पूर्वस्य यत्ते अद्रिवः सुम्म्र आधेहि नो वसो

(पूर्वस्य यदित्यृगर्थकथनम्)

मूलम्

२२- मूलम्-पूर्वस्य यत्ते अद्रिवः सुम्म्र आधेहि नो वसो । पूर्तिश्शविष्ठ शस्यत ईशे हि शक्रः ॥ ८ ॥ पूर्वस्यानादेः सतस्ते सकाशात् यत्सुम्नं सुखं तस्मिन् नः आधेहि । तव पूर्तिः शस्यते ॥ ८ ॥

टीका

टीका-पूर्वस्य । पारमेश्वरसुखस्यान्यैराप्तुमशक्यत्वात्सकाशादित्युक्तम् । यस्य तव । ईशे ईष्टे ॥ ८॥

भावदीपः

( रा. टि.) पूर्वस्य यत्ते अद्रिवः सुम आधेहि नो वसो । पूर्तिश्शविष्ठ शस्यत ईशे हि शक्र: ' यत्ते सुम्नं तस्मिन्न आधेहीति कुतो न व्याख्यातमित्यत आह-पारमेश्वरेति ॥ सप्तमीभ्रान्तिं निवारयितुमाह-ईशे ईष्ट इति ॥ 'लोपस्य आत्मनेपदेषु' इति तलोप इति भावः । हेऽद्रिवः प्राणप्रवर्तक ! 'अद्रिरादरणीयत्वात्प्राणस्तद्वर्तकोऽद्रिवाः' इति ऋग्भाष्योक्तेः । वसतीति वसुः। तस्य सम्बुद्धिः हे वसो सर्वत्र विद्यमान सर्वावासेति वा । शविष्ठ बलवत्तम सुखवत्तमेति वा । पूर्वस्यानादेस्तव पूर्ति: पूर्णता शस्यते प्रशस्यते अस्माभिः योज्यम् । तद्विषये नोऽस्मान् आधेहि कुरु सुखिनं मां कुर्विति यावत् । श्रूयत इति वा । स त्वम् अनादेस्तव सकाशाद्यत्सुम्नं सुखमस्ति तस्मिन्निति कुतोऽमर्थ्यत इत्यत उक्तम्-ईशे हि शक्र इति ।। शक्रो भवानिन्द्रः ईशेईश ऐश्वर्येईष्टे तादृशः, सुखदाने समर्थो हीति मन्त्रार्थः ॥ ८ ॥

विवरणम्

(श्री.टि.) यस्य तवेति ।। तथा च यस्य तव पूर्तिः परिपूर्णता शस्यतेऽस्माभिः स्तूयते, स त्वमिति योजनोक्ता भवति । ईशे ईष्ट इति ॥ ऋचि आदरणीयत्वादद्रिः प्राणः, तं वर्तयतीत्यद्रिवा इत्यर्थो द्रष्टव्यः ॥ ८ ॥

कर्मप्रकाशः

(स.टि.) 'पूर्वस्य यतेऽद्रिवः सुम्न आधेहि नो वसो पूर्तिः शविष्ठस्य त ईशे हि शक्रः ।।' इत्युचं प्रतीकतयोपादत्ते-पूर्वस्येति ॥ पूर्तिः शस्यते इत्युक्तं यस्यकस्यचित्पूर्तिः शस्यत इति प्रतीतिः स्यात् तन्निरासाय भाष्यकृता ते पूर्तिरिति अन्वयमभिप्रेत्य तव पूर्तिः शस्यते इत्युक्तम् । एवमपि वाक्यभेदशङ्का प्राप्नोति । नः सुम्ने आधेहि । तव पूर्तिः शस्यते इत्यन्वयभेदात् तन्निरासायाह-यस्य तवेति । अनेन पूर्वस्य यस्य तव पूर्तिः शस्यते स त्वं ते तव सकाशात् यत्सुम्नं तस्मिन्नाधेहीत्येकान्वयः सूचितः । ऋचि व्यत्ययेन प्रथमपुरुषस्थाने उत्तमपुरुषप्रयोग इति भावेनाह -ईशे इष्टे इति ॥

गूढवाक्यार्थपञ्चिका

(छ. टि.) 'पूर्वस्य यत्ते अद्रिव' इत्यष्टमीं ऋचमुपादत्ते - पूर्वस्येति ॥ ननु पूर्वस्येत्येतत् यत्किञ्चित्स्वल्पपूर्वकालिकत्वभ्रान्तिवारणाय मूले अनादेरिति व्याख्यातम् । तस्य ते तव सुम्नं सुखमिति सुखनामसुपाठात् । सुम्नं सुखं न आधेहीति अन्वयसंभवात् सकाशादिति कुतो अध्याहृतमित्यत आह-पारमेश्वरसुखस्येति ।। तथा च हे अद्रिवः अद्रीन् पर्वतान् वा इतस्तत: गमयतीति अद्रिकः तस्य सम्बुद्धिः हे अद्रिवः । अद्रिशब्दोपपदात् ' वा गति गन्धनयोः' इत्यस्मात् डस्प्रत्ययः हे वसो हे इन्द्र पूर्वस्य अनादेः सतः अनादिभूतस्य ते तव सकाशात् यत्सुम्नं सुखमभिव्यज्यते । यच्छब्दश्रवणात् तस्मिन्नित्युपस्कर्तव्यम् । तस्मिन् सुम्ने अस्मद्योग्ये सुखे नो अस्मान् आधेहीति पूर्वार्धार्थ इति भावः ।

श्रुतौ 'पूर्तिः शविष्ठ शस्यत' इत्यत्र कस्येत्याकाङ्क्षानिवृत्यर्थं मूले ते इत्यनुवर्त्य तवेति व्याख्यातम् । एतद्वाक्यस्य अन्वयप्रदर्शनार्थं यस्येति पदमध्याहृत्य मूलं योजयति-यस्य तवेति । तथा च यस्य तव गुणपूर्ति: अस्माभिः शस्यते स्तूयते यस्मात् तस्मात् सुम्न आधेहि नो वसो इति पूर्वेणान्वयः । ऋचि इन्द्रं प्रति सुखप्रार्थनोपपत्यर्थं उक्तं ईशे हि शक्र इति । तत्र शक्र इति कर्त्र्क्तेः उत्तमपुरुषप्रयोगो अनुपपन्न इत्यत आह-ईशे ईष्ट इति ।। व्यत्ययेनेति शेषः । ईश ऐश्वर्ये इत्यस्मात् लटि तादेशे व्रश्चेति षत्वे ष्टुत्वम् । उत्तमपुरुषे इटि तु 'टित आत्मनेपदानां ' इति एत्वे ईश इति रूपमिति भावः । इन्द्र इति वक्तव्ये शक्र इति वचनं सुखदाने सामर्थ्यं स्यष्टीकर्तुं ज्ञेयम् ।शक्लृ शक्तौ' इत्यतः औणादिकरप्रत्यये निष्पन्नशक्रशब्दस्य शक्तिमत्वार्थकत्वात् ।। छ ।