‘इन्द्रो वा एताभिर्महानात्मानन्निरमिमीत' इत्यस्याप्युक्त एवार्थः
(इन्द्रो वेति ब्राह्मणवाक्यार्थनिर्वचनम् )
मूलम्
२६- मूलम्- ‘इन्द्रो वा एताभिर्महानात्मानन्निरमिमीत' इत्यस्याप्युक्त एवार्थः । निर्माणं नामाऽत्मनस्तद्व्याख्यानेन स्थापनम् । न ह्यन्यथा तासां करणत्वं भवति । ‘यस्तद्वेद स पितुष्पिता सत्' इति च श्रुतिः । ' त्रीणि पदा निहिता गुहासु यस्तद्वेद स पितुप्पितासत् ' 'स्त्रियस्सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान्न विचेतदन्धः । कविर्यः पुत्रः स ईमाचिकेत यस्ता विजानात्स पितुष्पिताऽसत्' इत्यादिश्रुतिभ्यो विज्ञानमेव हि तन्निर्माणम् । 'इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः' इत्यादेर्विज्ञापनं वा ॥
टीका
टीका - एवं 'महन्नाम यासु' इति निर्वचनसिद्ध्यर्थं महानाम्नीनां व्याख्यानं कृतम् । तदसत् । ' इन्दो वा एताभि:' इति ब्राह्मणेन महानाम्म्रीशब्दस्यान्यथा व्याख्यातत्वादित्यत आह-इन्द्रो वा एताभिरिति ॥ कथमुक्तार्थतेत्यत आह- निर्माणं नामेति ॥ महानिन्द्रः परमेश्वर एताभिरेतासां व्याख्यानेनात्मानं निरमिमीत ख्यापितवान् इत्यस्यापि व्याख्यानादुक्तार्थतैव । किन्तु ब्राह्मणे तात्पर्यमात्रमुक्तम् अस्माभिस्त्वक्षरार्थो निरूपित इति । उपलक्षणमेतत् । महानिन्द्रः पुरन्दर एवैताभिः परमात्मानं निरमिमीत व्यजानादिति च व्याख्यानेनोक्तार्थत्वमित्यपि द्रष्टव्यम् । निर्माणशब्दस्य ज्ञानं वा ज्ञापनं वाऽर्थः कुतः ? प्रसिद्धार्थे च किं बाधकम्? इत्यतो बाधकं तावदाह-न हीति ॥ अन्यथा उक्तार्थद्वयानङ्गीकारे । ईश्वरस्यानादित्वेन योग्यताविरहात्तृतीयोक्तकरणत्वानुपपत्तिर्बाधिकेत्यर्थः । ज्ञाने निर्माणशब्दप्रयोगं दर्शयति-य इति ॥ यस्तब्रम्ह वेद स पितुस्तस्य जगत्कारणस्य पिता । असत् अभवत् । निर्मातोच्यते । यस्य त्रीणि पदानि स्वरूपाणि गुहासु वैकुण्ठायासु निहितानि । इति च श्रुतिरिति प्रत्येकं सम्बन्धः । स्त्रियः स्त्रीलिङ्गाः । पेताः । पश्यन्नेवाक्षिमान्नविचेतदजानंस्त्वन्धः । यस्तासामेव पुत्रः कविः सतीर्भगवन्मूर्तीस्ता एव मे मह्यं पुंस आहुर्महान्तः । ताः सामर्थ्यद्वयो-सर्वज्ञो विरिञ्चः स एव सम्यग्जानाति । यश्च ता व्यजानात्स पितुः पिताऽसत् । उदाहृतश्रुतीनां फलमाह-इत्यादीति ॥ यदुक्तं ज्ञापनं निर्माणशब्दार्य इति एतदपि श्रुतिभिरुपपादयति - इन्द्र इति ॥ निहितं व्यवहर्तृभिर्गोप्यमानं दीप्तं भगवत्स्वरूपं देवा वाचि लब्धवन्तः । ज्ञात्वा चेन्द्र एकं जजान ज्ञापितवान् । सूर्यश्चैकम् । वेनात् वेदनामत्तीति वेनान्नाम देव एकम् । इत्येवं स्वधया सुखेन, निष्टतक्षुर्निर्मितवन्तो ज्ञापितवन्त इति ॥
भावदीपः
( रा. टि. ) व्याख्यानं कृतमिति ॥ भगवत्परत्वेनेति योज्यम् । अन्यथा तत्रत्येन्द्रादिनाम्नां महार्थत्वाभावेन महानामत्वासिद्धेरिति भावः । अन्यथेति ॥ आत्मनिर्माणकरणतया व्याख्यातत्वादित्यर्थः । उक्तार्थतैवेति ॥ भगवदर्थंतैवेत्यर्थः । तर्हि भगवदीयव्याख्या व्यर्थेति भावेन किन्त्विति शङ्कायामाह-ब्राह्मण इति ।। अस्माभिर्भाष्यकारैः । 'यस्तद्वेद' इत्यादिश्रुतित्रयोपपत्त्यर्थमाह- उपलक्षणमेतदिति ।। स्वकृतव्याख्यानुरोधेनाह-ज्ञानं वेति ।। भाष्यकृद्व्याख्यानुरोधेनाह-ज्ञापनं वेति । ज्ञापनं व्याख्यानमित्यर्थः । पितृशब्दार्थ:-जगत्कारणस्येति । तस्य पितुरित्यनुक्तौ व्यधिकरणतया असङ्गत्यापत्तेरिति भावः । असदित्यस्तेश्छान्दसं रूपमिति भावेन असदभवदिति व्याख्या । पितेत्यस्यार्थः-निर्मातोच्यत इति ।। पदेति 'शेशछन्दसि बहुलम्' इति बहुवचनस्य लोप इत्युपेत्योक्तम् पदानीति ॥ यस्तद्वेदेति प्राग्वव्याख्येयमिति भावः । ता एवेति ॥ पुंस इति विधेयापेक्षया श्रुती ताँ उ इति पुंलिङ्गता ज्ञेया । मे मह्यमिति मुनिवाक्यम् । सामर्थ्यद्वयेति । स्त्रीसामर्थ्यं पुंसामर्थ्यमिति द्वयं तदुपेता इत्यर्थः । श्रौतपदानामर्थ- माह-पश्यन्नेवेत्यादिना ।। स इति तच्छन्दश्रवणाद्यस्तासामिति यच्छब्दाध्याहारः । ईम् इत्यस्यार्थः- एवेति || आचिकेत तं सम्यगजानात् । एकपदार्थव्यक्तीकरणाय 'त्रिधा (नि) हितं पणिभिर्गुह्यमानं गवि देवासो धृतमन्वविन्दन्' इति पूर्वभागार्थं वदन्नेव शेषार्थमाह-त्रिधेति II ‘ पण व्यवहारे स्तुतौ च' इत्युक्तेः पणिभिरित्यस्य व्यवहर्तृभिरित्युक्तम् । ‘घृ क्षरणदीप्त्योः' इत्यतो घृतं दीप्तम् । गवीत्यस्यार्थः-वाचीति । वेदवाचि ज्ञातवन्त इत्यर्थः । अत्तीति ।। आशयतीत्यर्थः । सूर्यश्चैकमित्यादौ जजानेत्यनुषङ्गः । इति ब्राह्मणवाक्यार्थोक्तिः ।।
कर्मप्रकाशः
(स.टि.) अन्यथा व्याख्यातत्वादिति || ' इन्द्रो वा एताभिर्महानात्मानं निरमिमीत तस्मान्महानाम्न्यः' इति परमेश्वरनिर्माणसहकारित्वं महानाम्नी-शब्दार्थ इति व्याख्यातत्वादित्यर्थः । व्याख्यानादिति ॥ ' इन्द्रो वेति ब्राह्मणस्य एताभिः ऋग्भिः आत्मानं ख्यापितवान्' इति व्याख्याने नैतासु ऋक्षु परमेश्वरवाचकशब्दोऽस्तीति सूचनात् । महन्नाम यास्विति उक्तार्थता ब्राह्मणस्येत्यर्थः । ऋक्षु परमेश्वरशब्दाभावे ताभिः तद्व्याख्यानमनुपपन्नं स्यादिति महन्नामवत्वं खण्डाभिप्रेतमिति भावः ।
‘त्रिधाहितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः' इति ऋचं व्याचष्टे- त्रिधा निहितमिति । वेदनामत्तीति । वेदनाम् संहरतीति वेदान्नामेत्यर्थः ।
गूढवाक्यार्थपञ्चिका
(छ.टि.) ननु आचार्यैः ‘विदा मघवन्' इत्यादिखण्डव्याख्यानं यत्कृतं तदसङ्गतं महानाम्नीनामिति ब्राह्मणखण्डव्याख्यानोपयोगाभावादित्यतस्तत्राह-मयन् इन्द्रो वा एताभिरिति मूलोक्तस्याप्यसङ्गतिं वारयति-एवमिति ॥ इन्द्रो वा एताभिर्महानात्मानं निरमिमीत' तस्मान्महनाम्य इति पञ्चमपञ्चिका-ब्राह्मणवाक्येनान्यथाव्याख्यातत्वात् महान् श्रेष्टः इन्द्रः एताभिर्महानासी-संज्ञिकाभिः ऋग्भिरात्मानं स्वस्वरूपं निरमिमीत निर्मितवान् उत्पादितवान् । तस्मादेता महानाम्नीसंज्ञका इति व्याख्यातत्वादित्यर्थः । महानाम्नीष्वत्र स्तुवत इति प्रकृतमहानाम्नीनामेताभिरिति परामर्शाच्च ।
ननु ब्राह्मणे मघवन्नित्यादिशब्दानां सामान्याकारेण विष्णुनामव्याख्यानं कृतमित्येवोक्तम् । मूले तु यशस्विनित्याद्यवयवार्थः कथितः । अतः कथं मूलोक्त एवार्थः ब्राह्मणे उक्त इत्याशयेन शङ्कते-किंत्विति || उत्तरमाह-ब्राह्मण इति । ब्राह्मणे निर्माणोक्त्या महानाम्नीऋग्व्याख्यानेन विष्णुज्ञापनमात्रस्य विवक्षितत्वात् तात्पर्यकथनत्वं ज्ञेयम् । आचार्यैस्तु स्पष्टं ऋचो व्याख्याता इति भावः । विज्ञानमेव निर्माणमिति वक्ष्यमाणानुसारादाह-उपलक्षणमेतदिति । पूर्वं महच्छब्देन निरुपचरितमहत्ववतो विष्णोर्विवक्षितत्वादात्मानं स्वात्मानं भक्तान् प्रति एताभिः ऋग्भिर्मघवन्निन्द्रशक्रादिमहनामवत्वेन निरमिमीत ख्यापितवान् उपदिष्टवान् अतो महानाम्य इति अर्थों विवक्षितः । उपलक्षणपक्षे तु इन्द्रो वा एताभिरित्यस्यार्थमाह-पुरंदर इति ॥ मत्सिमहामिन्द्रो मदायेत्यादौ महच्छन्दसमभिव्याहृतस्येन्द्रशब्दस्य पुरंदरवाचित्वप्रसिद्धेः । आत्मशब्दस्य च सकलगुणपूर्णत्ववाचिनः विष्णुवाचित्वात् । उक्तार्थत्वं महानाम्नीनां विष्णुप्रतिपादकत्वरूपमेव न तु तदुत्पादकत्वमित्यर्थः ।
नन्वेताभिरिति महानाम्नीनां ईश्वरं प्रत्युक्तं करणत्वं कुतो न संभवतीत्यत आह-ईश्वरस्येति II ‘“अजो नित्यः शाश्वतोऽयं पुराणः' इत्यनादित्वोक्त्या उत्पत्तेः प्रमाणत्राधितत्वात् निरमिमीतेत्यनेनोक्तनिर्माणस्य ज्ञानज्ञापनरूपत्वं त्रिहाय उत्पत्तिरूपत्वाद्गीकारे एताभिरिति तृतीयोक्तयत्करणत्वं तदनुपपत्ति-र्बाधिकेत्यर्थः । निर्माणशब्दप्रयोगमिति । तात्पर्यायपित्रादिशब्दप्रयोगमित्यर्थः । अप्रतीतेर्यस्तद्वेदेति वाक्यमनूद्य व्याचष्टे-यस्तद्ब्रह्मेति । वेद जानाति, ‘विद् ज्ञाने' इत्यतः लट: तिष: विदो लटो वेति णलादेशे 'पुगन्तलघूपधस्य च' इति गुणः । पितुरित्यस्य व्याख्यानम्-जगत्कारणस्येति । तस्य ब्रह्माख्यविष्णोरिति शेषः । अस् भुवीत्यतः व्यत्ययेन लङर्थे लेटि लेटो डाटाविति अडागमे ‘इतश्च लोप:' इति तिपः इकारलोपे असदिति रूपमिति भावेनाह-असत् अभवदिति ।। ' तातस्तु जनकः पिता' इत्यमरोक्तिमनुसृत्य पितेत्यस्यार्थमाह-निर्मातोच्यत इति । अनेन ‘सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णो:' इति श्रुतिरपि सोमः जनिता विष्णोर्ज्ञातति व्याख्याता भवति । 'त्रिणि पदानिहिता' इत्यस्य पादस्य यद्वेति पादेनान्वयार्थं किंचिदध्याहरति-यस्येति ॥ विष्णोः पदशब्दस्य अंघरी- वाचकस्य ‘उत्तमानां स्वरूपन्तु पादशब्देन भण्यते' इति वचनेन स्वरूपवाचकत्वादिति भावेनाह-पदानि स्वरूपाणीति । पदशब्दात् जसः 'सुपां सुलुक्' इति सूत्रेण अकारादेशत्वात् श्यादेशाभावेन सर्वनामस्थानसंज्ञाभावात् । ‘नपुंसकस्य झलचः' इति नुमागमाभावेन श्रुतौ सवर्णदीर्घे पदेति रूपम् । एवं निहितेत्यपि । वैकुण्ठाद्यास्वित्यत्र आद्यशब्देन अनन्तासनश्वेतद्वीपे गृह्येते । तथा च यः तानि च वेदेत्यन्वयः सूचितः । तदित्यस्य तानीत्यर्थकत्वात् । तच्छब्दात्परस्य शसः ‘सुपां सुलुक्' इति सूत्रेण लोपात् । 'पितुः पिताऽसत्' इति पूर्ववदेव । प्रत्येकं सम्बन्ध इति ॥ इतिश्रुतिरिति पदयोः अनुवृत्या प्रतिवाक्यं सम्बन्ध इत्यर्थः । स्त्रीलिङ्गा इति ॥ 'लिङ्गं स्वरूपमुद्दिष्टम्' इत्यभिधानात्स्त्रीस्वरूपनारायण्यादयः सतीरित्यस्य भगवन्मूर्तीरिति व्याख्यानम् । ‘सद्भावे साधु भावे च सदित्येतत् प्रयुज्यते' इत्युक्तेः साधुभावशब्देन साधुस्वरूपमूर्तीनां ग्रहणात् । उशब्दस्य एवार्थत्वमभिप्रेत्य तच्छब्दस्य पुंस इत्येतद्विशेषणत्वेन पुलिङ्गत्वं चाभिप्रेत्याह-ता एवेति || मे मह्यं मत्प्रीत्यर्थम् । अनेन अस्मच्छन्दप्रतिपादकथनेन स्त्रियः सतीरिति विष्णुवाक्यमिदमिति ज्ञायते । पुंसः पुरुषरूपान् । आहुरित्यस्य कर्तारमध्याहरति महान्त इति ॥ दृशिधातोः लटः शत्रादेशे नुमभाव छान्दसः । तानित्येतदनुवृत्पात्र कर्मत्वेनान्वयं चाभिप्रेत्यार्थमाह- ताः सामर्थ्यद्वयोपेताः । पश्यन्नेवेति । तथा चैवं योजना । यस्मादिति शेषः । महान्तः यस्मात्सतीः स्त्रिय एव पुंसः तानेव तदभिन्नानेव आहुः । तस्मात् यः पुरुषः स्त्रीपुंविष्णुरूपाणि अभिन्नानि पश्यति स अक्षण्वान् अक्षिमान् । यः न विचेतत् स अन्ध इति । अक्षण्वानित्यत्र अक्षिशब्दस्य छन्दस्यपि दृश्यत इति अनङादेशे मतुप्प्रत्यये ‘मादुपधायाः' इति मस्य वत्वे अनोनुडित्यन्तंतात्परस्य मतुपो नुडागमे ‘सौ उगिदचां’ इति नुमागमे 'अत्वसन्तस्य च इति दीर्घ इत्यभिप्रेत्पार्थमाह-अक्षिमानिति ।। विचेतदित्यत्र विपूर्वाच्चिती संज्ञाने इत्यतः लङि बहुलं छन्दस्यमाङ्योगेऽपीति अडभावे शन्निमित्ते 'लघूपधगुणे इतश्च' इति तिप इकारलोपः । न विचेतदित्यस्य समुदायस्यार्थो अजानन्निति । ‘ताँ उ’ इति पूर्वार्धस्थपदद्वयमनुवर्त्य लिङ्गविभक्तिव्यत्ययमाश्रित्य पुत्रशब्देनान्वयमाह-यस्तासामेव पुत्र इति ॥ कविः सर्वज्ञ इति ॥ ‘संख्यावान् पण्डितः कविः' इत्यमरः । चिकेत 'कित निवासे रोगापनये च’ इति धातोः । धातूनामनेकार्थत्वादिति संप्रदायमाश्रित्य बोपदेवः ‘कित्संशयेक्षावासारोग्य' इति धातुव्याख्यानं पपाठ । तदनुसारेण ज्ञानप्रकरणाच्च चिकेतेति पदं व्याचष्टे-स एव सम्यग्जानातीति ॥ अत्र इमाः भगवन्मूर्तीरिति श्रुत्युक्तेन कर्मणाऽन्वयः । कितधातोर्लिटि तिषो णलादेशे लिटि धातोरिति द्वित्वे अभ्यासस्य 'कुहोश्चुः' इति चुत्वे उपधागुणे चिकेतेति रूपम् । यस्ता विजानादित्यत्र पुनर्यच्छब्दश्रवणात् रुद्रादिभक्तान्तर-विषयमिदं वाक्यमित्यभिप्रेत्य यश्चेतिशब्दोऽध्याहृतः । 'ज्ञा अवबोधने' इति धातोर्विपूर्वालिङि ‘क्रित्स्यादिभ्यना' इति श्नाप्रत्यये 'ज्ञा जनोर्जे’ति धातोः जादेशे छान्दसे अडभावे ' इतच' इति तिप: इकारलोप इति भावेन विजानादित्यस्य प्रतिपदमाह-ताः व्यजानादिति । भगवत्मूर्तीरित्यर्थः । तथा च 'रा पितुः' इत्यत्र स इत्यनेन ब्रह्मण: रुद्रादिभक्तस्य च ग्रहणम् । 'पितुः पिताऽरात्' इत्यत्र पूर्वोक्त एवार्थ इति सूचितम् ।
ननु इति श्रुतिरिति मूलोक्तवाक्यस्य प्रत्येकमनुवृत्य संवन्धे सति आचार्योक्ते निर्माणनं नामात्मनस्तद्व्याख्यानेन ख्यापनमित्यर्थे प्रमाणकथनमिति प्रतीयते तत्कथं तद्विरुद्धमत्र विज्ञानमेव हि तन्निर्माणमित्युच्यते इति चेत् । न। पूर्वमेव टीकाकारैरुपलक्षणत्वेन आत्मनः ख्यापनशब्देन विज्ञानस्यापि गृहीतत्वात् । तत्र वक्ष्यमाणश्रुतिषु मध्ये निर्माणनशब्देन विज्ञानं कुत्रोच्यते । विज्ञापनं च कुत्र इति विवेकार्थं प्रवृत्तं मूलमित्यादिश्रुतिभ्य इति तत्सङ्गमयति- उदाहृतश्रुतीनामिति ॥ मूले आदिशब्दस्य यजुर्वेदेऽपि पठितानां एतादृशानां वाक्यानां ग्रहणार्थो ज्ञेयः । श्रुतिभिरिति || यद्यपि इन्द्र एकमिति एक एवार्धर्चः मूले उदाहृतः तथापि जजानशब्देन पृथगन्वयात् वाक्यत्रयत्वात् यजुर्वेदेऽप्यस्य पाठात् तत्रापि वाक्यत्रयेण श्रुतिभिरिति बहुवचनोपपत्तिः । इन्द्र एकमित्याद्यर्थप्रतिपत्तये 'त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन्' इति मन्त्रमादितो व्याचष्टे -त्रिधा निहितमिति । रूपत्रयेण वैकुण्ठादिस्थानत्रये निहितं स्थितमित्यर्थः । पणिभिर्गुह्यमानमित्यस्य व्याख्यानं व्यवहर्तृभिर्गोप्यमानमिति । ' पण व्यवहारे स्तुतौ च' इति धातोः अच इरित्युणादिसूत्रात् इप्रत्ययः बहुलग्रहणाज्जातः । आयादय आर्धधातुके वेत्युक्ते पक्षे आयत्ययभावात्पणिभिरिति साधु । व्यवहर्तृभिः शिष्यान् प्रति व्याख्यातृभिः गोप्यमानं अनधिकारिणः प्रतीति शेषः । घृतमित्यस्यार्थो दीप्तमिति । वृक्षरणदीप्त्योरस्मात् ‘अञ्जिघसिभ्यः क्त:' इत्युणादिसूत्रेण क्तप्रत्यय इति भावः । गवीत्यस्यार्थो वाचीति ॥ ‘भू वाग्वाचि च गौर्मता' इति विश्वः । लब्धवन्त इति तु अन्वविन्दन्नित्यस्यार्थः । अनुपूर्वात् विद्लृ लाभे इति धातोः लङि झेरन्तादेशे इतश्वेतीकारलोपे संयोगान्तलोपे तुदादित्वात् शप्रत्यये 'शेगुचादीनां' इति नुमागमे अडागमे च रूपमेतदिति भावः । अत्र वाक्शब्देन वेदादिवाग्ग्रहणात् तत्र विष्णुप्राप्तिनांम तत्प्रतिपाद्यविष्णुज्ञानमेव विवक्षितमिति भावेन उत्तरार्धस्य पूर्वार्धन राङ्गत्यर्थं पदमध्याहरतिज्ञात्वा चेति ॥ उत्तरार्धे एकशब्दत्रयोक्तेः वैकुण्ठादिरथमूर्तित्रयवचनात् तदुपदेशका इन्द्रादयः प्रत्येकमुच्यन्त इति भावेन तद्योजयति इन्द्र एकमिति । जजान ज्ञापितवानिति । 'जनि प्रादुभवि' इत्यतो अन्तर्भावितण्यर्थाल्लिटि रूपम् । वेनात् वेदनां अत्तीति ॥ पृषेदरादित्वात् इत्यस्य लोपेन वेनशब्द वेदनावाचकः । तथा च वेदनां भक्तदुःखं अत्ति भक्षयति नाशयतीति वेना तन्नामको देवो ब्रह्मादिरित्यर्थः । 'निघंटौ यज्ञो वेन' इति यज्ञानामसु पाठात् वेनशब्दस्य यज्ञार्थपक्षे वेनादित्यस्य यज्ञभोक्तृत्वं यज्ञाभिमानित्वं वाप्यर्थो बोध्य इति स्पष्टत्वाच्छिष्यैरेव ज्ञातुं शक्यत्वेन टीकाकारैर्नोक्तम् । कर्मार्थके वेनशब्दोपपदे 'अद भक्षण इति धातोः अदोऽनन्ने इति विट्प्रत्ययः । निर्मितवन्त इति ॥ यद्यपि ‘तक्ष तनूकरणे” इति तक्षधातुर्वर्धकिव्यापारे पठ्यते तथापि यास्केन ‘पुनर्युवानं चरथाय तक्षधुः’ इत्येतद्व्याख्यानावसरे तक्षति करोति कर्मेत्युक्तत्वात् तक्षधातोर्निर्माणार्थकत्वं च ज्ञातव्यम् । 'युष्मत्तत्ततक्षुष्वन्तःपादम्' इति सूत्रेण निः इत्यस्य विसर्गस्य षत्वे ततक्षुरित्यत्र तकारस्य ष्टुत्वम् । तथा च इन्द्रादयः वैकुण्ठादिस्थमूर्तित्रयोपदेशेन भक्तान्प्रति ज्ञापकत्वात् मूर्तित्रयनिर्मातार इत्युच्यन्त इति ऋक्तात्पर्यार्थ उक्तो भवति ।। छ ।