किञ्चासद्विलक्षणमित्यत्राभावान्यविरोधानां मध्ये नत्रः कोऽर्थः ?

(असद्वैलक्षण्यशब्दार्थस्य निर्वचनाशक्यत्वोपपादनम्)

मूलम्

१२-मूलम्- किञ्चासद्विलक्षणमित्यत्राभावान्यविरोधानां मध्ये नत्रः कोऽर्थः ? यद्यभावः न । असद्विलक्षणत्वे भावत्वमेव जगतः स्यात् । न च सतोऽन्यस्मादसतो विलक्षणं जगत् । असतोऽन्यत्वादिधर्मानङ्गीकारात् । ब्रह्मणश्च । असतोऽनिर्वचनीयत्वाङ्गीकाराच्च न वैलक्षण्यं ततोsनिर्वाच्यस्य । तथापि चेद्वैलक्षण्यं नानिर्वाच्यत्वं जगतः । न च विरोध:  विरोधिनोरन्यतरनिषेधेऽन्यतरव्याप्तत्वानुभवात् । अविद्यमानं न भवतीत्युक्ते विद्यमानमित्येव हि सर्वलोकानुभवः । अतोऽनन्तगुणे भगवान्नारायण इति सिद्धम् ॥

टीका

टीका- एवं सद्वैलक्षण्यं निराकृत्येदानीमसद्वैलक्षण्यस्यापि निर्वक्तुमशक्यत्वादनुमानमसाध्विति प्रतिपादयितुमारभते किञ्चेति ॥ तत्राभावं तावन्नञर्थमाशङ्कत्य निषेधति-यदीति ॥ कुतो नेत्यत आह-असदिति ॥ यत इत्युपस्कर्तव्यम् । अभावे नञर्थेऽसदिति सदभावः स्यात् । तथा च जगतो धर्मीकृतस्यासद्विलक्षणत्वं नाम भावत्वमेव प्रतिज्ञातं स्यात् ततश्चार्थान्तरतेति । नञोऽन्यार्थत्वपक्षं निषेधति न चेति ।। सतोऽन्यददुच्यते । तस्मादतो विलक्षणं जगच्छुक्तिरजतादिकं प्रतिज्ञायत इत्यपि पक्ष नेत्यर्थः । कुत इति चेत्, किमत्र सच्छब्देन परमार्थमुपादाय ततोऽन्यन्निरुपाख्यमसदित्युच्यते? उत सच्छदेन भावं गृहीत्वा तदन्योऽभावोऽसदित्यभिधीयते ? आयासम्भवे हेतुमाह- असत इति ॥ आदिपदेन व्यावर्तको धर्मो गृह्यते । ब्रह्मण परमार्थस्यान्यत्वं प्रति प्रतियोगित्वानङ्गीकारात् । द्वितीयं दूषयति- असत इति ॥ अभावस्येत्यर्थः । अनिर्वाच्यस्य अनिर्वाच्यतया सिषाधयिषितस्य । न हि गौर्गोविलक्षणेति युज्यत इति भावः । अनिर्वचनीयादपि बैलक्षण्यं शुक्ति-रजतादेरङ्गीकुर्वाणं मन्दं प्रत्यनिष्टमाह-तथापीति ॥ गोविलक्षणस्यागोत्ववदिति भावः । विरोधार्थतापक्षं निषेधति न चेति ॥ नञर्थ इति शेष: । कुत इत्यत आह-विरोधिनोरिति ॥ नञो विरोधार्थत्वेऽसदिति सद्विरोधीत्युक्तं स्यात् । विलक्षणशब्दश्च प्रतिषेधपरः । ततश्च सद्विरोधी न भवतीति प्रतिज्ञार्थः स्यात् । प्राक् चास्मादनुमानान्न तृतीया कोटि: प्रसक्ता । अस्ति च द्वयोरेव विरोधिनोर्मध्येऽन्यतरनिषेधेऽन्यतरव्याप्त्यनुभवः । तेन पक्षीकृतस्य सत्त्वमापद्येतेति । उक्तां व्याप्तिमुदाहरणेन दर्शयति-अविद्यमानमिति । वादार्थमुपसंहरति-अत इति ॥ ' महन्नाम यास्वृक्षु विद्यते' इत्यनेन महानाम्नीनां महागुणत्वेनेश्वरप्रतिपादकत्वमुक्तम् । इति ब्रह्मणो गुणपूर्णत्वसाधनम् ॥

भावदीपः

(रा.टि.) अनुमानमिति ॥ जगद्वा शुक्तिरूपं वा सदसद्विलक्षणमित्यनुमानमित्यर्थः । व्यावर्तको धर्म इति ।। वैलक्षण्यं प्रति प्रतियोगित्वरूपो धर्म इत्यर्थः । ब्रह्मणश्चेति मूले पूर्वस्माद्धर्मानङ्गीकारादित्येवानुवर्त्यार्थमाह- ब्रह्मणश्च परमार्थस्येति ।। द्वितीयमिति || ' सच्छब्देन भावं गृहीत्वा' इति पक्षमित्यर्थः । प्राक् चास्मादिति ॥ जगद्वा शुक्तिरूप्यं वा सदसद्विलक्षणमित्यनुमानात्प्रागित्यर्थः । कथमयं वादार्थ इत्यत आह- महन्नामेति ॥ महानाम्नीनां प्रतिपादकत्वमित्यन्वयः । अतोऽनन्तगुणत्वं वादार्थ इति भावः । इति ब्रह्मणो गुणपूर्णत्वसाधनम् ।।

विवरणम्

(श्री.टि.) नञर्थे सतीति शेषः । सत्त्वं भावत्वम्, असत्वमभावत्वम् । अतोऽसद्विलक्षणत्वं नामेत्यस्य अभावविलक्षणत्वं नामेत्यर्थः । भावत्वमेवेति ॥ भावत्वस्याभाववैलक्षण्यरूपत्वादिति भावः । परमार्थं ब्रह्मरूपम् । तदन्यस्यापरमार्थत्वादिति भावः । निरुपाख्यं शशविषाणादि । व्यावर्तकेति ॥ अन्यत्वस्य व्यावर्तकधर्मसापेक्षत्वादिति भावः । तथा चासतो निरुपाख्यस्य ब्रह्मप्रतियोगिकान्योन्याभावाधिकरणत्वादिधर्मानङ्गीकाराद्रह्मणश्च निरुपाख्यनिष्ठान्योन्याभावप्रतियोगित्वादिधर्मानङ्गीकारादिति मूलार्थो द्रष्टव्यः ।

न हीति । तथा चासतोऽभावस्यापि सर्वजगदन्तः पातित्वेनानिर्वचनीयत्वाङ्गीकारादनिर्वाच्यस्यानिर्वाच्यतया सिषाधयिषितस्य जगतः शुक्तिरजतादेस्ततोऽभावाद्वैलक्षण्यरूपमनिर्वचनीयत्वं न सम्भवति । उभयोरप्यनिर्वाच्यतया सजातीयत्वात् । गोर्गोवैलक्षण्यवदिति मूलं योजनीयम् । शुक्तिरजतादेः सर्वस्यापि जगत इत्यर्थः । एवमङ्गीकुर्वाणस्य मायावादिसिद्धान्तानभिज्ञत्वान्मन्दत्वं बोध्यम् । ननु सद्विरोधि न भवतीत्युक्ते सदेव प्राप्नोतीत्युक्तम् । सदसद्वैलक्षण्यरूपानिर्वचनीयाख्यतृतीयकोटेः सत्त्वादित्यत आह-प्राक् चेति ।। अस्मादनुमानाद् बाध्यत्वानुमानात् । ननु तथाप्यनिर्वचनीयरूप-तृतीयकोटिसन्देहात् सन्दिग्धासिद्धिर्दुवरिति चेन्न । अनिर्वाच्यस्य सर्वत्राप्रसिद्धेरुक्तत्वेन सन्देहस्याप्यनवकाशात् । तदिदमुक्तम्- न प्रसक्तेति ॥ अन्यथा न निश्चितेत्यवक्ष्यत् । असुरो न भवतीत्युक्ते मनुष्यस्यापि प्राप्त्या सुरस्यैव प्राप्त्यभावाद्व्यभिचार इत्युक्तम्-विरोधिनोर्द्वयोरेवेति ॥ पक्षीकृतस्येति । अनेन मूलेऽनुभवादित्यनन्तरं पक्षीकृतस्य सत्त्वमापाद्येतेति शेष इत्युक्तं भवति ।।

कर्मप्रकाशः

(स. टि) मूले नञः कोऽर्थ इति || असच्छदान्तर्गतनञः कोऽयं इत्यर्थः । बादार्थमिति । गुणानां मिथ्यात्वनिरासकवादार्थमित्यर्थः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) यत इत्युपस्कर्तव्यमिति || अध्याहार्यमित्यर्थः । मूलयोजना तु यतः जगतः साध्यभूतमसद्विलक्षणत्वं, अर्थात् भावत्वमेव स्यात् । अतः सः अभावः असदित्यत्र नञर्थो न भवतीति । तदुपपादयति-अभावे नत्र इति ।। अङ्गीकृते इति शेषः । धर्मीकृतस्य विमतं मिथ्येत्यत्रेति शेषः । भावत्वमेवेति || असद्विलक्षणमित्यत्र सच्छन्दो भावार्थः । असतः सदभाव: भावाभावः ततो विलक्षणत्वं भावत्वमेव असद्विलक्षणत्वम् । भावत्वस्याभाववैलक्षण्यरूपत्वादिति भावः । ननु शुक्तिरजतस्य पक्षीकरणात्, असतो विलक्षणं जगदिति कथमुक्तमित्यतः जगच्छब्देन शुक्तिरजतमेव गृहीतमित्याह- जगच्छुक्तिरजतादिकमिति ॥ मूले असतोऽन्यत्वादिधर्मानङ्गीकारानिर्वचनीयत्वाङ्गीकारौ विरुद्धावित्यतो सतोऽन्यत्वादीति वाक्यं विकल्पमुखेन योजयति- किमत्रेति ।। परमार्थमुपादायेति ।। परमार्थसद्ब्रह्म गृहीत्वेत्यर्थः । निरुपाख्यं अत्यन्तासच्छशविषाणादिकमित्यर्थः । परमार्थस्येति । निर्विशेषत्वेनाङ्गीकृतत्वादिति शेषः । सिसाधयिषितस्य भावाभावात्मकप्रपञ्चस्य  I अयमाशयः । विमतमिति पक्षे अभावस्यापि पतितत्वात् । असद्विलक्षणमित्यनेन अभाववैलक्ष्यण्यसाधनायोगादिति । तत्र दृष्टान्तमाह- न हि गौरिति || गोत्वावच्छिन्नः कीदृश इति जिज्ञासुं प्रति गोविलक्षण इति गोत्वावच्छिन्नवैलक्षण्यं वक्तुं युज्यते इत्यर्थः । गोविशेषस्य गोविशेषणान्तरवैलक्षण्यं तु वक्तुं युज्यत एवेत्याशयः । अनिर्वचनीयादपीति ।। अभावादिति शेषः । अभावस्य अभाववैलक्षण्यै अङ्गीकृते विरोध: स्यात् । न तु विमतशुक्तिरजतादेरिति भावः । गोविलक्षणस्यागोत्ववदिति भाव इति । यथा गोविलक्षणमहिष्यादेरगोत्वं भवति तथा अनिर्वचनीयादभावाद्वैलक्षण्ये विमतशुक्तिरजताद्यन्तर्गताभावस्य अनिर्वचनीयत्वं न स्यादिति भावः । प्रतिषेध (अर्थ) पर इति । तादात्म्यस्येति शेषः । विलक्षणशब्द अन्योन्याभावार्थ इति यावत् । अनेनैवाशयेनाह सहिरोधि न भवतीति ॥ प्रतिज्ञाय इति । असद्विलक्षणमिति साध्यांशस्यार्थ इत्यर्थः ।

ननु गोत्वाश्वत्वयोः परस्परविरोधिनोर्मध्ये घटादौ अन्यतरनिषेधेऽपि अन्यतरस्य गोत्वस्य वाऽश्वत्वस्य वा प्राप्त्यभावात् कथं विरोधिनोरित्याद्युक्तमित्यतः तद्विवरितुमाह-प्रागिति । तृतीयकोटिः सद्विलक्षणत्वरूपानिर्वाच्यत्वकोटिः । येन यथा घटादौ गोत्वाश्वत्वयोरन्यतरनिषेधेऽपि तृतीय-कोटिपटत्वादिप्राप्त्या उभयान्यतरकोटिप्राप्त्यभावः । तथाऽत्रापि वक्तुं शक्यं इति भावः । अनेन मुले द्वयोरेवेति मध्ये इति च शेषोक्तिः । अन्यत्वानुभव इत्यस्य नियमेन अन्यत्वप्राप्त्यनुभव इत्यर्थ उक्तो भवति । एवकारस्तु गोत्वाश्वत्वप्रतिबन्धिनिरासार्थः । तेनेति ॥ असद्विलक्षणत्वसाधनेनेत्यर्थः । नञः अभावाद्यर्थत्रयस्य बहुस्थले प्रतीयमानत्वेन मुख्यत्वात् मूले तदेवाशंक्य परिह्रुतं सादृस्याद्यर्थस्य तु तदभावात् तन्यायेन दूषणसंभवाच्च शङ्काद्यभावः । वादार्थमिति ।। निर्गुणत्वखण्डनरूपवादेन सिद्धं प्रयोजनमित्यर्थः ॥ छ ॥