तमूतये हवामहे जेतारमपराजितम्
(तमूतय इति श्रुत्यर्थविवरणम्)
मूलम्
२०- मूलम्- तमूतये हवामहे जेतारमपराजितम् । स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥ ६ ॥
ऊतये रक्षायै, अभिप्रायसिद्धये वा । स नो द्विषः शत्रूनतिपारयतु पापानि तमांसि वा । क्रतुर्ज्ञानरूपः । छन्द इच्छारूपः । छन्द्यत्वाच्छादनत्वाद्वा । ऋतमशेषशास्त्रावगतम् ॥ ६ ॥
टीका
टीका- तमूतये ॥ ऊतये ॥ अवते रक्षाद्यनेकार्थत्वाद्रक्षाया इत्यादि । पर्षदिति लेट् । छन्द्यत्वात्प्रसादनीयत्वात् । छादनोऽविद्यादिना । ऋ गतौ । गतिरवगतिश्च ॥ ६ ॥
भावदीपः
(रा.टि.) ‘तमूतये हवामहे जेतारमपराजितम् । स नः पर्षदतिद्विषः क्रतुशछन्द ऋतं बृहत्' ।। अवते रक्षाद्यनेकार्थत्वादिति ।। 'अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यसामर्थ्ययाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादनसहनभाववृद्धिषु' इत्यनेकार्थत्वादवधातोः भावे क्तिन् प्रत्यये 'ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च' इत्यूठि सवर्णदीर्घे ऊतिरिति ध्येयम् ।
पर्षदिति ॥ पृ पालनपूरणयोः' इत्यतो 'लिङर्धे लेट्' इति लेटि, तिप्रत्यपे 'लेटोsडाटौ' इत्यडागमे 'सिब्बहुलं लेटि' इति सिपि सति ऋकारस्य गुणे 'इतश्च' इतीकारलोपे षत्वे च पर्षदिति रूपमिति भावः । प्रसादनीयत्वाप्रसादनसम्पादनार्हत्वादित्यर्थः । अवगतिश्चेत्युक्त्या सोऽपि ऋधातोरर्थ इत्युक्तं भवति । अयमर्थः- जेतारं सर्वजयवन्तं स्वयमपराजितं तमिन्द्रमूतये रक्षायै अभिप्रायसिद्धये वा हवामहे आह्वयामः । क्रतुर्ज्ञानिरूपश्छन्द इच्छारूप: प्रसादनीयो वा अविद्यादिनाऽऽच्छादक इति वा । ऋतमवगतं स नो द्विष: शत्रून् अतिपर्षत् अतिपारयतु अपगमयतु इति ।। ६ ।।
विवरणम्
(श्री.टि.) अवतेरिति ॥ ऊतय इत्यस्य प्रकृतेरवतेः । अत ऊतैरिति वक्तत्र्येऽवतेरित्युक्तम् । तथाहि -अवते: क्तिन्प्रत्यये ककारलोपे 'ज्वरत्वर' इत्यादिनोपधाकारवकारयोरूठि कृते सवर्णदीर्घे च सति ऊतिरिति भवति । अत एव ऊतिरित्येतदवतिप्रकृतिकमिति द्रष्टव्यम् । ननु 'अव रक्षणे' इत्यवधातो रक्षणार्थत्वस्यैव प्रसिद्धे रक्षाया इति व्याख्यानं युक्तम् । अभिप्रायसिद्धये वेति कथं व्याख्यातमित्यत आह-रक्षाद्यनेकार्थत्वादिति ।। तथा चाभिप्रायसिद्धिरपि तदर्थ एवेति भावः । लेडिति । 'पृ पूरणे' इत्यस्य चोरादिकस्य धातोर्लेटि पारयत्विति भाव्ये वेदे पर्षदित्येवं रूपं भवतीत्यर्थः । पूरणार्थस्यापि पारयतेरतीत्युपसर्गयोगादतिक्रमार्थत्वं ज्ञेयम् । मूले द्वि इत्यस्य बाह्ये शत्रूनिति व्याख्यानम् । अध्यात्मं पापानि तमांसिवेति द्रष्टव्यम् । मूले छन्द इत्यस्यार्थद्वयं छन्द्यत्वादित्यदिना कथ्यते । तत्र छन्द्यत्वादित्यस्यार्थमाह- छन्द्यत्वादिति ॥ छादन: छन्दनकर्ता । तथा च छादनत्वादित्यस्याविद्यादिना च्छादनकर्तृत्वादित्यर्थे द्रष्टव्यः । ऋ इत्यस्य गत्यर्थत्वेऽवगतमिति व्याख्यानायोग इत्यत आह-गतिरिति । 'ये गत्यर्थास्ते ज्ञानार्थाः' इति वचनादिति भावः || ६ ||
कर्मप्रकाशः
( स. टि) 'तमूतये हवामहे जेतारमपराजितम् । सनः पर्षदति द्विपः । ऋतुशछन्द ऋतं बृहत् ||' इति ऋचं प्रतीकतयोपादत्ते-तमूतय इति ॥ पर्षदिति लेडिति ।। पृपालनपूरणयोरित्यस्माल्लेटि तस्य तिपि सिपि लेट: अडागमे धातोर्गुणे पर्षदिति रूपम् ।
गूढवाक्यार्थपञ्चिका
(छ.टि.) तमूतये हवामह इति षष्टीऋचं प्रतीकतो गृह्णाति-तमूतय इति || मूले ऊतये इत्यस्य रक्षायै अभिप्रायसिद्धये वा इति व्याख्यानं कृतम् । तन्मूलभूतधातुप्रदर्शनपूर्वकं धात्वर्थं वदन् मूलं सङ्गमयति-अवते रक्षाद्यनेकार्थत्वादिति ।। ‘ऊतियूतिजूतिसातिहति' इत्यादि सूत्रेण अवते: क्तिनि ऊठादेशनिपातनात् रक्षाद्यर्थकत्वम् । 'अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशनस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादनभाववृद्धिषु' धातुव्याख्यानादिति भावः । इत्यादीत्येतदनन्तरं ऊतय इत्यस्य व्याख्यानमिति शेषः । मूले रक्षायै इति प्रथमत उक्तत्वा अभिप्रायसिद्धये इत्यनेन धातुपाठोक्तामभावशब्दार्थकथनात् मध्यस्थगत्यादयोऽप्यर्थाः अत्र ग्राह्य इति सूचितम् । ऋचि पर्षदित्यस्य पारयत्विति मूलव्याख्यानमुपपादयति-पर्षदिति लेडिति ।। पृ पालनपूरणयोः' इति अस्माद्धातोरन्तर्णीतण्यर्थाल्लेटस्तिबादेशस्य इतश्च लोपः परस्मैपदेष्वितीकारलोपे तस्य लेटोडाटाविति अडागमे मध्ये शिब्बहुलं लेटीति शिप्प्रत्यये धातोः सार्वधातुकेति गुणे पर्षदिति रूपमिति भावः । अनेकार्थत्वाद्धातूनामित्याशयेन मूले पारयत्विति व्याख्यातम् । तस्यार्थः शत्रून् दूरं गमयत्विति अतिशब्देनान्वये अतिदूरमित्यपि ज्ञेयम् । मूले द्विष इत्यस्यैव पापानि तमांसि अज्ञानामिवेति व्याख्यानद्वयमपि बोध्यम् ।
मूले क्रतुर्ज्ञानरूप इत्युक्तम् । निघण्टौ चेतः चित्तं क्रतुरिति प्रज्ञानामसु पाठात् । मूले क्रतुश्छन्द इत्यत्रत्य छन्द शब्दस्य व्याख्यानं ‘छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः' इति विश्वकोशानुसारेण इच्छारूप इति कृतम् । अभिलाशशब्दस्य इच्छार्थकत्वात् । योगेनार्थान्तरद्वयं व्युत्पादयितुमुक्तम्-छादनत्वाद्वेति ॥ तदुपपादयति-छन्द्यत्वात्प्रसादनीयत्वादिति ॥ छन्द्य-शब्दस्य स्वेच्छाचारार्थकत्वात् भक्तेच्छानुसारित्वप्राप्तेः भक्तेच्छानुसारित्वस्य प्रसादनीयत्वात्पर्यायत्वादिति भावः । छादनोऽविद्यादिनेति ॥ अविद्यादिना अज्ञानान्धकारादिना आच्छादनः आच्छादक: इन्द्र इति शेषः । मूले ण्यन्तात् 'छद अपवारणे' इति धातोः 'नन्दिग्रहि' इति सूत्रेण ल्युप्रत्ययः । मन्त्रे तु पाचाद्यच् ।
ननु मूले ऋतमित्यस्य अशेषशास्त्रावगतमिति कथं व्याख्यानमित्यत आह-ऋ गताविति ।। तथापि ऋतमित्यस्य गमनार्थकत्वं स्यादित्यत आह-गतिरवगतिश्चेति ।। गतिशब्दः गमनार्थकः ज्ञानार्थकश्चेत्यर्थः । तथा च ऋगतावित्यत्र गतावित्यनेन गमनज्ञानयोर्गृहीतत्वात् प्रकृते च ऋधातोः ज्ञानार्थग्रहणात् । तस्मात् कर्मणि क्तप्रत्यये तस्य करणसापेक्षत्वात् योग्यतया सर्वशास्त्रेणेत्यध्याहृतमिति बोध्यम् । बृहत् पूर्ण इत्येतत् स्पष्टत्वान्नोक्तम् || छ ||