प्रचेतन प्रचेतय
(उपसर्गोपसर्जनक्रमनिरूपणम्)
मूलम्
२७- मूलम्- प्रचेतन प्रचेतय । आयाहि पिव मत्स्व । क्रतुश्छन्द ऋतं बृहत् । सुम्न आधेहि नो वसो इत्युपसर्गाः । अंशा अप्यंश्यपेक्षयोपसर्गा भवन्ति । उपसृष्टत्वादुपसर्गाः । ' अन्तर्गतं वहिर्गञ्च द्विधा स्यादुपसर्जनम् । हस्तवद्धेतिवच्चैव पदानां चोपसर्गवद्' इति शब्दनिर्णये ।अधत्तान्यञ्जठरे प्रेम रिच्यत प्रचेतन ।। १ ।। दाता राधस्तुवते काम्यं वसु प्रचेतय || २ || अस्माकं बोधि चोदिताऽयाहि पिब मत्स्य ॥ ३ ॥ तं त्वा परिष्वजामहे क्रतुश्छन्द ऋतं बृहत् ॥ ४ ॥ या ते रातिर्ददिर्वसु सुम्र आधेहि नो वसो || ५ || इत्युपसृजति ॥
टीका
टीका-सन्त्वेवमेता महानाम्न्य: । के ते तासामुपसर्गाः ? इत्यत आह-प्रचेतनेति ॥ ननूपसर्गा उपसर्जनभूता इति व्याख्यातम् । प्रधानोपसर्जनभावश्च भेदापेक्षः । एते च महानाम्नीनामंशा एव । तत्कथं तासामुपसर्गाः ? इत्यत आह- अंशा अपीति ॥ अंशांशिनोर्भेदस्यापि विद्यमानत्वादिति भावः । उपसर्गशब्दस्याक्षरार्थमाह-उपेति ॥ सृजेः कर्मणि घञिति भावः । एकदेशस्याप्येकदेश्यपेक्षयोपसर्जनत्वं भवतीत्यत्रागमसम्मतिमाह- अन्तर्गतमिति ॥ अन्तर्गतं प्रधानैकदेशभूतम् । तस्योदाहरणं हस्तवदिति । देहापेक्षयेति शेषः । बहिर्गतं प्रधानादत्यन्तभिन्नम् । तस्य हेतिवदिति । पदानां चेति द्वयोरप्युदाहरणान्तरम् । 'इङिकावध्युपसर्गं न व्यभिचरत:' इति वचनात् अधीतेऽध्येतीत्यत्राधिरन्तर्गतम् । प्रभवतीत्यादौ प्रादिर्वहिर्गतः । एतांश्चोपसर्गानतिच्छन्दोभिः कथमुपसृजेदित्यत आह-अधत्तेति ॥
भावदीपः
(रा.टि.) एवमेता इति ॥ भगवदाख्यमहार्थत्वेनेन्द्रादिमहानामत्वेनेत्युक्त-प्रकारेण ‘विधा मधवन्' इत्याद्या ऋचो महानाम्यः सन्त्वित्यर्थः । के ते तासामिति ।। ‘उपसर्गा ये उपसर्जनभूतास्तानुपसृजति' इत्युक्तम् । प्रकृते ते के ? इत्यर्थः । अंशा एवेति । न तु ततोऽत्यन्तभिन्ना इत्यर्थः । कर्मणि घत्रिति ॥ ' अकर्तरि च कारके संज्ञायाम्' इति घञिति भावः । उपसृज्यन्तेऽन्यत्र संयुज्यन्त इत्युपसर्गा इत्यर्थः । सृजेर्घञि ‘पुगन्तलघूपधस्य च' इति गुणे कुत्वे चोपसर्गेतिरूपमिति भावः । हेतिवदितीति ।। उदाहरणमित्यनुषङ्गः । पदानां चेतीति ॥ 'पदानाचोपसर्गवत्' इत्येतत् इङिकाविति ॥ इक् अध्ययने' 'इकू स्मरणे' इति धातुद्रपमित्यर्थः । अधिरिति ॥ उपसर्ग इत्यर्थः । प्रादिरिति ॥ प्रपरेत्याद्युपसर्ग इत्यर्थः । तेन विनापि भवति' इत्यादिप्रयोगदर्शनादिति भावः । एतांश्चेति || प्रचेतनादीन् पञ्चोपसर्गानित्यर्थः । अतिच्छन्दोभिरिति ॥ अतिच्छन्दस्संज्ञकै: 'त्रिकद्रुकेषु' इति 'प्रोष्वस्मै' इति तृचद्वयगतमन्त्रैरित्यर्थः । कथमिति ॥ आद्ये तृचे द्वितीयतृतीयमन्त्रयोः तृतीये तृतीये पादे चतुर्भिश्चतुरक्षरैः कथं संयोजनम् ? द्वितीये च तृचेऽष्टभिरक्षरैः कथं संयोजनमित्यत आहेत्यर्थः । अधत्तेति ॥
अधत्विषी माँ अभ्योजसा क्रिविं युधा भवदा रोदसी अपृणदस्य मज्मना प्रवावृधे अधत्तान्यं जठरे प्रेम रिच्यत प्रचेतन सैनं सचद् देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥ १ ॥
(ऋ. सं २-६-२८) साकं जातः क्रतुना साकमेजसा बबक्षिय साकं वृद्धो वीर्यै: सासहिर्मृघो विचर्षणिः । दाता राधः स्तुवते काम्यं वसु प्रचेतय सैनं सश्चद् देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥ २ ॥
(ऋ.सं. २-६-२८) प्रोष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभीके चिदु लोककृत् सङ्गे समत्सु वृत्रहाऽस्माकं बोधि चोदिता आयाहि पिब मत्स्व । नभन्तामन्यकेषां ज्याका अधि धन्वसु ।। ३ ।। (क्र.सं. ८-७-२१)
त्वं सिन्धूँरवासृजोऽधराचो अहनहिम् । अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् । तं त्वा परिष्वजामहे ऋतुश्छन्द ऋतं बृहत् । नभन्तामन्यकेषां ज्याका अधिधन्वसु ।। ४ ।। (क्र.सं. ८-७-२१)
विषु विश्वा अरातयोऽर्यो नशन्त नो धियः । अस्तासि शत्रवे वधं यो न इन्द्र जिघांसंति या ते रातिर्ददिर्वसु सुम्न आधेहि नो वसो । नभन्तामन्यकेषां ज्याका अधिधन्वसु || ५ || (क्र.सं. ८-७-२१ ) इति ध्येयमिति फलार्थ: । अस्मिन्नर्थे ज्ञापकमाश्वलायनसूत्रे वक्ष्यति ॥
कर्मप्रकाशः
(स.टि) सृजेः कर्मणीति ॥ उपपूर्वादस्माद् अत्र च जो: कुधिण्यतोरिति कुत्वे उपधागुणे च उपसर्ग इति रूपम् ।
गूढवाक्यार्थपञ्चिका
(छ.टि.) एवं महानाम्नीनामुचामित्यत्र मूले स्वविवक्षितमहानाम्नीत्वसिद्ध्यर्थं ‘विदा मघवन्' इत्यादिखण्डं सम्यग्व्याख्याय तत्रानुपपत्तिं परिहृत्य इदानीं 'प्रचेतन प्रचेतय' इत्याद्युपसर्गकथनमसङ्गतमित्यतः पूर्वोक्तमनुवदन् तत्सङ्गमयति-सन्त्वेवमिति ।। एवं विष्णोः सर्वोत्कर्षनामवत्वेन न तु निर्माणकर्तृत्वेन एताः विदा मघवन्नित्याद्याः । के ते तासामिति ।। तासां महानाम्नीनामृचां मध्ये विद्यमाना इत्यर्थः । उपसर्गा उपसर्जनभूता इति व्याख्यातमिति । महानाम्नीनामृचामिति प्रथममूले उपसर्गशब्देन प्रपरेत्यादि-प्रतीतिनिवृत्यर्थं अप्रधानार्थग्रहणार्थमिति शेषः । अंशा एवेति ।। तथा च अंशाशिनोरभेदात् स्वात्मानं प्रत्यप्रधानत्वायोगादिति भावः । भेदस्यापि विद्यमानत्वादिति ।। तथैवांशांशिनोरपि 'खण्डिते भेद एक्यं च' इत्युक्तेरिति शेषः । अक्षरार्थमाहेति ।। अवयवार्थमाहेत्यर्थः । सृजेरिति ॥ अकर्तरि च कारके संज्ञायां' इति सूत्रेणेति शेषः । ततश्च 'चजो: कुविण्यतो:' इति धातुजकारस्य कुत्वे उपधागुणे उपसर्गस्य घञमनुष्ये बहुलं' इति बहुलग्रहणात् । उपशब्दस्य दीर्घाभावे उपसर्गा इति रूपम् । मूले उपसृष्टत्वादित्यस्य ऋगन्तरे विद्यमानानां पदानां ऋगन्तरे सम्बद्धत्वादित्यर्थः । एकदेशस्येति ।। अवयवस्यावयव्यपेक्षयेत्यर्थः । प्रधानैकदेशभूतमिति ।। अवयव्येकदेशभूतमित्यर्थः । हेतिवदिति ।। आयुधवत् । हस्तस्य तु अवयविना देहेन भेदाभेदादन्तर्गतोपसर्जनत्वम् ।
ननु पदानां मध्ये प्राद्युपसर्गाणां कथमन्तर्गतोपसर्जनत्वं बहिर्गतोपसर्जनत्वं वेत्यतस्तद्विशदयति- इङिकाविति ॥ इङध्ययने । इक्स्मरणे इति धातोरधिं विना प्रयोगाभावादिति भावः । प्रादिर्बहिर्गत इति ॥ प्रादिं विनापि भवेत्यादेः प्रयोगादिति भावः । एवं संग्रहमूलवाक्ये महानाम्नीनामृचां उपरागां ये उपसर्जनभूतास्तानित्यंशविवरणपरतया प्रचेतनेत्यादिग्रन्थं व्याख्यायोपसृजति संयोजयतीत्पंशविवरणपरतया अधत्तान्यमित्यादिमूलमवतारयति-एतांश्चेति ॥