यः इज्यते विधीशानशक्रपूर्वैस्सदा मखैः रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः
श्रीसत्यात्मतीर्थयतिसंगृहीतकर्मनिर्णयोदाहृतषोळशीशस्त्रमन्त्राणां संयोजनक्रमः
यः इज्यते विधीशानशक्रपूर्वैस्सदा मखैः ।
रमाप्रणयिने तस्मै सर्वयज्ञभुजे नमः ॥
विहृतपक्षे तु ‘पादान् व्यवधाय अर्धर्चशः संशेत् । पूर्वासां पूर्वाणि पदानि । गायत्र्यः पङ्क्तिभिः । पङ्कीनां तु द्वे द्वे पादे शिष्यते ताभ्यां प्रणुयात् ।।' (आ. श्रौ.सू.६-२)
मेधातिथि ऋषिः, इन्द्रो देवता, गायत्री छन्दः ।
आ त्वा वहन्तु हरयो वृषणं सोम पीतये । इन्द्र त्वा सूरचक्षसः ।। १ ।।
इमा धाना घृतस्रुवो हरी इहोप वक्षतः । इन्द्रं सखतमे रथे ।। २ ।।
इन्द्रं प्रतर्हवामह इन्द्रं प्रयत्यध्वरे । इन्द्रं सोमस्य पीतये ।। ३ ॥ (क्र.सं.१,१६,१-३)
गोतम ऋषिः, इन्द्रो देवता, पङ्क्ति छन्दः ।
उपो षु शृणुही गिरो मघवन् मातथा इव ।
यदा नः सूनृतावतः कर आदर्थयास इद् योजा न्विन्द्र ते हरी ॥ १ ॥
सुसंदृशं त्वा वयं मघवन् वन्दिषीमहि ।
प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी ॥ २ ॥
स घा तं पृषणं रथमधि तिष्ठाति गोविदम् ।
यः पात्रं हरियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ।। ३ ।। (क्र.सं.१,८२,३-४)
तथा च एवं शंसनप्रकार:-
आ त्वा वहन्तु हरयः उपो शणुही गिरः । वृषणं सोम पीतये मघवन् मतथा इवोम् ॥ १ ॥
इन्द्र त्वा सूरचक्षसो यदा नः सूनृतावतः । कर आदर्ययास इद् योजा न्विन्द्र ते हरोम् ॥ २ ॥
इमा धाना घृतस्रुवो सुसंदृशं त्वा वयम् । हरी इहोप वक्षो मघवन् वन्दिषीमहोम् ॥ ३ ॥
इन्द्रं सुखतमे रथे प्र नूनं पूर्णमन्धुरः । स्रुतो याहि वशाँ अनु योजा न्विन्द्र ते हरोम् ॥ ४ ॥
इन्द्रं प्रातर्हवामहे स घा तं वृषणं रथम् । इन्द्रं प्रयत्यध्वरे अधितिष्ठाति गोविदोम् ॥ ५ ॥
इन्द्रं सोमस्य पीतये यः पात्रं हारियोजनम् । पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरोम् ॥ ६ ॥
उष्णिहो बृहतीभिः उष्णिहान्तूत्तमान् पादान् द्वौ द्वौ कुर्यात् । चतुरक्षरमाद्यम् । (आ.श्रौ.सू.६-३)
पर्वत ऋषिः, इन्द्रो देवता, उष्णिक् छन्दः ।
यदिन्द्र पृतनाज्ये देवास्त्वादधिरे पुरः । आदित् ते ह यता हरी ववक्षतुः ॥ १ ॥
यदा वृत्तं नदीवृतं शवसा वज्रिन्नवधीः । आदित् ते ह र्यता हरी ववक्षतुः ॥ २ ॥
यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे । आदित् ते ह यता हरी ववक्षतुः ।। ३ ।। (ऋ.सं.८.१२.२५-२७)
विश्वामित्र ऋषिः, इन्द्रो देवता, बृहती छन्दः ।
अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।
जुषाण इन्द्र हरिभिर्न आ गहि आतिष्ठ हरितं रथम् ॥ १ ॥
हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः ।
विद्वांश्चिकित्वान् हर्यश्ववर्द्धस इन्द्र विश्वा अभि श्रियः ॥ २ ॥
द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् ।
अधारयद्धरितोर्भूरि भोजनं ययोरत्नर्हरिश्चरत् ।। ३ ।।(ऋ,सं,२,४४,१-३)
तथा च एवं शंसनप्रकारः-
यदिन्द्र पृतनाज्ये अयं ते अस्तु हर्यतः । देवास्त्वादधिरे पुरः सोम आ हरिभिः सुतोम् ॥ १ ॥
आदित् ते ह जुषाण इन्द्र हरिभिर्न आगहि । र्यता हरी ववक्षतुः रातिष्ठ हरितं रथोम् ॥ २ ॥
यदा वृत्रं नदीवृतं हर्यन्नुषसमर्चयः । शवसा वज्रिन्नवधी: सूर्यं हर्यन्नरोचयोम् ।। ३ ॥
आदित् ते ह विद्वांश्चिकित्वान् हर्यश्ववर्द्धसे । र्यता हरी ववक्षतुरिन्द्र विश्वा अभि श्रियोम् ॥ ४ ॥
यदा ते विष्णुरोजसा द्याविन्द्रो हरिधायसम् । त्रीणि पदा विचक्रमे पृथिवीं हरिवर्पसोम् ॥ ५ ॥
आदित् ते ह अधारयद्धरितोर्भूरि भोजनम् । र्यता हरी ववक्षतुः ययोरन्तर्हरिश्ररोम् ।। ६ ।।
द्विपदाश्रतुर्धा कृत्वा प्रथमां त्रिष्टुभा (आ.श्री.सू. ६-३ )
वसिष्ठ ऋषिः, विश्वेदेवा देवताः, द्विपदाविराट् छन्दः ।
आ धूर्ध्वस्मै दधाताश्वान् इन्द्रो न वज्री हिरण्यबाहुः ॥ १ ॥ (क्र,सं, ७-३४-४)
वसिष्ठ ऋषिः, इन्द्रो देवता, त्रिष्टुप् छन्दः ।
ब्रह्मन् वीर ब्रह्मकृतिं जुषाण: अर्वाचीनो हरिभिर्याहि तूयम् ।
अस्मिन्नू षु सवने मादयस्व उप ब्रह्माणि शृणव इमा नः ॥ १ ।।(ऋ,सं,७-२९-२)
तथा च एवं शंसनप्रकार:-
आ धूर्ष्वस्मै ब्रह्मन् वीर ब्रह्मकृतिं जुषाणः । दधाताश्वा नर्वाचीनो हरिभिर्याहि तूयोम् ॥ १ ॥
इन्द्रो न वज्री अस्मिन्नू षु सवने मादयस्व । हिरण्यबाहुरुप ब्रह्माणि शृणव इमा नोम् ॥ २ ॥
उत्तरा जगतीभिः । उत्तमायाः चतुर्थमक्षरं अन्त्यं पूर्वस्य आद्यं उत्तरस्य । (आ.श्रौ.सू. ६-३)
त्रसदस्यु ऋषिः, इन्द्रो देवता, द्विपदाविराट् छन्दः ।
एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ १ ॥ (साम. सं. ४३८.१७६८)
कवष ऋषिः, विश्वेदेवा देवताः, द्विपदाविराट् छन्दः ।
बिस्रु(श्रु)तयो यथा पथा(पथो) इन्द्रत्वद्य न्तु(न्ति)रातयः ॥ २ ॥ (साम. सं. ४५३)
त्वामिच्छव सस्पते यन्ति गिरो न संयतः || ३ || (साम. सं. १७६९)
बरु सर्वहरिर्वा ऋषिः, इन्द्रो देवता, जगती छन्दः ।
प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।
घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्षसं गिरः ॥ १ ॥
हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः ।
आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ।। २ ।।
सो अस्य वज्रो हरतो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।
द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥ ३ ॥
तथा च एवं शंसनप्रकारः-
एष ब्रह्मा प्र ते महे विदथे शंसिषं हरी । य ऋत्वियः प्र ते वन्वे वनुषो हर्यतं मदोम् ॥ १ ॥
इन्द्रो नाम घृतं न यो हरिभिश्चारु सेचते । श्रुतो गृहे आ त्वा विशन्तु हरिवर्पसं गिरोम् ॥ २ ॥
विस्रुतयो(विश्रुतयो) हरिं हि योनिमभि ये समस्वरन् । यथा पथा (पथो) हिन्वतो हरी दिव्यं यथा सदोम् ॥ ३ ॥
इन्द्र त्वद्य आ यं पृणन्ति हरिभिर्न धेनवः । (न्ति) न्तु रातय इन्द्राय शूषं हरिवन्तमर्चतोम् ॥ ४ ॥
त्वामिच्छव सो अस्य वज्रो हरितो य आयसः । वसस्पते हरिर्निकामो हरिरा गभस्त्योम् ॥ ५ ॥
यन्ति गिरो घुम्नी सुशिप्रो हरिमन्युसायकः । न संयत इन्द्रे नि रूपा हरिता मिमिक्षिरोम् || ६ ||
अनुष्टुभमतिच्छन्दस्सु अवदध्यात् । द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात् प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्याम् । उत्तरास्वितरान् पादान् षष्ठान् कृत्वाऽनुष्टुष्कारं शंसेत् । (आ.श्रौ.सू.,६-३)
विदा मघवन् विदा गातुमनुशंसिषो दिशः ।
शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥ १ ॥
अभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय ।
इन्द्र द्युम्नाय न इष एवा हि शक्रः || २ ||
राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृन्जसे ।
मंहिष्ठ वज्रिन्नृन्जस आ याहि पिब मत्स्व ॥ ३ ॥
विदा रायः सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु ।
मंहिष्ठ वज्रिन्नृन्जसे यः शविष्ठः शूराणाम् ॥ ४ ॥
यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय ।
इन्द्रो विदे तमु स्तुषे वशी हि शक्रः ॥ ५ ॥ १ ॥
तमूतये हवामहे जेतारमपराजितम् ।
स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥ ६ ॥ २ ॥
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् ।
स नः पर्षदति द्विषः स नः पर्षदति स्रिधः ॥ ७ ॥
पूर्वस्य यत्ते अद्रिवः सुम्न आधेहि नो वसो ।
पूर्ति: शविष्ठ शस्यत ईशे हि शक्रः ॥ ८ ॥ २ ॥
नूनं तन्नव्यं सन्यसे प्रभो जनस्य वृत्रहन् ।
समन्येषु ब्रवामहै शूरो यो गोषु गच्छति ।
सखा सुशेवो अद्वयाः ॥ ९ ॥
आयोमन्याय मन्यव उपोमन्याय मन्यवे ।
उपेहि विश्वध ।। १० ।। विदा मघवन् विदो३म् ॥ ७ ॥ ३ ॥
एवाह्येवैवाह्यग्ग्रा३३ ॥ १ ॥ एवाक्येवैवामिन्द्रं ॥ २ ॥ एवाह्येवैवाहि विष्णा३३ ।। ३ ।। एवाह्येवैवाहि पूषन् ।। ४ ।। एवाह्येवैवाहि देवाः ।। ५ । एवा हि शक्रो वशी कि शक्रो वशाँ अनु ।। ६ ।।
बरु ऋषिः, इन्द्रो देवता, तिष्टुप् छन्दः ।
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
ममद्धि सोमं मधुमन्तामिन्द सत्रा वृषंजठर आ वृषस्व ।।
तथा च एवं शंसनप्रकारः-
एवाह्येवा अपाः पूर्वेषां हरिवस्सुतानाम् । एवाहीन्द्रं अथो इदं सवनं केवलन्ते ॥ १ ॥
एवाहि शक्रो ममाद्धि सोमं मधुमन्तमिन्द्र । वशी हि शक्रः सत्रा वृषंजठर आ वृषस्व ॥ २ ॥
गृत्समद ऋषिः, इन्द्रो देवता, १. अष्टिः, २-३ अतिशकरी छन्दः ।
त्रिकद्रुकेषु महिषो यवाशिरं तुमिशुष्मस्तृपत् सोममपिबद् विष्णुना सुतं यथावशत् ।
सई ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद् देवो देवं सत्यमिन्द्रं सत्य इन्दुः ।। १ ॥
अध त्विषीमां अभ्योजसा क्रिविं युधा भवदा रोसी अपूणदस्य मज्मना प्रवावृधे ।
अधत्तान्यं चठरे प्रेमरिच्यत प्रचेतन सैनं सचद् देवो देवं सत्यमिन्द्रं सत्य इन्दुः ।। २ ।।
साकं जातः क्रतुना साकवोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मुधो विचर्षणिः ।
दाता राधः स्तुवते काम्यं वसु प्रचेतय सैनं सचद् देवो देवं सत्यमिन्द्रं सत्य इन्दुः || ३ || (क्र,सं,२.२२.१-३)
सुदाः प्रैजवन ऋषिः, इन्द्रो देवता, शकरी छन्दः ।
प्रौष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
अभीके चिदु लोककृत् सङ्गे समत्सुवृत्रहाऽस्माकं बोधि चोदिता ।
नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १ ॥
त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम् ।
अशत्रुरिन्द्र जज्ञिषे विश्वं पृष्यसि वार्यं तं त्वापरिष्वजामहे ।
नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ २ ॥
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
अस्ताऽसि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु ।
नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ ३ ॥
तथा च एवं शंसनप्रकारः-
प्रौष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत् सङ्गे समत्सुवृत्रहा ।। १ ।
अस्माकं बोधि चोदिता आयाहि पिब मत्स्व । नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ २ ॥
त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिम् । अशत्रुरिन्द्र जज्ञिषे विश्वं पृष्यसि वार्यम् ॥ ३ ॥
तं त्वापरि ष्वजामहे क्रतुछन्द ऋतं बृहत् । नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ ४ ॥
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः । अस्ताऽसि शत्रवे वधं यो न इन्द्र जिघांसति ॥ ५ ॥
या ते रातिर्ददिर्वसु सुम्न आ धेहि नो वसो । नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ ६ ॥
श्रीसत्यात्मतीर्थयतिसंगृहीतकर्मनिर्णयोदाहृतषोळशीशस्त्रमन्त्राणां संयोजनक्रमः समाप्तः
। श्रीकृष्णार्पणमस्तु ।