ऋक् आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय

(अभिष्ट्वमिति श्रुतिशब्दव्याख्यानम्)

मूलम्

१६- मूलम् ऋक् आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय । इन्द्र द्युम्ना न इष एवाहि शक्रः ॥ आभिरभिष्टिभिः एवम्भूतैस्त्वत्पर्येपणैस्त्वत्प्रार्थनैः कञ्चिन्मदादिकं प्रचेतय प्रबोधय । प्रकृष्टचेतन सर्वज्ञ परमात्मन् । द्युम्नाय ज्ञानाय वित्ताय यशसे वा । इषे अन्नाय च नः प्रबोधय । एतादृशो हि शक्रः । शुक्र एवेति वा । शक्तिरतिरूपत्वाच्छक्रः ॥२ ॥

टीका

टीका-आभिः । शकन्ध्वादित्वादभिष्टिभिरिति साधु । प्रबोधयेत्यस्य कर्मानुक्तेर्मदादिकं कञ्चिदित्युक्तम् । इदानीं तावन्मां यश्चैवं प्रार्थयते तमपीत्यर्थः । प्रचेतनेत्यस्यार्थः प्रकृष्टचेतनेति । तस्य तात्पर्यद्वयं सर्वज्ञ परमात्मन् । चेतनाशब्दो ज्ञानवाची चेतनशब्दश्चाऽत्मवाचीति । इन्द्रशब्दस्तूत्तरत्र व्याख्यास्यते । द्युम्नाय इषे च नः इत्यस्यान्वयाभाव इत्यतः प्रचेतयेत्यस्यानुवृत्त्यान्त्रयं दर्शयति-प्रबोधयेति ॥ नन्वेकवाक्यतया सर्वं सुस्थम् । सत्यम् । तथापि सामान्यविशेषविषयस्य वेदनस्य प्रकृतत्वादत्रापि तथैव व्याख्यानम् । ज्ञानाय प्रबोधयेति श्रवणादौ समर्थं कुर्वित्यर्थः। कस्मादयं प्रार्थ्यत इत्यत उक्तम्-एवाहि शक्र इति ॥ अत्रायम् एवेतिशब्द एवमित्यर्थ इति भावेनोक्तम्-एतादृशो हीति ॥ प्रार्थितस्य साधको हीत्यर्थः । अवधारणार्थतामङ्गीकृत्योक्तम्-शक्र इति ॥ कः शक्रशब्दार्थो (यो)ऽवधार्यत इत्यत आह-शक्तीति ॥ 'शक्ल शक्तौ' 'रमु क्रीडायाम्' इत्याभ्यां ङः । शक्तिश्च प्रकृतार्थे । अस्मिन्पक्षेऽयमिन्द्र इति योज्यम् ।। २ ।।

भावदीपः

(रा. टि. ) 'आभिष्टवमभिष्टिभिः प्रचेतन प्रचेतय । इन्द्रद्युम्नाय न इष एवाहि शक्रः' । आभिरिति प्रतीकग्रहणम् । ननु अभि इष्टिभिरित्यत्र सवर्णदीर्घ अभीष्टिभिरिति भाव्यमित्यत आह-शकन्ध्वादित्वादिति ॥ 'शकन्ध्वादिषु पररूपं वाच्यम्' इत्युक्तेरिति भावः । चेतनाशब्द इति ॥ तथा च प्रकृष्टा चेतना यस्य, प्रकृष्टश्चासौ चेतनश्चेति बहुव्रीहिकर्मधारयी ज्ञेयाविति भावः । उत्तरत्रेति ।। प्रप्रव इत्यादि मन्त्रव्याख्यावसरे । एकवाक्यतयेति । हे प्रचेतन इन्द्र आभिरभिष्टिभिस्त्वं द्युम्नाय इषे नः प्रबोधयेत्येकवाक्यतयेत्यर्थः । अत्रापीति ।। पूर्वार्धे र्सामान्यतोऽपेक्षिताशेषप्रबोधनमर्थयित्वा उत्तरार्धे प्रद्युम्नाय इषे च नः प्रचेतयेति तात्कालिकापेक्षितप्रार्थनं क्रियते इत्येवं व्याख्यातमित्यर्थः । साधको हीत्यर्थ इति हिशब्दो-हेतौ । यस्मात्प्रार्थितस्य साधकोऽतः प्रार्थ्यत इत्यर्थः । अवधारणार्थतामिति । एवेतिशब्दस्येति योज्यम् । आभ्यां ड इति ।। डित्वाट्टिलोपे शक्र इति रूपमिति भावः । प्रकृतार्थ इति ।। प्रार्थितदान इत्यर्थः । उद्देश्याकाङ्क्षां पूरयति-इन्द्र इति योज्यमिति । सम्बुद्ध्यन्तमिन्द्रपदं प्रथमान्तत्वेनानुवर्त्य इन्द्रः शक्र एव प्रकृतार्थदाने शक्तिरूपो रतिरूप एवेति योजनेति भावः । रतिरूपत्वोक्तिः पूर्णसुखत्वान्नास्मत्तः प्रयोजनापेक्षा किन्तु प्रबोधने दयैव हेतुरिति भावः ||||

विवरणम्

(श्री.टि.) आभिरिति ॥ मूले ऋचि चाभिरित्येव सत्त्वादुभयप्रतीकग्रहणमेतत् । एवमुत्तरत्रापि यथायोग्यं द्रष्टव्यम् । ननु अभिष्टिभिरित्यत्र 'अकस्सवर्णे दीर्घः' इति सवर्णदीर्घे अभीष्टिभिरिति स्यादभिष्टिभिरिति कथमत आह- शकन्ध्वादित्वादिति ॥ शकन्ध्वादिगणेषु पठितत्वादित्यर्थः । एवं च 'शकन्ध्वादिषु पररूपं वाच्यम्' इति परस्य वर्णस्य रूपमेव भवतीति विधानादत्राप्युत्तरवर्णस्येकारस्य रूपवदेव रूपं पूर्ववर्णस्य जातमिति शक अन्धुः शकन्धुरित्यादिवदभि इष्टिभिरभिष्टिभिरिति पररूपे सति साध्वित्यर्थः । मदादिकम् अस्मदादिकम् । तस्य भावमाह-इदानीमिति ॥ मां तमपीत्यनयोः प्रबोधयेति भूलेनान्वयः । तस्य प्रकृष्टचेतनेत्यस्य । चेतनाशब्द इत्यादि ॥ प्रकृष्टा चेतना यस्यासौ प्रचेतनः सर्वज्ञः । प्रकृष्टश्चासौ चेतनश्च प्रचेतनः परमात्मेत्यर्थः । परमात्मन्निति मूलस्य उत्तरमचेतनेत्यर्थः व्याख्यास्यत इति ॥ प्रप्रव इत्येतदृग्व्याख्या इन्द्र: परमेश्वर इति भगवत्पादन्यस्यास्यत इत्यर्थः । एकवाक्यतयेति । हे प्रचेतन इन्द्र आभिरभिष्टिभिस्त्वं द्युम्नाय इषे च नः प्रबोधयेत्येकवाक्यतयेत्यर्थः । वेद प्रकृतत्वादिति ॥ वेदन प्रार्थनस्य 'विदा मघवन् विदा गातुम्' इत्यत्र प्रकृतत्वादित्यर्थः । अयमेवेतिशब्द इति । एवेत्ययं शब्द इत्यर्थः । असङ्गतिपरिहारायाह- य इति ।। आभ्यां ड इति ।। तथा च लृ इत्यस्य अम् इत्यस्य च टिभूतस्य लोपे प्रत्ययाकारे च मिलिते सति शक्रूर् अ शक्रेति रूपम् । ननु शक्र एवेति योजनायां शक्रशब्दस्य शक्तिरूपार्थकत्वेन जगत्कर्तृत्वादिशक्तेः प्रबोधयेति प्रकृतबोधनप्रार्थनोपयुक्तत्वाभाव इत्यत आह-अस्मिन्पक्ष इति ।। योज्यं संयोज्यम् । अध्याहार्यमित्यर्थः । एवं चायमिन्द्रः शक्र इत्युद्देश्यविधेयभावो द्रष्टव्यः ।। २ ।।

कर्मप्रकाशः

(स.टि) आभिष्ट्वमभिष्टिभिः 'प्रचेतन प्रचेतय । इन्द्र घुम्नाय नो इएवाहि शक्र'इति ऋचं प्रतीकतयोपादत्ते-आभिरिति ॥ शकन्ध्वादित्वादिति ॥ अभिष्टिभिरित्यत्र सवर्णदीर्धं बाधित्वा शकन्ध्वादित्वात्पररूपेऽभिष्टिभिरिति सिद्धिरिति भावः । एकवाक्यतयेति ।। हे इन्द्र प्रचेतन द्युम्नाय इषे च आभिरभिष्टिभिः त्वं न प्रचेतयेत्येकवाक्यतयेत्यर्थः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.)आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय । इन्द्र द्युम्नाय न इष एवाहि शक्रः' इत्युत्तरां ऋचं प्रतीकतो गृह्णाति - आभिरिति ।। आभिः त्वमिति पदच्छेदः । इदंशब्दस्य स्त्रीलिङ्गस्य तृतीया बहुवचने भिसित्यदाद्यत्वे पररूपे च 'टापि हलि लोप' इति इदंशब्दस्य लोपे आभिरिति रूपम् । अत्र संहितायां 'कस्कादिषु च' इति सूत्रेण भिसो विसर्गस्य त्वे तस्मात्परस्य युषमच्छब्दादस्य प्रथमाविभक्तयैकवचनान्तस्य त्वमितिशन्दस्य 'ष्टुना 'ष्टु:' इति ष्टुत्वं ज्ञेयम् । इदमेव आभिरिति पदं मूलप्रतीकं च बोध्यम् । एवमेव उत्तरत्र ऋचि गूले च यत्र प्रथमपदं समानं तत्र एकमेव प्रतीकमिति बोध्यम् ।

ननु श्रुतौ अभिपूर्वादिषु गतावित्यस्मात् इषु इच्छायामित्यस्माद्वा ' मन्त्रे वृषेष पचमन' इत्यादिना किन्प्रत्यये तितुत्रेत्यादिना इडागमनिषेधे त्वे निष्णने ष्टिशब्दे परे अभिदान्दस्य 'अकस्सवर्णे दीर्घ' इति दीर्घेकादेशे अभीष्टिभिरिति भाव्यम् । कथमभिष्टिभिरिति ह्रस्व इत्यत आह-शकन्ध्यादित्वादीति । 'शकन्ध्वादिषु पररूपं वाच्यम्' इति वार्तिकेन दीर्घापवादे उभयोरिकारयोः पररूपाख्ये एकस्मिन्नेव ह्रस्वे इकारादेशे कृते इति शेषः । अयं भावः । शकन्ध्वादेराकृतिगणत्वात् अभिष्टिभिरितिशब्दस्य वैदिकत्वेन साधुत्वात् तद्गणे निवेशो ज्ञेय इति । मूले आभिरित्यस्य व्याख्यानं एवंभूतैरिति । अभिष्टिभिरित्यस्य पर्येषणैरिति । त्वदिति तु त्वमिति प्रत्यासत्तिप्राप्तसम्बन्धीपर्येषणं परितो गमनमिच्छा वेत्यभिप्रेत्य तात्पर्यार्थ उक्तः त्वत्प्रार्थनैरिति ज्ञेयम् । मूले क्वचिन्मदादिकमिति कस्येदं व्याख्यानमित्यत आह-प्रबोधयेत्यस्य कर्मानुक्तेरिति । प्रचेतयेत्येतदर्थभूतस्येति शेषः ।

ननु आभिरित्यनेन स्वकृतप्रार्थनानामेव परामर्शात् । तैश्चान्यबोधनायोगात् मामित्येव वक्तव्यं आदिपदमयुक्तम् । किञ्च स्वकृतप्रार्थनमपि 'विदा मघवन् ' इति एकमेव । तथा चानया अभिष्टयेति वक्तव्ये आभिरिति बहुवचमसङ्गतमेवेत्यतस्तत्तात्पर्यमाह-इदानीं तावन्मामिति । इदानीं मया प्रार्थनस्य क्रियमाणत्वात् मां प्रबोधय पश्चात् अन्योऽपि प्रार्थयेत तमपि प्रबोधयेत्यर्थः । अत एव आभिरिति अन्यप्रार्थनसंग्रहाय एवंभूतैरित्यर्थः कृतः । मूले प्रकृष्टचेतनेत्यस्य व्याख्येयपदानुक्तेस्तदाह-प्रचेतयेत्यस्येति ॥ तर्हि सर्वज्ञ परमात्मन्निति कस्यार्थ इत्यत आह-तस्य तात्पर्यद्वयमिति । प्रकृष्टचेतन- शब्दस्येत्यर्थः । प्रकृष्टा सर्वविषया चेतना यस्येति वा प्रकृष्टश्चासौ चेतनश्चेति या इति विग्रहात् । परमात्मनित्यत्रापि परम: सर्वोत्कृष्टवासी आत्मा चेतनश्चेत्यर्थप्रतीतेरिति भाव: । तस्य तात्पर्यत्वमुपपादयति-चेतनाशब्द इति ॥ प्रतिपद्ज्ञप्ति चेतना' इत्यमरोक्तेः । 'चिति संज्ञाने' इत्यतो ण्यन्तात् ण्यासश्रंथो युजिति चिभावे युज्विधानाचेति भावः । चेतनशब्दस्त्विति । 'नन्दिग्रहिपचादिभ्यः' इति सूत्रेण चितीधातोः नन्द्यादित्वात् कर्तरि ल्युप्रत्ययविधानात् तस्य 'युवोरनाकौ' इत्यनादेशे उपधागुणे निष्पन्नचेतनशब्दस्य ज्ञातृवाचकस्य लोकप्रसिद्धया आत्मवाचकत्वादिति भावः ।

ननु इन्द्रशब्दस्य पूर्वमव्याख्यातत्वात् तद्विहाय द्युम्नशब्दस्य कथं व्याख्यानमित्यत आह-इन्द्रशब्दस्त्विति || ' प्रप्रवस्त्रिष्टुभं' इत्यस्य ऋचो व्याख्यानसमये इन्द्रः परमेश्वर इति व्याख्यास्यत इत्यर्थः । द्युम्नशब्दस्य 'द्युम्नमिन्द्रियं वसु' इति धननामसु पाठात् धनार्थत्वात् धनस्य च दैवमानुषभेदेन द्वैविध्यात् ज्ञानार्थत्वं हिरण्याद्यर्थत्वं चाभिप्रेत्य मूले द्युम्नायेत्येतद्व्याख्यातम् । द्युम्नं द्योततेर्यशो वा अन्नं वेति यास्कोक्तनिरुक्ते द्योततेरितिद्युत दीप्तौ' इति धातुग्रहणात् ज्ञानार्थत्वलाभात् यशोर्थकत्वोक्तेश्चेति ज्ञातव्यम् । इष इति अन्नस्य पृथगुक्तेः द्युम्नशब्देन तन्न गृहीतम् । ऋच प्रबोधयेत्यस्याभावात् किमर्थं मूले 'प्रबोधय' इत्युक्तमित्यत आह-द्युम्राय इपे च नः इत्यस्येति ।। समुच्चयार्थकचशब्दस्य ऋच्यध्याहारः । न इत्यस्य षष्ठीबहुवचनान्तास्मच्छब्दरूपत्वं च ज्ञेयम् ।

नन्वेकवाक्यतयेति || हे प्रचेतन हे इन्द्र त्वं आभिरभिष्ठिभिः नोऽस्माकं द्युम्नाय इषे च नो अस्मान् प्रचेतयेत्येकान्वयेन वाक्यभेददोषाभावात् अध्याहाराद्यभावाच्च सर्वं सुस्थमित्यर्थः । वाक्यभेदे हि पूर्ववाक्ये मदादिकं कंचिदिति अध्याहारः प्रबोधनस्य फलानुक्तिश्च । द्वितीयवाक्ये प्रबोधयेत्यस्यावृत्तिः । तत्र साधनानुक्तिचेति संकटं चापाद्यत इति भावः । तथापीति ॥विदा मघवन्इत्यत्र यत्सामान्यवेदनमुक्तं तस्य आभिष्ट्वमिति पूर्ववाक्येन सामान्यतोऽपेक्षिताशेप्रबोधनं प्रार्थयित्वा इन्द्रद्युम्नायेत्युत्तरवाक्ये वा कालिकस्तुत्याद्युपयुक्तज्ञानधनान्नादिकं प्रार्थयते इत्यर्थ इति भावः । मूले इषे अन्नायेत्युक्तं तत्र इलां इषं उर्क् इति निघण्टुः प्रमाणम् ।

ननु द्युम्नायेत्यस्यार्थत्रयमध्ये ज्ञानाय प्रबोधयेत्येतयोरेकार्थत्वात् कथं कार्यकारणभाव इत्यत आह-ज्ञानायेति । तत्र द्युम्नायेत्यनेन श्रवणमननज्ञानं गृह्यते, प्रचेतयेत्यनेन लक्षणया तत्सामर्थ्यात्र्यं कारणं गृह्यते । तथा च न पौनरुक्त्यमिति भावः । कस्मादिति । अन्येषु देवेषु सत्सु इन्द्र एव ज्ञनाद्यर्थं कस्माद्धेतोः प्रार्थ्यत इत्याशङ्कापरिहारार्थं ऋच्यैवोक्तमिति शेषः । तत्र ऋचि विद्यमान एवेति शब्दः एवमित्यर्थ इति भावेन मूले उक्तं व्याख्यातमित्यर्थः । एवौपम्येऽवधारणे' इति विश्वकोशे एवशब्दस्य औपम्यार्थकत्वोक्त्या एतादृश इत्यर्थलाभादिति भावः । प्रार्थितस्य ज्ञानादेरिति शेषः । तथाच एवाहि शक्र इत्यस्यायमर्थः । हि यस्मात्कारणात् शक्रः एव एवं एतादृशः प्रार्थितज्ञानादेः साधक इति यावत् । अत: ( अयं ) प्रार्थ्यत इति ।।ऋचि संहितायां एव' इति शब्दे निपातस्य चेति दीर्घो ज्ञेयः । अवधारणार्थतामिति । एवशब्दस्येति शेषः । एवाहि शक्र इत्यत्र एवशब्दस्य अवधारणार्थत्वपक्षेऽप्ययमर्थः । इन्द्रः कथं प्रार्थित ज्ञानादिसाधक इत्याशङ्कायामपि शक्र एवेत्युत्तरमिति । पूर्वं शक्रशब्दस्य रूढार्थत्वमाश्रितं इदानीं योगार्थत्वमाश्रितमिति भावेन पृच्छति-कः शक्रशब्दस्यार्थ इति || आभ्यां ड इति ॥ ' ञमन्ताड्डुः' इति सूत्रेण भावे विबन्ते शकिधातावुपपदेरनेर्भावे बहुलके डप्रत्यये डितीति टिलोपे शक्र इति रूपम् । अथवा मत्कृतशाब्दिककण्ठमणौ उणादिप्रक्रियायां 'अदिभूभ्यां डुतच्' इति सूत्रोक्तरीत्या धातुद्वयात् योगविभागेन उप्रत्यय इति भावः । शक्तिश्च प्रकृतार्थ इति ।। अनेन ज्ञानादिदाने शक्तिमत्वात् इन्द्रः तत्साधक इत्यन्वय उक्तो भवति । रमधातूक्तरतिस्तु सृष्ट्यादिकर्तृत्वस्वभावोक्तिवत् भक्ताभीष्टसाधकत्वमप्यस्य स्वभाव इति ज्ञापयितुमिति भावेन प्रकृतार्थे इत्युक्तम् । शक्रशब्दस्य यौगिकार्धपक्षे विशेष्यः क इत्यत आह-अस्मिन्पक्ष इति ॥ योज्यं इन्द्रेति संबुध्यन्तं संबुद्धिव्यत्ययेन प्रथमान्तं कृत्वाऽपि अन्वेतव्यमित्यर्थः । यद्यपि त्वं शक्र इत्यन्वयेनापि वाक्यं पूर्यते तथापि तं शब्दवाच्यस्य इन्द्रत्वं स्पष्टीकर्तुं अयमिन्द्र इत्युक्तमिति बोध्यम् ।