इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम्
(इन्द्रं धनस्येति ऋगर्थविवरणम्)
मूलम्
२१- मूलम्-इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । सनः पर्षदति द्विषः स नः पर्षदति स्रिधः ॥ ७ ॥ सातये लब्धये । स्रिधो विनाशान् ॥ ७ ॥
टीका
टीका- इन्द्रं धनस्य सातये । पण लाभे सृधु हिंसायाम् ॥ ७ ॥
भावदीपः
(रा.टि.) 'इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । स नः पर्षदति द्विषः स नः पर्षदति स्रिधः ' । लब्धस्य इति व्यख्यानोपपत्तये धातुं पठति-पण लाभ इति ।। एतस्मात् क्तिन्प्रत्यये ‘जनसनखनां सञ्झलोः’ इत्यात्वे सातिरिति रूपमिति भावः । सिधो विनाशानित्यत्र धातुं पठति-सृधु हिंसायामिति ।। अयमर्थः-जेतारमपराजितम् । इन्द्रं धनस्य दैवमानुषवित्तस्य सात लब्धये हवामहे । आहूतस्य | नोऽस्माकं द्विषः शत्रून् अतिपर्षत् अतिपारयतु, सनः स्रिधो विनाशान् अतिपर्षत् इति ॥ ७ ॥
विवरणम्
(श्री.टि.) सातय इत्यस्य लब्धय इति व्याख्यानायोग इत्यत आह-पण लाभ इति || स्रिधों विनाशानिति व्याख्यानमुपपादयति-सृधु हिंसायामिति ॥ तथा च विनाशानित्यस्य वैरिकृता हिंसा मृत्यूनित्यर्थो द्रष्टव्यः ॥ ७ ॥
कर्मप्रकाशः
(स.टि.) ‘इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् सनः पर्षदति द्विषः पर्षदिति स्रिधः ।।' इति ऋचं प्रतीकतयोपादत्ते-इन्द्रं धनस्येति ॥ षणु लाभ इत्यस्मात् किनि जन सनरवनां जन् झलोरिति वकारस्यात्वे सातय इति रूपम् । स्रिध हिंसायामित्यस्मात् क्विपि शसि स्रिध इति रूपम् ।
गूढवाक्यार्थपञ्चिका
( छ.टि.) 'इन्द्रं धनस्य सातय' इति सप्तमीऋचं प्रतिगृह्णाति-इन्द्रं धनस्येति ।। सातये इत्यस्य यत् लब्धये इति मूले व्याख्यानं तदुपपादयति-षणु लाभ इति ।। महाव्याकरणपाठानुसारेणेदमुक्तम् । पाणिनीयव्याकरणे तु ‘षण् दाने' इति पठ्यते । अथवा वनषणसंभक्ताविति पठितस्य अर्थतो अनुवादोऽयम् । संभजनस्य लाभपर्यायात् । अस्माद्धातोर्भावे क्तिनि ‘जनसनखनां सन् झलोः' इति नकारस्यात्वे चतुर्थ्येकवचने सातये इति रूपमिति भावः । सृधु हिंसायामिति ॥ अस्माद्धातो: भावे क्विपि द्वितीयाबहुवचने स्रिध इति रूपम् ॥ छ ॥