वाचनिकानां तु बहूनामप्यविरोधे स्वीकार्यता

(एकस्य शब्दस्यानेकार्थत्वसमर्थनम् )

मूलम्

४६- मूलम्- वाचनिकानां तु बहूनामप्यविरोधे स्वीकार्यता ।स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि' इति सूत्रम् । 'वानात्सूतेर्देवनाद्वासुदेवो वासाद् द्युतेश्छादनात्क्रीडया वा । बलादसुत्वाद्दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति वेदाः ' ॥ इत्यादि सौकरायणश्रुतिः । मोक्षेऽपि सुप्तिरस्तीत्याशङ्कानिवृत्त्यर्थमेवान्यतरपदम् । 'रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत् । तत्रापि यौगिको मुख्यस्सर्वत्रास्ति स वैदिके। अनवस्थानिवृत्त्यर्थं यौगिके रूढिकल्पना । ज्ञाते विशेषविज्ञानं व्यवहारोऽपि रूढितः ॥ इति ब्रह्मतर्के

टीका

टीका-'वचनेनैव प्रतीयमानत्वादर्थस्य' इति शब्दार्थत्वे प्रतीतिः प्रमाणमित्युक्तम् । तदयुक्तम् । तथा सत्येकैकस्य शब्दस्यानेकार्थत्वप्रसङ्गात् । अन्यायश्चानेकार्थत्वमित्येतत्प्रसङ्गादिष्टापत्त्या पराचष्टे-वाचनिकानान्त्विति ॥ वचनात्प्रतीयमानानाम् । तथा सति 'विश्वस्मादिन्द्र उत्तरः ' ' असदेवेदमग्र आसीत्' इत्यादाविन्द्रासदादिशब्दानामपि भगवत्पुरन्दराद्यनेकार्थतापि स्वीकार्येत्यत उक्तम्-अविरोध इति ॥ उत्सर्गस्य बाधकेन तत्र त्यागः । यत्र तु बाधकं नास्ति 'अजामेकाम्' इत्यादी तत्रोत्सर्ग एव बलीति भावः । अङ्गीकृतं च सूत्रकृतैकश्रुतिरप्येतदभ्युपगतवतीत्याहस्यानेकार्थत्वमित्याह-स्वाप्ययेति

वानादिति ॥ वानात् ज्ञानात्, वातेर्विच् । सूतेरुत्पादनात्, सूतेर्डु: । देवनात् क्रीडादेः दीव्यतेरच् । वाचासौ सुवासौ देवति विग्रहः । वासात् सर्वत्र वासकर्तृत्वात्, सर्ववासाधिकरणत्वाद्वा । 'बस निवासे' इत्यस्मादुण् । द्युतेर्देवः । वासुश्रासौ देवश्चेति द्वितीयोऽर्थः । छादनात् सर्वव्यापनात्, अविद्यादिना आवरणाद्वा । 'वस आच्छादने' इत्य- स्मादुण्। क्रीडया च देवः । पूर्ववद्विग्रह इति तृतीयः । द्वा । असुत्वात्प्राणरूपत्वादसुः । दातृतः दातृत्वाद्ददातेरेकारः, 'कृन्मेजन्तः ' इत्यव्ययम् । वर्तनात्सर्वत्र वः, 'वृतु वर्तने' अतो डः । वश्वासावसुश्वासौ दे चासौ वश्चेति विग्रह इति चतुर्थः ।

एवं सूत्रेण श्रुत्या चैकस्यापि शब्दस्यानेकार्थत्वं समर्थितम् । तत्र सूत्रं न प्रकृतानुगुणम् । अन्यतरशब्देनैकार्थत्वस्योक्तत्वात् । अन्यथा स्वाप्ययसम्पत्त्यपेक्षमित्येतावता पूर्णत्वेनान्यतरपदवैयर्थ्यापत्तेरित्यत आह- मोक्षेऽपीति ॥ यदि स्वाप्ययसम्पत्त्यपेक्षमित्युच्यते तदा स्वाप्यये मोक्षे या सम्पत्तिः सुप्तिस्तदपेक्षं तद्विषयमिति प्रतीतिः स्यात्, तन्निवृत्यर्यं स्वाप्ययसम्पत्त्योर्मध्येऽन्यतरापेक्षमित्युक्तम् । न त्वेक एवार्थ इति प्रतिपादनार्थम् । तथा सति वस्तुनि विकल्पायोगात्स्वाप्ययापेक्षमिति वा सम्पत्त्यपेक्षमिति वा ब्रूयादित्येवशब्दार्थः । ननु सम्बन्धे षष्ठीमङ्गीकृत्य स्वाप्ययसम्पत्त्योरित्येव कुतो न कृतम् । उच्यते । अनेकार्थस्यास्यैकार्थव्याख्यानेऽरुचिरेव व्याख्यातुः प्रमाणम् । न तु मुख्यामुख्यताविशेषोऽस्तीति सूचयितुमन्यतरापेक्षमित्युक्तम् । तथापि श्रुत्या एकस्य शब्दस्यानेकार्थत्वं न सिद्ध्यति ।

वानादिनिमित्तेन वासुदेवशब्दवाच्यत्वे देवदत्तादेरपि तत्प्रसङ्गात् । ततो रूढिराश्रयणीया । बलवती रूढिर्दुर्बलं योगम- पहरतीत्यङ्गीकृत्य योगेन प्राप्तातिप्रसक्तिरपाकरणीया । ततश्चाखण्डवृत्ते रूढेरेकस्या एवाश्रयणीयत्वात्कुतोऽनेकार्थतेत्याशङ्कां ब्रह्मतर्कबार्यन परिहरतिरूढीति ॥ रूढियोगौ विनेति तद्विषयतां विनेत्यर्थः । न केवलो रूढो नापि केवलो यौगिकोऽस्तीत्यर्थः । तत्रापि द्वयोरर्थयोरपि । समावेशेऽपि विवेकार्थमेतत् । स योगस्सर्वत्र वैदिके रूढेऽर्थेऽस्तीति व्यतिरेकेणोक्तस्यार्थस्यान्वयेन प्रतिपादनमेतत् । योग एव केवलोऽस्तु किं रूढिकल्पनयेत्यत आह-अनवस्थेति ॥ अनवस्था अतिप्रसङ्गः । अवान्तरपदानामपि योगस्तदवान्तरपदानामपीति वा । तर्हि रूढिरेवाऽस्तु किं योगेनेत्यत आह- ज्ञात इति ॥ यौगिकेऽर्थे ज्ञाते विशेषविज्ञानं भवति । तदेव च वेदान्तानां फलम् । रूढेः प्रयोजनान्तरमाह-व्यवहारोऽपीति ॥ व्यवहारो लौकिकः ॥

भावदीपः

(रा.टि.) इत्येतत्पराचष्ट इति ।। तस्य पराकरणे का सङ्गतिरित्यत उक्तम्-प्रसङ्गादिति ।। ' वचनेनैव प्रतीयमानत्वात्' इत्यनेकार्थत्वाङ्गीकारप्रसङ्गादित्यर्थः । शक्तिलभ्यार्थानामिति भ्रमनिरासाय वाचनिकानामित्यस्यार्थ- माह- वचनात्प्रतीयमानानामिति । यया कयाचिद्वृत्येत्यर्थः । बाधकेनेति ॥एकः शास्ता न द्वितीयोऽस्ति शास्ता', ' द्यावा भूमी जनयन् देव एकः ' इत्यादिबाधकेन पुरन्दरार्थत्वत्याग इत्यर्थः । अजामिति ॥अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा जनयन्तीं सरूपा:' इत्यादौ भगवत्प्रकृतिरूपार्थद्वयस्वीकारादिति भावः । स्वाप्ययेतीति ।। ' तीर्णो हि तदा सर्वान् लोकान् हृदयस्य भवति' इति वाक्यं स्वर्गपरमिति प्राप्ते सुप्तिमुक्त्युभयपरमिति वक्तुमिदं सूत्रम् । स्वाप्ययः सुप्तिः, सम्पत्तिः मुक्तिः । अन्यतरशब्दोऽत्रोभयपरः । तीर्णो हीति वाक्यं सुप्तिमुक्त्युभयपरं न स्वर्गविषयकम् । कुत: ? हि यस्मात् आविष्कृतं तु तदुभयविषयत्वमस्य वाक्यस्य विस्पष्टमत इत्यर्थः । एतदिति ।। अनेकार्थत्वमित्यर्थः । वानादित्यस्यार्थे ज्ञानादिति । स्वपरगताशेषविषयकज्ञानवानित्यर्थः । सूतेरिति । 'पूङ् प्राणिप्रसवे' इत्यत औणादिके डुप्रत्यये टिलोपः । दीव्यतेरजिति । पचादित्वादच् । सर्ववासेति ।। सर्वेषां वासस्याऽवासस्याधिकरणत्वादित्यर्थः । इत्यस्मा- दुणिति ।। कर्तर्यधिकरणे चेत्यर्थः ।अत उपधायाःइति वृद्धिः । द्युतेर्देव इति ।। द्युत्यर्थकाद् दीव्यतेः पचाद्यजिति भावः । बलाद्व इति ॥ वशब्दो बलवाचीति बलवान् वशब्दार्थ इत्यर्थः । प्राणरूपत्वात् सर्वचेष्टकरूपत्वादित्यर्थः । ददातेरेकार इति ।। ' डुदाञ् दाने' इत्यत्र आकारस्य स्थाने एकारादेश इत्यर्थः । कृन्मेजन्त इतीति ।। मान्त एजन्तश्च यः कृत्तदन्तम् अव्ययं भवतीति सूत्रार्थः ।

अन्यथेति ।। अनेकार्थत्व इत्यर्थः । वस्तुनीति || ' तीर्णो हि' इति वाक्ये एतदर्थकं वेति विकल्पायोगादित्यर्थः । तथापीति ॥ सूत्रकृताऽनेकार्थत्वस्याङ्गीकारेऽपीत्यर्थः । श्रुत्येति ।। 'वानात्सूतेः' इति श्रुत्येत्यर्थः । तत्रा- पीत्यनुवादः द्वयोरर्थयोरपीति व्याख्या । ननु पङ्कजादिशब्दे योगेन भेकादि- प्रतीतावपि रूढेरेव तत्र मुख्यतया रूढाद्यौगिको मुख्य इत्युक्तिः कथम्? इत्यत आह-समावेशेऽपीति । नारायणादिशब्देषु निर्दोषगुणाश्रयत्वादियोगार्थस्य, रूढार्थस्य च विष्ण्वादिरूपैकार्थ एव समावेशे कोऽर्थो मुख्य इति विचारे यौगिको मुख्य इति विवेकार्थमेतदित्यर्थः । सर्वत्रेत्यनुवादः रूढ इति व्याख्या । घटादिशब्दे तदभाव इति वैदिक इत्युक्तम् । व्यतिरेकेणोक्तस्येति ॥ रूढियोगौ विनेत्यस्येत्यर्थः । तेन न पौनरुक्त्यमिति भावः । अतिप्रसङ्ग इति ।। योगस्येति योज्यम् । अवान्तरेति । नारायणशब्दे नारेति अयनेत्यादिपदानां योगः । तदवान्तरेति ॥ नेत्यरेत्यादितदवान्तरपदानामपीति वेत्यर्थः । तदेव च वेदान्तानां फलमिति ॥ एतेन प्रागुक्तमुख्यतोपपादिता भवति । प्रयोजनान्तरमिति ॥ अतिप्रसङ्गनिवृत्त्यादिप्रयोजनापेक्षयेतरदित्यर्थः । इत्येकस्य शब्दस्यानेकार्थत्वसाधनम् ॥

कर्मप्रकाशः

(स.टि.) अङ्गीकृतं चेति । एकस्य पदस्य अनेकार्थत्वं सूत्रकृताऽङ्गीकृतमित्यर्थः । तीर्णो हि सर्वान् शोकानिति वाक्यं 'स्वाप्ययसंपत्योरन्यतरापेक्षमन्यतर-प्रतिपादकमुभयपरमिति यावत् । हि यस्मात् अत्र पिताऽपिता भव अनन्वागतं पुण्येन अनन्वागतं पापेनेति' सुप्तिमुक्तिलिङ्गमाविष्कृतं ही सूत्रार्थः । घृतेर्देव इति ।। द्युम्नार्थकात् दिवेरच्प्रत्यय इति भावः । स्वाप्ययसम्पत्त्योर्मध्ये इति ।। अस्य वाक्यस्य स्वाप्ययपरत्वं सम्पत्तिपरत्वं चास्ति । तत्रैकैकार्थप्रतिपादनावसरे अन्यतरापेक्षम् । एकैकापेक्षमिति यावत् । सुप्तेः पृथम् प्रतिपादकम् । एवं सम्पत्तेरपि पृथक्प्रतिपादकम् । न तु स्वाप्यये या सम्पत्तिरित्येवंरूपेण युगपदेवोभयविषयमिति भावः । अनेकार्थस्येति ॥ अनुपपत्तिदर्शने सत्येव एकार्थपरतया व्याख्येयम् । न त्वेकस्य मुख्यार्थत्वम- परस्यामुख्यार्थत्वमिति विभागदर्शनमात्रेण प्रतीतार्थद्वयं परित्यज्य एकार्थपरत्वं स्वीकार्यमिति सामान्येन ग्रहणं कृथम् । अन्यथा सुप्तेरमुख्यार्थत्वं दृष्ट्वा अस्य वाक्यस्य मोक्षमात्रपरत्वं जानीयात् । ततश्च स्वाप्ययसम्पत्त्योरन्यतरापेक्षमिति सूत्रमयुक्तं स्यादिति भावः ।

तथापि श्रुत्येति ।। वानात्सूतेरिति श्रुत्येत्यर्थः । कुत इत्यत आह-वानादिनिमित्तेनेति ।। वानादिकं वासुदेवशब्दवाच्यत्वे निमित्तम् । अतिप्रसङ्गात् । ततश्च निमित्तमेव प्रवृत्तिनिमित्तं वदन्ती श्रुतिरप्रमाणमेवेति नानया एकस्यानेकार्थत्वसिद्धिरिति भावः । अखण्डवृत्तेरिति । रुढिरेव सर्वत्राश्रियते योगस्तु नाद्रियत इति । ततश्च न वासुदेवशब्दस्यानेकार्थत्वमिति भावः ।

गूढवाक्यार्थपञ्चिका

( छ. टि.) तात्पर्यार्थे शब्दानां शक्तिरस्ति इत्यत्र प्रतीतेः प्रमाणत्वेनोक्तिमनूद्य दूषयति वचनेनैवेति || अर्थस्य तात्पर्यार्थस्य वचनेनैव शब्दोचारणेनैव प्रतीयमानत्वादिति कृत्वा तात्पर्यार्थस्य शब्दार्थत्वे प्रतीति: प्रमाणमित्यर्थः । अनेकार्थत्वप्रसङ्गादिति । गामानयेत्यत्र पशुमात्राद्यर्थत्वप्रसङ्गादित्यर्थः । इत्येतदिति ।। अनेकार्थत्वस्य अन्यायत्वमित्यर्थः । अस्याभिप्रायस्तु सुधायां विवृतः । पदानां पदार्थबोधनद्वारा वाक्यार्थबोधने प्रामाण्यम् । तस्य एकार्थबोधनेनैव संभवति सति अनेकपदार्थबोधनकल्पने कल्पनागौरवप्रसङ्गात् अनेकार्थत्वस्य अन्यायत्वमिति । इष्टापत्या पदानां अनेकार्यत्वाङ्गीकारेण तर्कस्य अङ्गपञ्चकमध्ये अनिष्टत्वरूपाङ्गवैकल्येनेत्यर्थः ।

ननु वेदस्य परमते अनुमेयार्थत्वखण्डनावसरे पदानां अनेकार्थकत्वस्थापनस्य कोऽवसर इत्यत आह-प्रसङ्गादिति । वाचनिकार्यमित्युक्त्या स्मृतस्यानेकार्थत्वस्य स्थापनार्थमिति शेषः । स्वीकार्येति ॥ तथात्वे पुरन्दरस्यापि वेदोक्तं सर्वोत्तमत्वं स्यात् अत्यन्ताऽसतोऽपि प्रलये अवस्थानं स्यादिति भावः । तत्र त्याग इति । तत्र इन्द्रादिशब्दे 'न ते विष्णो जायमानो' इत्यादिबाधकस्य विद्यमानत्वात् पुरन्दरादिः उत्सर्गतः इन्द्रादिशब्दमात्रेण प्राप्तस्य त्यागः । यत्र त्विति ।। अजामेकामित्यादौ विष्णोः जडप्रकृतेः चेतनप्रकृतेश्च जगत्कारणत्वादिना प्रतिपाद्यत्वे अङ्गीकृते श्रुतिविरोधादिकं नास्ति तत्र तस्मिन्प्रमेये उत्सर्गः शब्दतः यावान्प्रतीतार्थ: विष्णुप्रकृत्यादिरूपः स एव ग्राह्यः । बलवत्वादिति भावः । अङ्गीकृतं चेति ।। एकस्य पदस्यानेकार्थत्वमित्यर्थः ।तीर्णो हि सर्वान् शोकान् हृदयस्य भवति' इति वाक्यं स्वाप्ययसंपत्योः मोक्षसुषुप्त्योरन्यतरापेक्षं अन्यतरप्रतिपादकम् । उभयप्रतिपादकमिति यावत् । हि यस्मा अत्र पिताऽपिता भवति अनन्वागतं पुण्येन अनन्वागतं पापेनेत्यनेन सुप्तिमुक्तिस्वरूपमाविष्कृतं हि पुण्यपाययोः अनन्वागतत्वोक्तेरिति सूत्रार्थः । `श्रुत्यर्थस्तु । अयं जीवः तदा सुषुप्तिमुक्तिकालयोः सर्वान् शोकान् तीर्ण उत्तीर्णः सन् हृदयस्य हृद्ययनात् विद्यमानत्वात् हृदयं ब्रह्म तस्य शेषो भवतीति सुषुप्तौ मुक्तौ च विष्णुसमीपस्थो भवतीति । 'वा गति गन्धनयो:' इति धातोः 'आतो मनिन् क्वनिब्वनिपश्च' इति कर्तरि विचि इकारास्य इत्संज्ञायां वेरपृक्तस्येति वकारलोपे गत्यर्थानां ज्ञानार्थत्वादिति भावेनाह-वातेर्विजिति । सूतेरिति ॥ ' षङ् प्राणि गर्भविमोचने' तस्मात्कर्तरि औणादिको डुप्रत्ययः । क्रिडादेरिति ॥ दिवु क्रीडाविजिगीषाव्यवहारद्युतिमोदमदस्वप्नकान्तिगतिषु' इति धातोः पचाद्यजिति भावः । । वाश्चेति ।। वाति जानातीति वाः, सूते जगत्सृजतीति सुः, दीव्यति क्रीडादिकं करोतीति देवः इति भावः ।

सर्वत्र वासेति ।। तथा च वसतीति वासुः सर्वत्रेति योग्यतया सम्बन्धः अथवा वासयति सर्वस्मिन्निति वासुःकृवापाजिमिस्वदि' इति उणादिसूत्रेण बाहुलकउण्प्रत्ययः इत्युक्तं भवति । द्युतेरिति ।। दिवु क्रीडेत्यत्र द्युत्पर्थग्रहणात् प्रकाशार्थकदिवेरच्प्रत्ययः । छादनादिति ।। अयं वासुदेवशब्दस्य तृतीयोऽर्थः स्पष्टः । बलादिति ।। वबयोरभेदात् वः एकदेशस्य लकारस्य पृषोदरादित्वात् लोपे बलं तत्स्वरूपत्वादित्यर्थः । असुत्वात्प्राणरूपत्वादिति ।। सर्वचेष्टकत्वादित्यर्थः । ददातेरिति ।। ' डुदाञ् दान' इत्यतः औणादिको डप्रत्ययः । डित्वाट्टिलोपे उपदेश इति रूपम् । संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिष्विति महाभाष्योक्तेः उणादिसूत्रेषु अनुक्तोऽपि उप्रत्ययः दाञो ज्ञेयः ।

ननु एकारान्तस्य शब्दस्याप्रयोगात् कथमनेन विग्रहः पूर्वोत्तरपदैः कर्तव्य इत्यत आह-कृन्मेजन्त इति ॥ सूत्रार्थस्तु मकारान्तः एजन्तश्च कृत्प्रत्ययान्तः अव्ययसंज्ञिकं स्यादिति । वर्तनादिति । विद्यमानत्वादित्यर्थः । अतो ड इति ।। वृतु धातोः औणादिको डः । तस्य डित्वात् धातो: टिलोपे व इति रूपमिति भावः । दे इत्यस्य अव्ययत्वं 'न अव्ययादाप् सुप:' इति विभक्तिलोपेन लब्धविग्रहं दर्शयति वचेति ।। या सम्पत्तिः सुप्तिरिति ।। सुपुति: गाढ निद्रेति यावत् । परंज्योतिरिति वाक्यं एतद्विषयमिति प्रतीयेत सा तु न युक्ता । मोक्षे अविद्याया अभावेन अविद्याकार्यगाढनिद्राया अयोगादिति भावः । वस्तुनि विकल्पेति । जीव प्राप्ये वस्तूनि विकल्पः द्वैविद्यं मोक्षत्वं सुषुप्तित्वं चेत्यनेकरूपत्वं तस्यायोगादित्यर्थः ।

ननु सम्बन्धे इति ।। सूत्रकारेण सूत्रमिति शेषः । तथा स्वाप्ययसम्पत्योरिदमाविष्कृतं हि' इति सूत्रे कृते षष्टी शेष इति सम्बन्धसामान्ये षष्ठीविधानात्तीर्णो हि तदा सर्वान् शोकान्' इति वाक्यं मोक्षसुप्तिसम्बन्धीत्यर्थप्रतीतेः तदा मोक्षसुप्तिकालयोरिति अर्थद्वयाङ्गीकारे वाचकाभावेन अन्यतरापेक्षमित्यस्य वैय्यर्थ्यात् लाघवात् तथैव सूत्रं कुतो न कृतमिति भावः।

ननु अस्य वाक्यस्य उभयार्थमध्ये यन्मुख्यं मोक्षपरत्वं वा सुषुप्तिपरत्वं वा तत्कुतो नोक्तमित्यत आह- अनेकार्यस्यास्येति ।। सूत्रकारेण यदन्यतरापेक्षमित्युक्तं तत्तीर्णो हीति वाक्यस्य विमुक्तिपरत्वमेव न मुख्यार्थः । नापि सुप्तिपरत्वं किन्तु उभयमपि मुख्यार्थ एव तत्र एतद्वाक्यव्याख्यानसमये व्याख्यातुः एतदर्थद्वयमध्ये यस्मिन्नर्थे रुचिः सोऽर्थः कर्तव्यः । न तु तयोरर्थः यैर्मुख्यत्वामुख्यत्वविशेषैरस्तीति सूचयितुमेवेति भावः ।

ननुरूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत्' इति वाक्ये गौण्यादि-वृत्तिनिषेधोक्तेः वेदवाक्यस्य तु वाचनिकार्थं विनेत्यस्यापि तदनुसारेणैव व्याख्येयत्वादित्याशङ्कानिरासाय इदं वाक्यं अन्यथाऽवतार्य व्याचष्टे-तथापीति ।। वानात्सूतेरिति श्रुत्या वेदेनेत्यर्थः । देवदत्तादेरपीति । वासुदेवशब्दप्रवृत्तिनिमित्तस्य ज्ञानोत्पादनक्रीडादिकत्वस्य देवदत्तादावपि सत्वात् तत्प्रसङ्गात् वासुदेवशब्दवाच्यत्वप्रसङ्गादित्यर्थः । ननु रूढियोगयोः शब्दप्रवृत्तौ शक्तित्वेन शब्दार्थत्वाभावात् । 'रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत्' इति कथमुक्तमित्यत आह-तद्विषयतां विनेत्यर्थ इति ॥ तथा च वेदगः वेदप्रतिपादितः अर्थः कश्चिद्रूढियोगौ विना रूढिविषयत्वं योगविषयत्वं वा विना नैव भवेत् । तस्य तात्पर्यमाह-न केवलो रूढ इति ॥ गौण- लाक्षणिकयोरपि क्वाचित्कत्वादनुक्तिः । तत्रापीत्येतत् द्वेधा व्याचष्टे- द्वयोरिति ।। रूढयौगिकार्थयोर्मध्ये इत्यर्थः । समावेशेऽपि एकस्मिन्वस्तुनीतिशेषः । रूढियोगार्थयोः एकस्मिन्वस्तुनि समावेशेऽपि योगार्थस्य तन्महात्म्यप्रतिपादकत्वात् रूढार्थापेक्षया योगार्थस्य मुख्यत्वमिति भावः ।

ननु रूढिर्योगमपहरतीति रूढेर्योगापेक्षया मुख्यत्वोक्तेः, तत्रापि यौगिको मुख्य इति कथमुच्यत इत्यत आह- विवेकार्थमेतदिति । एतत् यौगिकस्य मुख्यत्ववचनविवेकार्थं अर्थमध्ये स्वरूपतः मुख्यत्वामुख्यत्वज्ञानार्थम् । रूढिर्योगमपहरतीति तु अर्थद्वयग्रहणसम्भवे रूढार्थग्रहणयौगिकार्थग्रहणयोः संदेहे पङ्कजादिपदेषु रूढार्थग्रहणस्य प्राबल्यं प्रति मुख्यविरोधो मुख्यार्थ-विष्णुसर्वोत्तमत्वेन पुरन्दरस्य पुरन्दरस्य परब्रह्मादिसर्वोत्तमत्वासम्भवे अन्योऽर्थः पुरन्दरादिरूपोऽर्थः त्याज्यः न ग्राह्य इति ।

ननु रूढियोगौ विनेत्यनेनैव वेदे रूढियोगार्थयोः सिद्धत्वात् सर्वत्रास्तीति पुनः किमर्थमुच्यत इत्यत आह- व्यातिरेकेणेति ।। तथा च इन्द्रादिशब्दे रूढयोगेन परमैश्वर्यप्रतिपादनं यौगिके वज्रधरादिशब्दे विद्वद्रूढ्या परमेश्वरप्रतिपादनमिति सर्वत्रानेकार्थत्वप्रतिपादनमिति भावः । अनवस्था अतिप्रसङ्ग इति ।। देवदत्तादौ योगेन वासुदेवादिशब्दवाच्यत्वस्येति शेषः । यौगिकेऽर्थे ज्ञात इति ।। पदावयवानां समासादियोगेन विशिष्ठवाक्ये ज्ञाते विशेषविज्ञानं तदवयवप्रतिपादितगुणक्रियादिविशिष्टत्वरूपविशेषविज्ञानं भवति । परमेश्वरस्यानन्तगुणप्रतिपादनार्थं वेदानां प्रवृत्तेरुक्तत्वादिति भावः ।