भगवद्भक्तिज्ञानवैराग्यपूर्वकं च कर्म कर्तव्यम्

(भगवज्ज्ञानादिसहितस्यैव कर्मणो मोक्षसाधनत्वसमर्थनम्)

मूलम्

५५- मूलम्-भगवद्भक्तिज्ञानवैराग्यपूर्वकं च कर्म कर्तव्यम् । 'इष्टापूर्तम् मन्यमाना रिष्टं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनकरं वा विशन्ति', 'नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम् । कुतः पुनश्शश्वदभद्रमीश्वरे विनार्पितं कर्म यदप्यकारणम्’, ‘यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ', ' त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्’, ‘मयि सर्वाणि कर्माणि सन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः', 'ये मे मतमिदं नित्यमनुतिष्टन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढास्तान्विद्धि नष्टानचेतसः’, ‘तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ', ' एप उ एव दाश्वान्य एवं वेद', 'यदेव विद्यया करोति श्रद्धयोपनिदा तदेव वीर्यवत्तरं भवति', 'परं भावमजानन्तो मम भूतमहेश्वरम् । मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः', 'सर्वगुह्यतमं भूयश्शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् । मन्मना भव मद्भक्त मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रयोsसिमे', 'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् । तिष्टमानस्य तद्विदः 'इत्यादिश्रुतिस्मृतिभ्यः

टीका

टीका- अत्र 'य एवं वेद' इति यज्ज्ञानमुक्तं तद्भगवद्विषयमेव । ज्ञानग्रहणं च भक्त्याद्युपलक्षणम् । तेनापि विना कर्मणः साफल्याभावादित्याशयवानाह-भगवदिति । वैराग्यं विषयेषु । एतच्च तदर्पणादेरुपलक्षणम् । कुत एतदित्यत आह- इष्टेति ॥ श्रेयो ब्रह्म मोक्षं च । वेदयन्ते जानन्ति । नाकस्य पृष्टे स्वर्गस्थले । सुकृते सुकृतलभ्ये । अनुभूत्वा तत्फलमनुभूय ।क्त्वापि छन्दसि' इति वचनात् । इयं च व्यवस्था श्रीमद्भगवद्गीतातात्पर्यनिर्णयादवसेया । नैष्कर्म्यं मोक्षसाधनम् । भावो भक्तिः । ज्ञानं परोक्षम् । वैराग्योपेतत्वान्निरञ्जनम् । विक्षेपहेतुत्वाच्छश्वदभद्रम् । अकारणं फलकामनारूपकारणरहितमपि । सुमङ्गलास्तप आद्यतिरिक्तशुभवन्तः । क्षेमं पुरुषार्थम् । यदर्पणं यस्मिन् तपआदी- नामर्पणम् । एष एव दाश्वान् यजमानः । फलवत्वात् । इतरस्तु तदभावाद्यजमानाभासः । उप निषीदतीति उपनिषद् योग्यता । भावं याथात्म्यम् । भूतमनादिम् । महान्तं गुणपूर्णम् । ईश्वरं च विश्वस्य । तद्विदो ब्रह्मविदः । तिष्ठमानस्य निष्ठावतः । दातुः यजमानस्य । रातिः मित्रं परायणं च । न पुनरतद्विद इति श्रुतिस्मृतिभ्योऽयमर्थोऽवसीयते ॥

भावदीपः

(रा. टि. ) तदर्पणादेरिति ॥ कर्मणि स्वातन्त्र्याभिमानत्यागः, श्रद्धा, भगवत्स्वातन्त्र्यज्ञानादिरादिपदार्थ: । ' न मन्यन्ते फलं मोक्षं विष्णुसामीप्यरूपकम् । फलदं च न मन्यन्ते तं विष्णुं जगतः पतिम् ॥ इति द्वितीय- गीतातात्पर्योक्तस्मृत्यनुरोधादाह-श्रेयो ब्रह्ममोक्षं चेति ।। जानन्तीति ।। स्वार्थे णिजिति भावः । ननु 'समासेऽनञ्पूर्वे त्वो ल्यपू' इति सूत्रेण ल्यपिकृते अनुभूयेति भाव्यमित्यत आह-क्त्वापि छन्दसीति ॥ स्वाप्रत्ययश्च भवति, न ल्यवितिपाणिनिसूत्रादित्यर्थः । ननु स्वर्गे सुकृतफलमनुभूय पथादिमं लोकं भूलोकं विशति । हीनतरं वा लोकं विशतीत्याधर्वणवाक्ये फलद्वयं प्रतीयते । तत्फलद्वयव्यवस्था कथमित्यत आह-इयं च व्यवस्थेति ॥ 'ये न जानन्ति तं विष्णु याथार्थ्येन च संशयात् । जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः । निर्णेतॄणामभावेन केवलं ज्ञानवर्जिताः । ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम्' इति, तथा 'ये तु भागवताऽचार्यैः सम्यग्यज्ञादि कुर्वते । बहिर्मुखा भगवतोऽनिवृत्ताश्च विकर्मणः । दक्षिणातर्पितानां त आचार्याणान्तु तेजसा । यान्ति स्वर्गं ततः क्षिप्रं तमोऽन्धं प्राप्नुवन्ति च । तदन्ये नैव च स्वर्गं यान्ति विष्णुवहिर्मुखाः' || इति द्वितीयगीतातात्पर्योक्तनारदीयवचनादवसेयेत्यर्थः । तत्र स्मृतौ इमं लोकमित्यज्ञविषयम् । विमूढत्वं च तेषां संशयादिनाऽज्ञत्वमेव । हीनतरमित्युक्ततमः प्राप्तिरूपफलं च भागवताचार्योपेतविष्णुद्वेषिविषयम् । तेषां प्रमूढत्वं च विष्ण्वज्ञानित्वमिति व्यवस्थायाः प्रतीतेरिति भावः । 'न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते' इति नैष्कर्म्यशब्दस्य मोक्षेऽपि वृत्त्या तव्यावृत्त्यर्थमाह-नैष्कर्म्यं मोक्षसाधनमिति ।। यदपीत्यपिशब्दो भिन्नक्रम इत्युपेत्याह-रहितमपीति । एष उ एव दाश्वान्' इत्यत्र दाश्वानित्यनुवादेन यजमान इति व्याख्या । एवकारव्यावर्त्योक्तिः- इतरस्त्विति || भगवद्वेदनहीनः । कर्मकर्तृत्वाविशेषात्कुत एवमित्यत उक्तम्- फलवत्त्वादिति || वेदनफलवत्त्वान्मोक्षफलवत्वादित्यर्थः । भूतमहेश्वरमिति पदत्रयस्यार्थमाह- भूतमनादिमित्यादिना ॥ भूतश्चासौ महांश्चासौ ईश्वरश्चेति विग्रह इति भावः । कस्येश्वर इत्यत उक्तम्-विश्वस्येति || अयमर्थोऽवसीयत इति शेषोक्तिः । भगवद्भक्तिज्ञानवैराग्यपूर्वकं कर्म कर्तव्यमित्ययमर्थः ॥

कर्मप्रकाशः

(स.टि.) ननु समासे नञ्पूर्वोक्तो ल्यविति वचनात् अनुभूतेति भाव्यम् ।अनुभूत्वेति कथमित्यत आह- क्त्वापि छन्दसीति वचनादिति ॥ अनञ्- समासे छन्दसि यवित्यस्य क्त्वादेशे भवतीति सूत्रार्थ: । इदं च व्यवस्थेति ॥ केचन इमं लोकमाविशन्ति केचन हीनतरं वा विशन्तीति वाशब्देनोक्तव्यवस्थेत्यर्थः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) ननु महानाम्नीखण्डव्याख्यानस्य समग्रप्रमाणकथनं च व्यर्थमित्यतो मूलं प्रकृतोपयुक्तत्वेनावतारयति-अत्रेति ॥ मूले भगवद्भक्तिशब्देनमाहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तः तथा मुक्तिर्न चान्यथा ।।' इत्युक्तं भक्तिस्वरूपम् । 'न तादृशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात् इत्याद्युक्तश्रीमुख्यप्राणसहितविष्णुज्ञानं च भगवद्ज्ञानमिति स्फुटत्वादनुक्तम् । वैराग्यशब्दस्य भगवच्छब्दान्वयभ्रान्तिवारणाय विवक्षितेनान्त्रयमाह-वैराग्यं विषयेष्विति ॥ दुर्विषयेषु निषिद्धदर्शनश्रवणादिषु । तदर्पणादेरिति ॥ स्वकृतकर्मणां भगवति समर्पणं नामनाहं कर्ता हरिः कर्ता तत्पूजाकर्म चाखिलम् । तथापि मत्कृता पूजा त्वत्प्रसादेन नान्यथा ॥ तद्भक्तिस्तत्फलं मह्यं तत्प्रसादः पुनः पुनः । कर्मन्यासो हरावेवं विष्णोः प्रीतिकरस्सदा ॥ इत्युक्तम् । आदिशब्दात् श्रद्धादिकंब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्' इत्युक्तं हविख्यादिषु विष्णुसन्निधानानुसन्धानं च गृह्यते । इष्टापूर्तमिति मूले इष्टं यजनम् । यजधातोः भावे क्तप्रत्ययेव्रश्वभ्रस्जसृजमृजयज' इति जकारस्य षकारेवचिस्वपियजादीनां' इति संप्रसारणे इष्टमिति रूपम् । आपूर्त तटाकादि । नान्यच्छ्रेय इत्यत्रअधर्ममस्त्रियां पुण्यं श्रेयसि' इत्यभिधानात् श्रेयशब्दस्य पुण्यवाचकत्वेन दानादेः पुण्यस्य सत्वेन अन्यनिषेधः कथमित्यतः श्रेयशब्दार्थमाह-श्रेय इति ॥ वरिष्ठमिति अत्रापि सम्बद्ध्यते । 'श्रीधरः श्रीकरः श्रेयः' इति विष्णुसहस्रनामोक्तेः, 'मुक्तिः कैवल्यनिर्वाणं श्रेय' इत्यमरोक्तेश्चेति भावः।न मन्यन्ते फलं मोक्षं विष्णुसामीप्यरूपकम् ।

फलदं च न मन्यन्ते विष्णुं च जगतः पतिम् ॥' इति स्मृत्यनुसारादिति भावः । विदधातूनामनेकत्वात् णिचश्च प्रयोजकव्यापारार्थकस्य प्रयोजनादर्शनादाह-वेदयन्ते जानन्तीति ॥ ' सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे चेतनादौ वेदयते लाभे विंदति विंदते' इत्यनेकार्थकविदधातूनां मध्ये अदादि-गणस्थ'विद ज्ञाने' इत्यस्य व्यत्ययेन आत्मनेपदे स्वार्थे णिजिति भावः ।नाकस्य पृष्ठ इत्यस्य स्वर्गपश्चाद्भागार्थकत्वप्रतीतिवारणायार्थमाह-स्वर्गस्थल इति ।। तत्फलं सुकृतफलमिति शेषोक्तिः ।

ननु अनुपूर्वकभूधातोःसमासेऽनञ्पूर्वे क्त्वो ल्यप्' इति त्वात् ल्यबादेशे अनुभूयेति भाव्यम्, अनुभूत्वेति श्रौतः प्रयोगः कथमित्यत आह-क्त्वापीति ।। छन्दसि ल्यप्प्रत्ययस्य क्त्वाइत्यप्यादेशो भवतीति सूत्रार्थः ।

ननु ये प्रमूढाः इष्टापूर्तमेव वरिष्ठं सर्वोत्तमफलप्रदं तज्जन्यस्वर्गसुखं च सर्वोत्तमफलमिति मन्यमानाः सन्तः अन्यच्छ्रेयः एतदतिरिक्तश्रेयः परं ब्रह्म उत्तमफलप्रदं मोक्षं च उत्तमफलमिति न जानन्ति तत्र हेतुः प्रमूढा इति । अज्ञानिनः विपरीतज्ञानिनो वा इत्यर्थः । ते सुकृतलभ्ये स्वर्गे सुखं अनुभूय इमं लोकं भूलोकं हीनतरं अन्धन्तमः आविशन्ति आप्नुवन्तीत्युक्तेः अज्ञानिनां मिथ्याज्ञानिनां च स्वर्गप्राप्त्यनन्तरं उभयलोकप्राप्तिरुच्यते । तद्बाधितम् । अज्ञस्य अन्धन्तमसोऽयोगात् । तत्साधनद्वेषादेरभावात् । मिथ्याज्ञानिनां च स्वर्गप्राप्तेः । प्रमाणबाधितत्वात् ।

तथा च श्रीमद्भारततात्पर्यनिर्णये धर्मराजः स्वर्गं प्रति गमनसमये देवदूतेन उपरि उपरि लोकं प्रतिनीतः सन् तदुपरिस्थं कञ्चिदूर्ध्वलोकं प्रति नीत्वा प्रस्थाप्य तत्र देवैः इदमेव ते स्थानमित्युक्तः, तत्र स्थित्वा तत्र दुर्योधनादिकं दृष्ट्वा महाकोपेन न स्थास्यामीत्युक्ते ततो देवैः मुख्यस्वर्गं प्रति नीतः सन् तत्र भीमादीनां मिथ्याभूतं शब्दं श्रुत्वा मिथ्याभूतदुर्गन्धादिकं चावघ्राय भीमादिभिधानं विहाय इतो न गच्छामीत्युक्त्वा तत्रैव धर्मराजे स्थिते सति देवैः स्नेहेन मिथ्याभूतं भीमादिशब्दं दुर्गन्धादिकं परिहृत्य देवैः तमेव देश मुख्यस्वर्गत्वेन प्रदर्शितं धर्मराजो अपश्यदित्युक्तम् । स्वर्गोत्तमं देशमपश्यदे-तदभ्रान्तचेताः सयुधिष्ठिरस्तदेति । तेन पूर्वं दुर्योधनादिभिः स्थितं स्थानं 'सर्वेषामुत्तरं लोकं ऐन्द्रं प्राप्येदमेव च । स्थानमित्युदितो देवैः दुर्योधनमवैक्षत' इति यदुक्तं स तु सांकल्पिक: स्वर्ग: न तु मुख्यस्वर्गः । उत्तरोक्त-भीमादिस्थितस्थानस्य स्वर्गोत्तममिति स्वर्गोत्तमत्वोक्तेः । अभ्रान्तचेता इति धर्मराजस्य तदानीं भ्रान्त्यभावोक्तेश्च । तेन कथं दुर्योधनस्थानं सर्वोत्तममवाप्तवान् इति धर्मराजेन पूर्वदृष्टस्य दुर्योधनस्थानस्य सर्वोत्तमत्वोक्तिः भ्रान्तेत्युक्तं भवति । गीतातात्पर्यटीकायां च मिथ्याज्ञानिनां अश्वमेधादिभिरपि स्वर्गप्रास्यभावादित्युक्तेश्च इत्यतः वाशब्देनोक्तां व्यवस्थां प्रमाणेन दृढीकरोति-इयं च व्यवस्थेति ।।ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् । जीज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः । निर्णेतृणामभावेन केवलं ज्ञानवर्जिताः ।।' ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम् । ये तु भागवताचार्यैः सम्यक्-यज्ञादि कुर्वते ।बहिर्मुखा भागवतो निवृत्ताश्च विकर्मणः । दक्षिणातर्पितानां ते आचार्याणां तु तेजसा । यान्ति स्वर्गं ततः क्षिप्रं तमोऽन्धं प्राप्नुवन्ति च । तु तदन्येनैव च स्वर्गं यान्ति विष्णुबहिर्मुखा' इत्यादिगीतातात्पर्यनिर्णयोदाहृतस्मृत्यनुसारेण । इमं लोकमित्यज्ञविषयम् । तेषां प्रमूढत्वसंदेहेनाज्ञातत्वमेव । हीनतरमिति तु भगवद्वेषिविषयम् । तेषां मूढत्वं मिथ्याज्ञानि त्वं च । पूर्वोक्ततात्पर्यनिर्णयोक्तिबलात् ' आचार्याणां तु तेजसा यान्ति स्वर्गम्' इति तु साकल्पिकस्वर्गविषयं तदन्ये नैव तु स्वर्गमिति आचार्याणां प्रसादाभावे मिथ्याज्ञानिनां सांकल्पिकस्वर्गस्याप्यभावः । इति व्यवस्था ज्ञातव्येत्यर्थः ।

अनेन प्रमाणेन इष्टापूर्तादेव नित्यफलसाधने अल्पफलविपरीतफलकयोरज्ञानविपरीतज्ञानयोश्च तथा सुखदुःखमिश्रितफलके मनुष्यलोके अतिदुःखे तमसि च वैराग्यं संपादनीयमित्युक्तं भवति ।

नैष्कर्म्यमित्यत्र सर्वकर्मराहित्यं प्रतीयते तच्च बाधितम् । न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्' इति कृष्णेनैव ज्ञानिनः कर्मराहित्यनिषेधादित्यतो व्याचष्टे-नैष्कर्म्यं मोक्षसाधनमिति ॥ निर्गतं कर्म काम्यं कर्म यस्मात् मोक्षात् स निष्कर्मा मोक्षः निष्कर्मैव नैष्कर्म्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । साधने लक्षणया नैष्कर्म्यं मोक्षसाधनमित्यर्थः । भत्त्यभावे अपरोक्षज्ञानासंभवात्ज्ञानं न शोभत' इति कथमुक्तमित्यत आह-ज्ञानं परोक्षमिति ।। परोक्षज्ञानस्यापि भक्तैरपेक्षितत्वेन अच्युतेति विशेषितम् । नानाप्रतिबन्धकेनापि अच्युतेति विष्णौ च्युतिरहितभक्तिवर्जितमित्यर्थः संसारदोषस्य सत्वात् कथं निरञ्जनत्वमित्यत आह-वैराग्योपेतत्वादिति ।। रागादिदोषशून्यत्वादित्यर्थः ।

ननु सत्कर्मणः ऐहिकामुष्मिकसुखरूपमङ्गलसाधनत्वात् कथं सर्वदा अमङ्गलत्वमित्यत आह-विक्षेपेति । अग्निहोत्रादिकर्मकरणकाले तत्कर्मणां वेदार्थज्ञाने मन:स्वास्थ्यविरोधित्वरूपं अभद्रत्वं अत्र विवक्षितम् । तदेव कर्म ईश्वरे समर्पितं चेत् मनसः ईश्वरे सल्लग्गत्वेन नाभद्रम् । अकारणमित्यत्र अकारणस्वरूपत्वाकारणकत्वार्थत्वभ्रान्तिनिरासायाह-अकारणमिति ॥ अनेन प्रमाणेन निष्कामकर्मकरणं भगवत्यच्युता भक्ति: परोक्षज्ञानं विषयवैराग्यं मनोवाक्कायजसर्वकर्मणां भगवति समर्पणमेवोच्यते । त्रैविद्यमिति इष्टापूर्तमित्येत्समर्थनार्थम् । तत्रापिते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति' इत्युक्तत्वात् । ' मयि सर्वाणि' इत्यनेन कर्मसमर्पणं वैराग्यं सत्कर्मकरणं चोच्यते ।ये मे मतम्' इति तु सत्कर्मकरणे आस्तिक्यरूपश्रद्धायां प्रमाणम् । ये त्वेतदभ्यसूयन्त इत्यनेन तु सत्कर्माकर्तुः निन्दनेन सत्कर्मकरणमेवोक्तम् ।

ननु तपस्विन इत्यत्र तपआदिमङ्गलानामुक्तत्वात् पुनः सुमङ्गला इति व्यर्थ इत्यतः सुमङ्गला इत्येतद्व्याचष्टे-तपआद्यतिरिक्तेति । स्नानादिकमतिरिक्तं शुभम् । क्षेमशब्दस्य प्राप्तपरिपालनमात्रार्थत्वभ्रान्तिनिरासायाह-क्षेमं पुरुषार्थमिति । पुरुषापेक्षितं सकलं मङ्गलमित्यर्थ: । ' क्षेमं स्यान्मङ्गले' इतिविश्वः । यदर्पणमित्यत्र यच्छब्देन तपआदिग्रहणभ्रान्तिं निवारयितुमाह- यदर्पणं यस्मिन्निति ।। विष्णावित्यर्थः । तपआदीनामिति तु पूर्वप्रसक्तानामध्याहारः ।

एष उ एवं दाश्वान् य एवं वेद' इति श्रुतिवाक्यं व्याचष्टे-एष एवेति || ‘दाशृ धानेइत्यतःदाश्वान् साह्रान्' इति सूत्रेण निपातनात् लिटः वस्वादेशे दाश्वानिति रूपम् । तस्यार्थः । यजमान इति । श्रुतौ उ एवेति अवधारणर्थयोर्ग्रहणाभिप्रायमाह-फलवत्वादिति ।। तथा चैवं श्रुतियोजना य एवं वेद ज्ञात्वा हरिमाहात्म्यानुसन्धानपूर्वकं कर्म करोति स एव यजमानः | तत्र हेतु :-फलवत्वादिति ।। अवधारणव्यावर्त्यमाह-इतरस्त्विति ॥ तदभावात् मुख्यफलमोक्षाभावादित्यर्थः । अनेन ज्ञानादेरावश्यकत्वमुक्तम् ।

यदेव विद्यया करोतिइत्यनेन ज्ञानं, श्रद्धा, योग्यता इत्येतत् कर्मकरणे आवश्यकमित्युक्तम् । तत्र उपनिषच्छब्देन योग्यता कथमित्यतः योगेनेत्याह-उपनिषदीति ।। जीवसमीपे तिष्ठति विशेषशक्त्या जीवस्वरूपभूतेति यावत् । उपनीत्युपसर्गद्वयपूर्वात् सदधातो: क्विपि कर्तरि बिति भाव: परंभावमित्यनेन ईश्वरज्ञाने अतिविशेष उच्यते । 'भावस्स्वभावेऽभिप्राये चेष्टासत्तात्मजन्मसु । क्रियालीलापदार्थेषु बुद्धजं तु विभूतिषु' इति विश्वोक्तेः अभिप्रायाद्यर्थकभावशब्दस्य आवृत्या परमित्यस्य विशेषणात् उत्तमाभिप्रायं उत्तमलीलाविभूत्यादिकं गृहीत्वा भावशब्दस्य स्वभावार्थकत्वं गृहीत्वा याथात्म्यमित्यर्थः कृतः । तस्य विशेषणं भूतमित्यादि भूसत्तायामित्युक्तेः भूतं । अनादितो विद्यमानमित्यर्थः । महेश्वरं महांश्वासौ ईश्वरश्चेति विशेषण- पूर्वपदकर्मधारयः । तस्यार्थः-गुणपूर्णमिति । ईश्वरशब्दस्य सम्बुद्ध्यनुक्तेः विश्वस्येत्युक्तम् । सर्वगुह्यतममित्यनेनापि परमेश्वरनिष्ठा भक्तिः तदर्पणपूर्वकयागश्चोच्यते ।विज्ञानमानन्दं ब्रह्म' इत्यस्यान्वयानुसारेण व्याख्यानमाह-तद्विद इति ॥ 'ष्ठा गतिनिवृत्तौ' इत्यतः लटः छान्दसत्वेन व्यत्ययेन शानजादेशे शपि पाघ्रेति तिष्ठादेशे आनेमुगिति मुगागमे निष्पन्नतिष्ठमानस्येत्यस्य व्याख्यानं निष्ठावत इति ॥ तत्र ब्रह्मणीत्यध्याहारो बोध्यः । दातुरित्यस्य उपलक्षणार्थत्वेन यजमानस्येत्यर्थ उक्तः । तस्य विज्ञानमानन्दं ब्रह्म विज्ञानात्मकं ब्रह्म रातिरित्यन्वये सति तदर्थमाह-राति: मित्रमिति ॥अभिघाति-पराराति-प्रत्यर्थिपरिपन्थिनः' इत्यमरकोशे शत्रुपर्यायेषु अराति-शब्दपाठात् अमित्रशब्दे मित्रशब्दस्य सुहृदर्थकत्ववत् रातिशब्दोऽपि मित्रत्वार्थक इति भावः । परायणं चेत्यस्य मोक्षरूपोत्तमाश्रय इत्यर्थस्य स्फुटत्वात् अनुक्तिः । एतद्वाक्येन लब्धमर्थमाह-न पुनरतद्विद इतीति ॥ अयमभिप्रायः । ब्रह्मज्ञाननिष्ठावतः एव यज्ञादि कुर्वतः ब्रह्म सुहृद्भूत्वा मोक्षं ददाति । न तु ज्ञानादिरहितस्येत्युक्तकर्मिणो ज्ञानादिकमावश्यकमित्युक्तं भवति ।