्वकर्तृत्वादिति हेतुना सिद्धा भवन्ति इति मूलयोजना । अनूदितं व्याख्यानं दूषयति तत्विति ।। न बुद्धयामह इति मृदूक्तिः । तन्नेत्यत्र तात्पर्यम् । अप्रसिद्धेति ।। सार्वज्ञादिगुणोपेतत्वरूपपक्ष-विशेषणस्याप्रसिद्धत्वादित्यर्थः । नन्वधिकरणविशेषनिष्ठतया साध्याप्रसिद्धावपि सार्वज्ञादिगुणोपेतमिति शब्दजन्यसाध्यज्ञानस्य सम्भवेन व्यतिरेकव्यामि ग्रहणसम्भवानाधिकरण विशेषनिष्ठतया साध्याप्रसिद्धिः व्यतिरेक्यनुमाने दोष इत्यत आह तद्दुषणत्वेऽपीति ॥ ननु नेदं विशेषणं व्यर्थम् कर्तृषु कुलालादिषु व्यभिचारपरिहारार्थत्वात् । न च सर्वकर्तृत्वग्रहणेन कुलालादौ न व्यभिचार इति वाच्यम् । जीवानामपि अदृष्टद्वारा सर्वकतृत्वेन व्यभिचारापरिहारात् । तस्य च कुलालादिष्वपि अदृष्टद्वारा सद्भावादित्यत आह-अदृष्एद्वारेति ॥ परमेश्वरे सर्वकर्तृत्वस्य सत्त्वेन सर्वशब्दस्य न सङ्कोच इति भावः । मा भूदेकस्मिन्जीवे व्यभिचारः । सम्भूतेषु सर्वजीवेषु सर्वकर्तृत्वसद्भावात्त व्यभिचारः स्यादेवेत्यत आह सम्भूतेष्विति ।। सम्भूतेषु रमादिसर्वकर्तृत्व रूपहेतोरभावेन व्यभिचारस्यानाशङ्कनीयत्वादिति भावः ।

हेतौ कर्तृत्वपदं कारणत्वमात्रपरमिति गूढाभिसन्धिः शङ्कते कालादीति ॥ कर्तृग्रहणेन कालादिन्युदास इत्यत आह- बुद्धिपूर्वप्रवृत्तिहीति ।। बुद्धिपूर्वकं कार्योत्पत्तौ या प्रवृत्तिः सैव कर्तृत्वम् । अन्या तु प्रवृत्तिकारणत्वमात्रमिति प्रामाणिकैरुक्तत्वादित्यर्थः । अदृष्टद्वारा जीवानां बहुकर्तृत्वेन व्यभिचारे शङ्किते अदृष्टद्वारा जन्येषु कार्येषु जीवानां कर्तृत्वमङ्गीकृत्य समाधानमुक्तम् । इदानीम् तु कतृत्वमेव नास्तीति न व्यभिचार इत्याह-अत एवेति ॥ हेतुसिद्धावेवेति ।। ब्रह्मणः सगुणत्वमात्रमनुमेयं न त्वयं गुणः साधनीय इति निर्बन्धोऽस्ति । यस्य कस्यचिद्रुणस्य सिद्धिमात्रेण निर्गुणत्वादिभङ्गात् । तथा च हेतुसिद्धावेव सगुणत्वसिद्धेः हेतुसिद्धिसगुणत्वसिद्धयोरैक्यात् अनुमेयाभाव: सन्दिग्धसाध्याभाव इत्यर्थः । तस्येति ।। सगुणत्वनिर्गुणत्वमात्रे विवादसद्भावेसार्वज्ञादिसाधनस्याप्रसक्तत्वादित्यर्थः ।

सार्वज्ञादेः साध्यत्वे हेतुर्दुष्टः स्यादित्याह-सर्वकर्तृत्वेति ॥ कर्तृत्तं बुद्धिपूर्वं कार्योत्पतौ व्यापृतिः । तथा च सर्वकर्तृत्वशब्दस्य सार्वज्ञपूर्वक सर्वनिष्पादे प्रवृत्तिरित्यर्थः । तदेकदेश सार्वज्ञं यदि सन्दिग्धमिति साध्यगित्यङ्गीक्रियते तर्हि तद्विशिष्टस्य हेतोर्निश्रयाभावात् साध्येनाविशेषः स्यादित्यर्थः । युक्तिश्रेत्यस्योत्तरवाक्येनान्वयाभावात्कयमस्य वाक्यस्य योजना कार्येति शङ्कानिरासाय प्रथमवाक्यार्थं तावदाह क्षित्यादिकमिति ।। सामान्योक्तेः प्रसिद्धार्थत्वसम्भवे त्यागायोगात् । युक्तिश्चेति वाक्येन क्षित्यादिकं सकर्तृकं कार्यत्वादित्यनुमानमेवोक्तमिति भावः ।

नन्वेवं तर्हि आद्यवाक्येन कृतत्वात् उत्तरवाक्यवैय्यर्थ्यमिति । अतस्त-द्वाक्यमवतारयति-तत्राशङ्केति ।। क्षित्यादेः सकर्तृकत्वं सिध्यतीति लिङ्गस्य पक्षे निर्दिष्टसाध्यप्रमापकत्वस्वाभाव्यादिति भावः । सर्वज्ञत्वादयो गुणा युक्ता इत्यंशं व्याचष्टे -यथेति ।। नित्यादिकमित्यनुमानं नित्यादिपक्षकमपि सर्वकर्तृत्वसाधकमित्यविवादम् । अन्यथा सर्वकर्तृसदसत्त्वविवादे क्षित्यादेः सकर्तृकत्वसाधनमनुपपन्नं स्यादिति । विवादविषयासाधकत्वात् । तया च कार्यत्वानुमानं क्षित्यादेः सकर्तृकत्वसाधनद्वारा सर्वकर्तारमपि साधयत्येवेति वाच्यम् । ततश्च यया कार्यत्वयुक्त्या सर्वकर्ता अर्थात् सिद्धो भवति तयैव युत्क्त्या सर्वकर्तृः सार्वज्ञादयः सिद्धा इति भावः । अनेन सर्वज्ञत्वादयो गुणा युक्ता इत्यतः पूर्वं यया युक्त्या सर्वस्य कर्ता सिद्धः तस्येत्येतावान् शेषः पूरणीय इत्युक्तमिति ज्ञेयम् ।

सर्वकर्तृत्वादिति ।। विशिष्टसाधकस्य एकदेशसाधकत्वमवर्जनीयमिति भावः । कथमिति ।। सार्वज्ञं सर्वकर्तृत्वशब्दार्यैकदेशं कथमित्यर्थः । उत्तर-माह-बुद्धिपूर्वामिति ।। सर्वा बुद्धिपूर्विका प्रवृत्तिः सर्वोत्पत्तौ व्यापृतिः सर्वकर्तृत्वशब्दार्थो यस्मात् तस्मात् सार्वज्ञं सर्वकर्तृत्वशब्दार्यैकदेशमिति भावः । ननु भवेत् सर्वकर्तृः सार्वज्ञासिद्धिः अनेनानुमानेन । यद्येतदनुमानमेकमेव सर्वकर्तारं गमयेत् । न चैवम् । अनेकेषां तत्तत्पदार्थकर्तृत्वेनापि अनुमानपर्यवसानसम्भवादित्यत आह एतदुक्तं भवतीति ।। तस्यैकत्वमङ्गीकार्यमित्यन्वयः । कुत इत्यत उक्तम् । प्रथमेति ॥ एकत्वसङ्खयायाः प्रथम-ससङ्खयात्वेन कर्तृ: तद्वैशिष्टय्प्रतीतेः प्रथमप्राप्तत्वादित्यर्थः । कल्पनालावादिति ॥ अनेके कर्तार इति कल्पनायाः सकाशादेक एव कर्तति कल्पनाया धुत्वादित्यर्थः । अस्त्वेकः कर्ता स ब्रह्मणोऽन्य एवेत्यत आह-स चेति ॥ कुत इत्यत आह-यतो वेति ।। 'यतो वा' इति श्रुतेः सद्भावात् ब्रह्मणः इदं सम्भावितम् । अतः कारणात् स ब्रह्मवेत्यङ्गीकार्यमित्यर्थः । एतेन यदि श्रुतिबलात् ब्रह्मणः सर्वकर्तृत्वसिद्धिरभिमता तर्हि श्रुत्यैव कृतत्वादनुमानं व्यर्थमिति परास्तम् । श्रुतेः सम्भावनार्थमेवोपन्यस्तत्वेन साध्यनिश्चयार्थमनुपन्यासात् । अन्यस्य नेदं सम्भावितमित्याह अन्यत्रेति ॥ कथं नानेनेति ।। विशिष्टसाधकस्यैकदेशसाधकत्वनियमादिति भावः ।

स सङ्गत्येति ॥ पुरुषमिति द्वितीयान्तस्य 'स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना' इति उत्तरार्धेनान्वय इत्यर्थः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) सर्वग्रहणेनैवेति ।। जीवादृष्टानां पृथक् तत्तत्कार्यजनकत्वे एकैकस्य जीवस्य अदृष्टद्वारा सर्वकर्तृत्वासंभवादिति भावः । ननु तहिँ मिलितेषु जीवेषु सर्वकर्तृत्वाव्यभिचारः स्यादित्यत आह संभूतेष्विति ॥॥ तद्वत्सार्वज्ञादेरपि तत्र प्राप्ते अनाशङ्कनीयत्वत् इति भावः । बुद्धिपूर्व प्रवृत्तिहीति ।। कालादेः जडत्वेन बुद्धिपूर्वप्रवृत्यभावादिति भावः । अत एवेति ।। पूर्वे जीवेष्वदृष्टद्वारा कर्तृत्वमङ्गीकृत्य सर्वग्रहणेन व्यभिचारः परिहृतः । इदानीं कर्तृत्वस्यैव भाक्तत्वग्रहणेनैव व्यभिचारपरिहार इत्युच्यत इति न पौनरुक्त्यमिति भावः । कारणत्वमिहेति ।। इह हेतौ कर्तृत्व पदेनेत्यर्थः । कालादौ प्रसङ्ग इति व्यभिचारस्येति शेषः । कथं तस्येति ॥ ब्रह्मणः बुद्धिपूर्वपदेन ज्ञानगुणप्राप्तेरिति भावः । स तपस्तप्त्वेति ।। 'यस्य ज्ञानमयं तपः' इत्युक्तेः तपश्शब्देन ब्रह्मणो ज्ञानसिद्धेरिति भावः । अप्रसक्तत्वादिति ।। सगुणत्वमात्रसाधनप्रसक्तौ सार्वज्ञस्याप्रसक्तेरिति भावः ।सर्वकर्तृत्वशब्दार्थान्तर्गतत्वेनेति ।। सर्वोपादानादिज्ञानस्य तत्कर्तृत्वान्तर्गतत्वादिति भावः । क्षित्यादिकमिति ।। विष्णुतत्वनिर्णयादौ कार्यत्वाद्यनुमानानां आगमानपेक्षाणां ईश्वरतत्सार्वज्ञादिसाधकत्वस्य दूषितत्वेऽपि अत्र तत्सापेक्षाणां ईश्वरगुणसाधकत्वाङ्गीकारात् न तद्विरोधः शङ्कनीयः । अत एव मूले 'कर्तृत्वात्सगुणं ब्रह्म' इति टीकायामपि 'यतो वा इमानि भूतानि जायन्ते' इत्यादिवाक्यमुदाहृतं ज्ञेयम् । प्रसिद्धकर्तृनिरपेक्षोत्पत्तिकस्येति ।। अस्मादादिषु प्रसिद्धो यः कर्ता कुलालादिः तद्रहितत्वे सति उत्पत्तिमत इत्यर्थः । क्षित्यादेः अवयवोपचयापचयाभ्यां उत्पत्तिमत्वस्य सिद्धत्वादिति भावः । यया युक्त्या सर्वस्य जगतः कर्ता सिद्ध इति ।। यद्यपि क्षित्यादिकं सकर्तृकं कार्यत्वा-दित्यनेन अप्रसिद्धकर्तृककार्यमात्रस्य कर्ता सिद्धचति । न तु सर्वस्य तस्य अपक्षत्वात् । सर्वस्य पक्षत्वे तु घटादौ पक्षैकदेशे सिद्धसाधनप्रसङ्गात् । तथापि जन्यत्वस्यैव पक्षतावच्छेदकत्वेन घटादेरपि तदवच्छिन्नतयोक्तानुमाने न सर्वकर्तृसाधनोपपत्तेः क्षित्यादिकपदेनाप्युक्तपक्षतावच्छेदकावच्छिन्नस्यैव विवक्षितत्वात् । न चैवं सपक्षाभावापत्याऽन्वयित्वानुपपत्तिः । घटस्यैव सपक्षत्वात् । जन्यत्वेन रूपेण पक्षस्यापि तस्य घटत्वेन रूपेण सपक्षत्वाविरोधात् । निश्चितसाध्यवत एव सपक्षत्वेन पक्षान्यत्वे सतीति तत्र विशेषणात् । न चैवं घटादौ संदिग्धसाध्यवत्त्वाभावात् पक्षत्वानुपपत्तिः । सिसाधयिषाविषयत्वेन पक्षत्वोपपत्तेः । एकस्यैव प्रकारभेदेन पक्षत्वसपक्षत्वयोरुपपत्तेर्विरोधाभावात् । हेतुकत्वं कार्यत्वं च प्रागभावप्रतियोगित्वमेव । तच्च 'नासदासीत्' इति श्रुतिसिद्धमिति न कश्चित् क्षुद्रोपद्रवः । एवं च रमादिसर्वजगतः पराधीनविशेषावाप्त्यादिरूपजन्यत्वात् तत्कर्तृत्वेन सर्वकर्तृत्वमिति भावः ।

अनेकत्वे प्रमाणाभावादिति ।। न चातिबहुलगुरुकार्यकर्तुरनेकत्वमेवोचितं दृष्टानुसारादिति वाच्यम् । स इदं सर्वमसृजत' इत्यादिश्रुत्युक्तरीत्यैवमङ्गीकर्तव्यतया लोकदर्शनस्याप्रयोजकत्वादिति भावः । जन्यत्वं नाम स्वरूपेणोत्पत्तिः न तु पराधीनविशेषवाप्तिरिति पक्षे तु कथं विष्णोः सर्वकर्तुत्वमित्यतः कर्तुत्वं निरूपयति । कर्तुत्वं चेति । कार्यमुत्पद्यमानं कारकाणि कारणानि क्रियाव्यापारः फलं क्रियासाध्यं एतेषां अभिज्ञानं सम्पज्ञानम् । तदिच्छा फलेच्छा। प्रयत्नः कार्यविषयको यत्नः । एतत्पूर्वकः यः स्पन्दः शरीरव्यापारः तत्कर्तुत्वमित्यर्थः । अनेन अजन्यस्यापि कारकादी प्रवेशात् 'नभो ददाति श्वसतां मार्ग यन्नियमादद' इत्याकाशादिनिष्ठव्यापारस्य ईश्वराधीनत्वोक्तेरिति भावः । सत्यसंकल्प इति ।। सत्यप्रयत्न इत्यर्थ इति संप्रदायविदः । ननु कुलालादौ कार्योपयोगिमृत्पिण्डचक्रादिज्ञाने सत्यपि तत्फलोपयोगादिज्ञानाभावात् ईश्वरेऽपि तत्र दृष्टानुसारेण कल्पनीयत्वात् । कथं सार्वज्ञसिद्धिरिति चेत् । मैवम् । ईश्वरे अन्यत्रासम्भावितभूभूधरादिकर्तृत्व-सिद्धया कुलालाद्यसम्भावितफलादिज्ञानस्यापि संभावितत्वात् । 'यः सर्वज्ञ' इति श्रुत्या तत्सिद्धेश्च । ननु कर्तृत्वात्सगुणं ब्रह्मेत्यत्र कर्तृत्वशब्दार्थान्तर्गत-कर्तृत्वादित्यस्याभिप्रेतार्थमाहः- कर्तृत्वेन सगुणत्वलाभादित्यर्थ इति ॥ सगुणत्वस्य कर्तृत्वं प्रति कथं साध्यत्वं साध्याविशिष्टत्वप्रसङ्गादित्यतः ज्ञानेच्छादिगुणस्य कर्तृत्वान्तर्भूतत्वादिति भावः । बृहन्तो ह्यस्मिन्गुणा इत्युक्तसगुणशब्देन ब्रह्मशब्दस्य पुनरुक्तिपरिहारार्थमाह- ब्रह्म पूर्णमिति ॥ देशतः कालतः प्रत्येकं गुणानां निरवधिकत्वेन चेति शेषः । पुरुषर्षभ-मित्युत्क्त्या पुरुषत्वप्राप्तेः पुरुषमिति पुनरुक्तमित्यत आह-पुरुषमिति भगवतो नामेति ।। अव्ययः पुरुषः साक्षीति विष्णुसहस्रनामसु पाठादिति भावः । स सङ्गत्त्येति ।। पुरुषमित्यादिद्वितीयायाः 'स संगत्य पुनः काले कालेनेश्वरमूर्तिना' इत्युत्तरार्धगतसंगत्यैत्यनेन पदेनान्वयः । अस्याप्यर्धस्य जाते गुणव्यतिकरे यथापूर्वं प्रजायते इत्यनेनान्वयः । योजना तु सः चतुर्मुखः काले प्रलयकाले पुरुषं पूर्वोक्तं नारायणं सङ्गत्य प्रविश्य पुनः गुणव्यतिकरे सृष्टिकाले जाते कालेन कालान्तर्यामिणा ईश्वरमूर्तिना हरिणा यथापूर्वम् संसारदशायां देवादिभि:  उच्चनीचादिभावेन ईश्वरादिप्रतियोगिभेदेन च स्थित: तथैव प्रजायते । श्वेद्वीपादौ प्रकर्षेण आनन्दाद्यनुभावेन सहितः प्रादुर्भूतो भवति । इदं तु तृतीयस्कन्धे कपिलदेवहूतिसंवादे उक्ता । अत्र तात्पर्यम् 'ब्रह्मा देवैः परिवज्रन् प्रलये परमेश्वरं । प्रविश्य सर्गे तु पुनः श्वेतद्वीपे प्रमोदते' ।। इति ।।