ता अस्य सूददोहसस्सोमं श्रीणन्ति पृश्नयः
(ता अस्येत्यृचोऽर्थोपवर्णनम् )
मूलम्
३२- मूलम्-ऋक्-ता अस्य सूददोहसस्सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिप्वारोचने दिवः ॥ ३ ॥
ताः पृश्नय आपो गावो वाचो वा अस्य सूददोहसः प्राणस्य वायुस्थस्य परमेश्वरस्य सोमं श्रीणन्ति । अद्भिर्हि संसृष्टो भवति सोमः पयआदिना च शृतो भवति मन्त्रैर्वा गृह्यते । 'अथ सूददोहा: प्राणो वै सूददोहाः' इतिश्रुतेश्च । शोभनमुदं कर्म ज्ञानं वा दोग्धीति सूददोहाः । उदेति उच्चो भवत्यनेन पुरुष इत्युदं ज्ञानादि । मनो वाव सोमस्तद्वाचः श्रीणन्ति स्वार्थैः । प्रश्नयोग्यत्वात्पृश्नयो वाचः, प्रशंसनरूपत्वात्प्रशंसनीयत्वाद्वा । प्रशंसनीयत्वमेवापां गवां च । देवानां जन्मनि यज्ञे । तत्र हि तेषामभिव्यक्तिः । पूर्वं ज्ञाने वा विशः प्रजाश्च श्रीणन्ति | मुख्यतस्ता एव श्रीणन्तीति चशब्दवर्जनम् । दिवस्त्रिपु आरोचनेषु । आदित्यचन्द्रविद्युत्-पर्यन्तं स्थितानां देवानां जन्मनि यज्ञे । 'यज्ञो वै देवजन्म तत्र हि देवाः प्रादुर्भवन्त्यासूर्याचन्द्रमसावाविद्युतम् । ते वै लोकानधिश्रिताः' इत्यादि श्रुतेः । 'द्यौर्वा विद्युत् तत्पतिं वायुमुपगम्य तेनैव परमुपगच्छति सैषा ब्रह्मलोके विराजते' इति श्रुतेरिव विद्युत् ॥ ३ ॥
टीका
टीका- ताः । 'प्राणो वै सूददोहा:' इति श्रुतेः प्राणस्येत्युक्त्वा । वायुस्थस्येति तात्पर्यमुक्तम् । परमेश्वरस्यार्थे ताः श्रीणन्तीत्युपपादयति-अद्भिर्हीति ॥ सूददोहःशब्दार्थे श्रुतिमाह-अथेति ॥ दुहेरसुन् । उदेतीत्यनेन इणो विप्रत्ययोऽकारचा देश इत्युक्तं भवति । प्रश्नयोग्यार्थत्वात्पृच्छतेः क्निप्रत्ययः । प्रशंसनरूपत्वादित्यादिना 'शंसु स्तुती' इत्यस्मात्प्रपूर्वकान्निप्रत्ययष्टिलोपादिश्चेत्युक्तं भवति प्रशंसनीयत्वमेवान्ययोरसम्भवात्पृश्निशब्दप्रवृत्तिनिमित्तमिति शेष: । कथं यज्ञो देवजन्म? इत्यत आह-तत्र हीति । पूर्वं कृतयुगादौ । ज्ञाने वा ज्ञानयज्ञे वा । विशामपि कर्तृत्वसमुच्चयवाची चशब्दः कुतो नास्ति ? इत्यत आह-मुख्यत इति ।। ऋत्विजो हि स्वतन्त्रत्वात्कर्तारः । पृश्निषु पुनः परम्परया कर्मसूपचारात् कर्तृत्वव्यपदेशः । अतः समसमुच्चयाभावाच्चशब्दवर्जनम् । अस्माभिस्तु गौणमुख्यविवक्षया चशब्दः प्रयुक्त इति भावः । ' पञ्चम्य-पाज्ञङ्ङ्गरिभिः' इति पञ्चम्या भाव्यं रोचनेष्विति सप्तमी कथम्? इत्याशङ्कापरिहाराय व्याचष्टे -दिव इति ॥ आरोचनेष्विति वदता सम्यगर्थेऽयमाकारो न मर्यादाभिविध्योरित्युक्तं भवति । तत्प्रपञ्चयति-आदित्येति ॥ तल्लोकोपलक्षणमेतत् । उक्तार्थे श्रुतिसम्मतिमाह-यज्ञो वा इति ॥ ननु वरुणादवराया विद्युतः कथं चन्द्रादपि परत्वम्? इत्यत आह- द्यौरिति ॥३॥
भावदीपः
( रा. टि. ) ता इति ऋक्प्रतीकग्रहणम् । 'ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वारोचने दिवः' इति । नन्वस्तु श्रुतिबलात् प्राणस्येति व्याख्या । वायुस्थस्येति कस्य व्याख्या ? इत्यत आह-तात्पर्यमुक्तमिति ।। मुख्यतः शब्दानां भगवद्वाचित्वात् प्राणपदेन तत्स्थ एव ग्राह्य इति भावः । श्रीणन्तीत्यनेनान्वयोपपत्तये परमेश्वरस्यार्थ इत्युक्तम् ।
व्यवहितत्वादन्वयोक्तिपूर्वम् अद्भिरित्यादेः सङ्गतिमाह ताः श्रीणन्तीति ॥ ताः आपो गावो वाचो वा सोमं श्रीणन्ति सम्बधन्तीत्येतत् क्रमेण श्रवणभेदोक्त्योपपादयतीत्यर्थः । दुहेरिति । 'दुह प्रपूरणे' इत्यतः कर्तर्यीणादिकेऽसुन्प्रत्यये स्वाद्युत्पत्तौ दोहरशब्दरूपमित्यर्थः । सूदशब्दं मूलकृदेव व्याख्यातीति भावः । उदेत्यनेन कर्मलाभः कथं रूढेरभावादित्यत उक्तं मूले-उदेति उच्च भवतीति ।। प्रश्नयोग्यपदं प्रश्नयोग्यार्थपरमिति भावेन तच्छन्द-निष्पत्तिप्रकारं दर्शयति-प्रश्नेति । 'प्रच्छ ज्ञीप्सायाम्' इत्यस्य औणादिके निप्रत्यये कित्वात् ‘ग्रहिज्यावसि' इत्यादिना सम्प्रसारणे पृश्निरिति रूपमिति भावः । इत्यादिनेत्यस्य इत्युक्तं भवतीत्यन्वयः । आदिपदेन प्रशंसनीयत्वादित्यस्य ग्रहः । टिलोपादिश्चेत्यादिपदेन प्रोपसर्गे सम्प्रसारणग्रहः । एवकारव्यावर्त्यमाह-अन्ययोरिति । इति शेष इति ॥ अपां गवां च पृश्निशब्दार्थत्वे प्रशंसनीयत्वमेव निमित्तं न तु वाचामिव प्रश्नयोग्यार्थकत्वं प्रशंसनरूपत्वं वा, शब्दरूपत्वाभावेन तयोरसम्भवादित्यर्थः । वेत्यध्यात्मार्थस्योक्तेस्तद्व्याख्याख्यानम्-ज्ञानयज्ञे वेति ॥ कर्तृत्वे ॥ श्रीणन्तीतिक्रियाया वागादित्रयस्येव विशामृत्विग्भूतप्रजानां कर्तृत्व इत्यर्थः । चशब्द इति ।। मन्त्रे विशश्चेति चशब्द इत्यर्थः । ऋत्विजो हीत्युक्त्या विश ऋत्विज इत्युक्तं भवति । पृश्निष्विति ।। अवादिषु त्रिषु, परम्परया ऋत्विग्द्वारेत्यर्थः । प्रयुक्त इति ।। प्रजाश्चेति प्रयुक्त इत्यर्थः । पञ्चम्यपाङिति || अप आङ् परि इत्येतैर्योगे पञ्चमी भवतीति पाणिन्युक्तेरारोचनेभ्य इति भाव्यमित्यर्थः । वरुणादवराया इति ।। ' तटितोऽधिवरुणः सम्बन्धात्’ इति सूत्रे, 'तटिता ह्युद्यते वरुणलोके' इत्यादौ च तथोक्तेरिति भावः । द्यौरिति ।। भारतीदेवीत्यर्थः । तथा चायं मन्त्रार्थ:- प्रश्नयोग्यार्थकत्वप्रशंसनीयत्वप्रशंसनत्वरूपनिमित्तैः पृश्चिपदवाच्यास्ता वाचः, प्रशंसनीयत्वमात्रनिमित्तत्वेन पृश्निशब्दार्थाः श्रुता आपो गावो विश ऋत्विजश्च, मूलोक्तदिशा यथासम्भवं सोमं सोमरसं श्रीणन्ति सम्बध्नन्ति । कुत्रेत्यतः उक्तम्-दिवस्रिष्वारोचने देवानां जन्मनि त्रिदिव इत्युक्तद्युसम्बन्धिषु विरोचने अरोचनेषु सन्दीप्यमानेषु आदित्यचन्द्रविद्युलोकेषु स्थितानां देवानां जन्मन् जन्मनि प्रादुर्भावस्थाने यज्ञे । कर्म किमर्थमित्यत उक्तम्-अस्य सूददोहस इति ।। अस्य वागादिपृश्निपतिभूतस्य प्राणस्य प्राणस्थ परमेश्वरस्यार्थे तत्पानार्थमिति यावदिति । अध्यात्मन्तु ज्ञानयज्ञे पृश्नयो या वाचः सोमं मनः श्रीणन्ति स्वार्थे संयोजयन्तीति । शिष्टं प्राग्वत् ॥ ३ ॥
कर्मप्रकाशः
(स.टि.) इणो विजिति । सु उत्पूर्वादिणो विच्प्रत्यये धातोरिकारस्याकारे सूद इति शब्दनिष्पत्तिः । पृच्छतेः क्रिप्रत्यय इति । प्रच्छधातोः निप्रत्यये ग्रहिज्येत्यन्तेन संप्रसारणे “च्छ्वोः शूडनुनाशिके चेति छकारस्य शकारे जसि पृश्निरिति रूपम् । लिटोपादिति || उपसर्गस्य सम्प्रसारणमादि शब्दार्थः । मुख्यतस्ता इति भाष्ये ता इति पदेन विशां परामर्श इति भावेनाह-ऋत्विजो हीति ।
गूढवाक्यार्थपञ्चिका
( छ. टि.) मूले ताः पृश्नय इति तृतीयऋचो व्याख्यानम् । ‘ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वारोचने दिवः' । इमां तृतीयां ऋचं प्रतीकतो गृह्णाति-ता इति ॥ ऋक्स्थ ता इतिपदस्य व्यवहितत्वात् अन्वयं दर्शयन् विवक्षितमर्थमाह- मूले ‘ताः पृश्नयः आपो गावो वाचो वा' इति । नदंव इत्यत्र पूर्वऋचि अर्थत्रयस्य विवक्षितत्वातच्छब्देन सर्वस्यापि परामर्श इति भावः । मूले अस्य सूददोहस इति ऋक्स्थपदद्वयं गृहित्वा प्राणस्य वायुस्थस्येत्युक्तम् । इदं पदद्वयं किंप्रमाणकं व्याख्यानं कस्य पदस्य चेत्यत आह-प्राणो वै इति । तथा च सूददोहस इत्यस्य रूढ्या पदार्थः प्राणस्येत्युक्तं भवति । अवयवार्थस्त्वग्रे वक्ष्यते । तात्पर्यमित्यनेन तत्स्थलक्षणया सूददोहस इत्यनेन प्राणवाचकेन परमेश्वरो गृह्यत इत्युक्तं भवति । अत्र षष्ट्याः सोममित्यनेनान्वयार्थं किञ्चिदध्याहरति परमेश्वरस्यार्थे इति ।। ताः श्रीणन्तीत्युपपादकक्रमेणेति शेष: । आपो गावो वाचः सोमं श्रीणन्ति सम्बनन्ति । श्रीञः श्रीञ् पाके इत्युक्तस्यापि धातूनामनेकार्थत्वात् सन्बन्धार्थकत्वम् । मूले संसृष्टः सम्बन्धः गोपक्षे पयसाश्रिताः सम्बद्धाः वापक्षे तु मन्त्रैः श्रितः सोम इत्यन्वयो बोद्धयः । मूले प्रमाणत्वेन अथ सूददोहशब्दार्थ इति । प्राणरूपार्थ इत्यर्थः । मूले सूददोहराब्दस्य मुख्यप्राणतत्स्थपरमात्मविषयत्वमवयवव्युप्तत्या दर्शितम् । शोभनमिति तत्प्रकृतिप्रत्ययविभागेनोपपादयति-दुहेरसुभिति ॥ दुह प्रपूरणे' इत्यतः कर्तरि औणादिकः असुन् इति भावेन दोग्धीति विग्रहप्रयुक्तम् । तस्य सूदशब्देन द्वितीयान्तेन समाससूचनार्थं शोभनं उदं कर्म ज्ञानं चेति व्याख्यानं कृतम् । तत्र उदशब्दस्य कर्मज्ञानार्थत्वं व्युत्पादयितुमुक्तम्-मूले उदेत्युचो भवत्यनेन पुरुष इति ।। अनेन शोभनेन ज्ञानेन कर्मणा च उच्चो भवति मुक्तो भवतीत्यर्थः । अनेन प्रकृतिप्रत्ययविभागः कथं दर्शित इत्यत आह-उदेतीत्यनेनेति ।। ‘“उत्पूर्वात् इण गतौ' इत्यस्मात् अन्येभ्योऽपि दृश्यत इति करणे विच्प्रत्यये इकारचकारयोरित्संज्ञायां वकारस्य 'वेरपृक्तस्य' इति लोपे धातोः पृषोदरादित्वात् अकारादेशे निष्पन्नः सूदशब्दः मोक्षसाधनीभूत- ज्ञानकर्मार्थकः । तं दोग्धि भक्तानां प्रपूरयति इति सूददोहा: प्राण इति विग्रहो ज्ञेयः ।
ऋक्स्थसोमशब्दस्य प्रसिद्धसोमरसार्थकत्वं ता इति पदेन उदकगोग्रहणपक्षे स्पष्टमिति भावेन ता इत्यस्य वागर्थकत्वे सोमशब्दस्य विवक्षितमर्थं वदंस्तद्वाक्यार्थं मूले मनो वा सोम इत्यादिना उपपादितम् । अस्मिन् पक्षे वे वाचः स्वार्थैः स्वप्रतिपाद्यभगवद्गुणैः तत् सोमशब्दवाच्यं मनः श्रीणन्ति पर्व कुर्वन्ति विष्णुविषये भक्तिरसोपेतं कुर्वन्तीति ताः सोमं श्रीणन्तीति ऋकूस्थपदयोजना द्रष्टव्या । श्रीणातीत्यस्य मुख्यपाकार्थग्रहणात् । ऋक्स्थपृश्नय इत्यस्य व्याख्यानं मूले पृश्नयोग्यत्वादिति कृतं तस्य वाक्पक्षे वाचा मन:पाचकत्वोक्तेः वाचां पृश्नयोग्यत्वासंभवाद्व्याचष्टेपृश्नयोग्यार्थत्वादिति ।प्रश्नयोग्यार्थत्वादित्यर्थः । क्रिप्रत्यय इति ॥ पृच्छ ज्ञीप्सायां' इति धातोः कर्मणि औणादिके क्रिप्रत्यये 'ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्ज- तीनां ङिति च' इति संप्रसारणे 'च्छ्वोः शूडनुनासिके च' इति छकारस्य शकारादेशे पृश्निशब्दः प्रश्नयोग्यार्थक इति भावः । मूले पृनशब्दस्य व्याख्यानान्तरद्वयं कृतम् । प्रशंसनरूपत्वादिति ।। तत्र प्रकृतिप्रत्ययादि दर्शयति-शंसु स्तुताविति । अस्यार्थः । घृणि पृश्निपार्ष्णिभूर्णिचूर्ण' इत्युणादिसूत्रेण ‘प्रपूर्वात् शंसु स्तुती' इति धातो: भावे कर्मणि वा निप्रत्ययटिलोपोपसर्गसंप्रसारणानि निपात्यन्ते इति । प्रशंसनरूपेति मूलेन सूचितमिति ।। मूले पृश्निशब्दार्थत्रयस्य अब्गोवाक्त्रयसम्बन्धित्वभ्रान्तिवारणायोक्तं-प्रशंसनीयत्वमेवापां गवां चेति ॥ एतदनूद्य एवशब्दव्यावर्त्यमाहप्रशंसनीयत्वमेवेति । अन्यथा प्रश्नयोग्यत्वप्रशंसनरूपत्वयोः अपां गवां च मुख्यप्रश्नयोग्यत्वाभावात् जडत्वेन स्तुतिरूपप्रशंसनात्वाभावाच्चेति भावः ।
ननु अबादिषु धर्मान्तराणां विद्यमानत्वात् कथं प्रशंसनीयत्वमेवेत्युक्तमित्याह-पृश्निशब्दप्रवृत्तिनिमित्तमिति शेप इति || अप्सु गोषु पृश्निशब्द-प्रवृत्तिनिमित्तमिदमेकमेव । न तु प्रश्नयोग्यत्वप्रशंसनरूपत्वे प्रवृत्तिनिमित्त इत्यवधारणेन पृश्निशब्दप्रवृत्तिनिमित्तमात्र निषेधादिति भावः । मूले ‘जन्मन्देवानां’ इति ऋगुत्तरार्धस्थपादयोः अन्वयपूर्वकं व्याख्यानं कृतम् । देवानां जन्मनि यज्ञे इति जन्मशब्दसप्तम्याः 'सुपां सुलुक्' इति सूत्रेण लुकि नङसम्बुद्ध्योरिति नलोपाभाव इति भावेन जन्मनीति प्रतिपदमुक्त्वा मूले यज्ञे इति व्याख्यायोपपादितम् -तत्र हीति । तत्संगमयति-कथं तत्रेति । देवोत्पत्तेः आदिसृष्टावेव जातत्वात् यज्ञेऽसंभवादिति भावः । कृतयुगादाविति । कृतत्रेतद्वापरेषु यज्ञभागग्रहणार्थं ब्रह्मादयः यज्ञस्थले अभिव्यक्ताः भवन्ति । जन्मनूशब्दस्यापि 'जनि प्रादुर्भावे' इति अभिव्यक्तयर्थकत्वादिति भावः ।
ननु देवजन्मशब्देन यज्ञग्रहणं संभावितम् । देव्यभिव्यक्तिस्थानत्वात् । ज्ञाने इति ज्ञानं कथं गृहीतं मूले इत्यत आह- ज्ञाने वा ज्ञानयज्ञे वेति ॥ ज्ञानस्याप्यध्यात्मिकयज्ञत्वेन परमेश्वरध्याने परिवारत्वे देवानां प्रादुर्भावादि भावः । मूले विश इत्यस्य प्रजानामसु पाठात्, ऋत्विग्रूपप्रजानां अब्गोवाग्वत् श्रीणन्तीति क्रियां प्रति कर्तृत्वमभिप्रेत्य विशः प्रजाश्च श्रीणन्तीत्युक्तत्वा मुख्यतस्ता एवेत्याद्युक्तेः संगत्यदर्शनादाह-विशामपि कर्तृत्वे इति ॥ समुच्चयवाची ऋचि अबादीनां कर्तृत्वेन विशामपि कर्तृत्वस्येति शेषः । मुख्यतस्ता इत्यत्र तच्छब्देन समीपस्थप्रजारूपविशां ग्रहणेऽपि सर्वप्रजानां यज्ञसम्बन्धाभावात्कथं मुख्यतः कर्तृत्वं इत्यतः पूर्वोक्तप्रजाशब्दाध्याहार्यार्थ-विशेषं वदन् मुख्यतः कर्तृत्वमुपपादयतिऋत्विजो हीति ।। अनेन विश इतिपदेन ऋत्विजो गृह्यन्ते । तेषामेव यज्ञव्यापारे स्वातन्त्र्यात्स्वतन्त्रः कर्त्तेत्युक्तेः मुख्यकर्तृत्वम् । अबादिपृश्निषु तु कर्मीभूतसोमरसे मिश्रीभावं प्रति कर्मत्वाद्वेदवाचां तु करणत्वान्मुख्यतः कर्तृत्वाभावादुभयोः साम्याभावात्समुच्चयायोगादृचि चशब्दवर्जनम् । एकक्रियां प्रति उभयोः साम्येनान्वये समुच्चयोक्तेरिति मूलाभिप्राय इति भावः । मूले ता एव श्रीणन्तीत्यतः परमिति शब्दोऽध्याहार्यः । श्रीणन्तीत्येतं प्रति सोमस्य साक्षात्कर्मत्वात् अवादीनां सोमद्वारेति भावे परंपरयेत्युक्तं स्वनिष्ठमिश्रीभवनव्यापारं प्रति ऋत्विगधीनकर्तृत्वविवक्षया उपचारादिति च ।
ननु तर्हि भवद्भिः विशः प्रजाश्च प्रति चशब्द: कथमुक्त इत्यत आह-अस्माभिस्त्विति ॥ गौणमुख्यविवक्षया मुख्यत्वामुख्यत्वविवक्षां विना सामान्यतः कर्तृत्वविवक्षयेति यावत् ।
ननु मूले 'विशस्त्रिष्वारोचने दिवः' इति अनुवादे दिव इत्यस्य वैय्यर्ध्यमित्यतः तन्निवर्तनीयां शङ्कामाह- पञ्चम्यपापरिभिरिति । अनेन सूत्रेण आपाङ्परिभिर्योगे पञ्चमीविधानाद्रोचनशब्दस्य आङ्सम्बन्धात् पञ्चमी स्यादिति भावः । अनेन कथमेतच्छङ्कापरिहार इत्यत आह-आरोचनेष्विति वदतेति । ऋचि दीप्ती' तस्माल्युटि निष्पत्रो रोचनशब्दः आसहितः अत्यन्तप्रकाशनार्थः । तत्र कस्येत्याकाङ्गानिवर्तकत्वेन दिवः स्वर्गस्येति अनुवादस्य सार्थक्यमिति भावः । न मर्यादाभिविध्योरितीति ॥ तथा च 'आमर्यादावचने' इति सूत्रेण मर्यादाभिविध्यर्थस्यैवाङः कर्मप्रवचनीयसंज्ञायां तद्योगे एव पञ्चम्यपाङिति पञ्चमीविधानादत्र तदभावान पञ्चमीति भावः । ऋचि रोचने इत्येकवचनं त्रिष्वित्यनेन सामानाधिकरण्यात् बहुत्वार्थकमिति भावेन मूले बहुवचनं ज्ञेयम् । अस्य सप्तम्यन्तस्य देवानामित्यनेनान्वयं घटयितुं स्थितानामित्युक्तं तद्घटयितुमाह- तल्लोकोपलक्षणमेतदिति । एतदादित्यचन्द्रविद्युद्ग्रहणम् । तेषां आदित्यादीनां लोकोपलक्षणमित्यर्थः । तथा च आदित्यलोकस्थदेवप्रादुर्भावकारणे यज्ञे इति उत्तरार्धस्थपदानां योजना द्रष्टव्या । मूले उदाहृतप्रथमश्रुतियोजनात् आङ्मर्यादायाम् । सूर्यचन्द्रविद्युल्लोकपर्यन्तं स्थितदेवानां यज्ञे प्रादुर्भावाद्यज्ञस्य देवजन्मत्वम् । तदुपपादनं-ते वै लोकानिति । ते देवाः लोकान् सूर्यादिनां लोकेषु ‘द्वितीया श्रितातीत' इति सूत्रेण अत्र श्रितशब्दयोगात् द्वितीया । अधिश्रिताः स्थिता इति । वरुणादवराया इति ।। ' तटितं वरुणं चैव प्रजापं सूर्यमेव च । सोमं वैश्वानरं चेन्द्रं' इत्यादिस्मृतौ विद्युत्पर्यायतटिच्छब्दवाच्यायाः वरुणादवरत्वोक्तेः चन्द्रस्य च सोमशब्दोक्तस्य वरुणस्य अप्पतिपरत्वोक्तेः कथं चन्द्रादपि परत्वमिति भावः । इत्यत आहेति ॥ पूर्वश्रुतौ आविद्युतमित्यत्र विद्युच्छब्दे-नोत्तरश्रुत्यनुसारेण भारतीग्रहणात्तदभिमानिदेवताया उक्तिर्युक्ता । उत्तरश्रुतौ तु पूर्वं ध्रुवलोकप्राप्त्यनन्तरं विद्युल्लोकप्राप्तिरुक्ता । अत्र विद्युच्छब्दोक्तदेवतां वदंस्तदुत्तरत्र प्राप्यदेवताः कथ्यन्ते -'द्यौर्वाव विद्युत्' इत्यादिना || योजना तु ज्ञानी इति शेषः । या विद्युच्छब्दवाच्या सा द्यौर्वाव तस्याः दिवः पतिं मुख्यवायुं उपगम्य प्राप्य तेनैव मुख्यवायुनैव परं परमात्मानं उपगच्छति प्राप्नोति । स एनान् ब्रह्म गमयति' इति श्रुतेः मुख्यप्राणेनैव ज्ञानिनां ब्रह्मप्रास्युक्तेः सैषा द्यौः ब्रह्मलोके सत्यलोके राजते शोभत इति अस्यां श्रुती वायोः विद्युत्पतित्वोक्तेः तस्याः ब्रह्मलोके प्रकाशितत्वोक्तेश्च वायोः परब्रह्मप्रापकत्वोक्तेश्च मुख्यवायुपन्याः शब्दवाच्यायाः विद्युतो भारत्याः आविद्युतमित्यग्रहणात् । वायुनावरतटितः ग्रहणात् अस्यास्तु चन्द्रात्परत्वोक्ति-सम्भव इति भावः । ऋगर्थस्तु वाक्यपक्षे पृश्नयः प्रश्नयोग्यार्थकाः प्रशंसनरूपाः प्रशंसनीयाः वा ताः वाचः प्रशंसनीयाः । आपो गावो वा विशः ऋत्विजश्चास्य वागादिपतिभूतप्राणपतिरूपस्य सूददोहसः प्राणस्थस्य परमेश्वरस्यार्थं तत्प्रीत्यर्थमिति यावत् । दिवः स्वर्गस्य आरोचनेषु सम्यक् प्रकाशकेषु त्रिषु सूर्यचन्द्रविद्युत्सुतललोकेष्विति यावत् । तत्पर्यन्तं स्थितानामिति शेष: । देवानां जन्मन् जन्मनि कर्मयज्ञे सोमं श्रीणन्ति सम्बध्नन्ति । वाक्पक्षे सोमस्य होमादौ मन्त्राणां करणत्वेन सम्बन्धः । अप्पक्षे मिश्रणं प्रसिद्धम् । गोपक्षे पयसा मिश्रणं इति । एवं ऋच: अधिदैविकपक्षे व्याख्यानं ज्ञेयम् । आध्यात्मिकशरीरस्थपरमेश्वरपक्षे व्याख्यानं तु पृश्नयः अर्थत्रयोपेताः ताः बाच: वागिन्द्रियाणि वागभिमानिसरस्वत्यादयश्च विश: गुरुशिष्यसखिस- ब्रह्मचारिरूपाः प्रजाश्च । अस्य सूददोहस: मुख्यप्राणस्थस्य विष्णोरर्थे त्रिष्वारोचनेषु तत्पर्यन्तं स्थितानां आदित्यादिलोकस्थानां देवानां जन्मनि प्रादुर्भावस्थले ज्ञानयज्ञे सोमं मनः श्रीणन्ति पचन्ति । अधिकारिज्ञानयज्ञे सर्वदेवतासन्निधानात् सरस्वत्यादिसहितवागिन्द्रियैः मुख्यप्राणस्थपरमेश्वरप्रीत्यर्थं मनसः भक्त्यादिरूपपाकः क्रियते इति भावः ॥ छ ॥