विहृतपक्षे तु-पादान्व्यवधायार्धर्चशश्शंसेत्
(सूत्रोक्ताऽनुष्टुभार्धर्चीकरणप्रकारनिरूपणम्)
मूलम्
५३- मूलम्- विहृतपक्षे तु-पादान्व्यवधायार्धर्चशश्शंसेत् । पूर्वासां पूर्वाणि पदानि । गायत्र्यः पङ्क्तीनान्तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात्। उष्णिहो बृहतीभिः । उष्णिहान्तूत्तमान्पादान् द्वौ द्वौ कुर्याच्चतुरक्षरमाद्यम् । द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभा । उत्तरा जगतीभिः । उत्तमायाश्चतुर्थमक्षरमन्त्यं पूर्वस्याऽद्यमुत्तरस्य । अनुष्टुभमतिच्छन्दः स्ववददध्यात् । द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात् । प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्याम् । उत्तरास्वितरान् पादान् षष्ठान्कृत्वाऽनुष्टुष्कायं शंसेत् ॥
टीका
टीका- एवं खण्डद्वयेनोक्तं विहृतपक्षे शस्त्रं बुद्ध्यारोहार्थं सङ्कलय्य प्रदर्शयितुं प्रतिजानीते-विहृतपक्षे त्विति ॥ विहृतं विहरणम् । शस्त्रमुच्यत इति शेषः । कथमित्यस्तत्प्रतिपादकमाश्चलायनसूत्रमेव पठति-पादानिति ॥ अयमर्थः- कासाञ्चिदृचां पादान् ऋगन्तरपादैर्व्यवहितान् विधायाऽनुष्टुभार्धर्चान् कृत्वा शंसेत् । तत्र पूर्वं निर्देश्यमाणानामृचां पदानि पादान् पूर्वान् कुर्यात् । पश्चान्निर्देश्यमाणानां पादानुत्तरान् कुर्यादित्यर्थाल्लभ्यते ।
एवं परिभाषामुक्त्वा व्यवधानमेव स्पष्टमाह-गायत्र्य इति ॥ 'आ त्वा वहन्तु हरयः' इति तिम्रो गायत्र्यः । 'उपोषु शृणुही गिरः' इत्येकया 'सुरान्दृशं त्वा वयम्' इति द्वाभ्यामिति तिसृभिः पङ्गिभिर्यथाक्रमं पादशो व्यवहिताः कार्याः । आ त्वा वहन्तु हरय उपोषु शृणुही गिरः । वृषणं सोमपीतये मघवन्मा तथा इव' इत्यादि । तत्र गायत्र्योऽष्टावरत्रिपादाः | पङ्क्तयस्त्वष्टाक्षरपञ्चपादाः । ततो गायत्रीपादत्रयस्य पङ्क्त्याद्यपादत्रयेण व्यतिषङ्गे त्रय आनुष्टुभार्धर्चा भवन्ति । पङ्क्तीनान्तु प्रत्यृचं द्वौ द्वौ पादी शिष्येते । ताभ्यां यथास्थिताभ्यामेव स्तुबीत । स एक आनुष्टुभोऽथ भवति । ‘यदिन्द्र पृतनाज्ये’ इति तित्र उष्णिहत्रिपादाः, 'अयं ते अस्तु हर्यतः” इति तिसृभिर्वृहतीभिश्चतुष्पादाभिस्संयोज्याः । तासामुष्णिहां बृहतीनां च तृतीयपादा द्वादशाक्षराः, अन्येऽष्टाक्षराः । तत्रोष्णिहान्त्वन्त्यान् पादान् प्रत्येकं द्वौ द्वौ पादौ कुर्यात् । तयोश्व मध्यं चतुरक्षरमायं कुर्यात् । द्वितीयमष्टाक्षरमेव । चतस्रो द्विपादाः प्रत्येकं चतुर्था कृत्वा 'आधूर्ध्वस्मै ' इति प्रथमां विंशत्यक्षरां द्विपदां 'ब्रह्मन् वीर ब्रह्मकृतिं जुपाण:' इति त्रिष्टुभेकादशाक्षरचतुष्पादया संयोजयेत् । 'एष ब्रह्मा' इति शाखान्तरस्था उत्तराः षोडशाक्षरास्तिस्त्रो द्विपादाश्वतुर्धा विभक्ताः 'प्रतेमहे विदथे शंसिषं हरी' इति तिसृभिर्द्वादशाक्षरचतुष्पादाभिर्जगतीभिः संयोजयेत्। ‘त्वामिच्छवसस्पते' इत्युत्तमाया द्विपादायाः पञ्चदशाक्षरत्वेन चतुरक्षरपादचतुष्टयसम्पादनासम्भवेन (नेति) चतुर्यमक्षरं पूर्वविभागस्यान्त्यमुत्तरविभागस्याऽयं च कुर्यात्-त्वामिच्छ्वेति वसस्पत इति च । प्रचेतन प्रचेतयेत्यादीन् प्रचेतयेत्यादीन् महानाम्युपसर्गानेकीकृत्य संव्यवहाराय आश्वलायनेनानुष्टुप्संज्ञा कृता । तमनुष्टुभं 'त्रिकद्रुकेषु महिषो यबाशिरम्’ इति, 'प्रोष्वस्मै पुरोरथम्' इति चातिच्छन्दस्स्ववदध्यात् । कथम्? प्रथमे तृचे द्वितीयतृतीययोः ऋचोः तृतीययोः पादयोरवसाने उपदध्यात् । तत्रापि पूर्वस्यां द्वितीयायां प्रचेतनेति निदध्यात् । उत्तरस्यां तृतीयायां प्रचेतयेति क्षिपेत् । उत्तरासु 'प्रोष्वस्मै' इत्याद्यासु तिसृषु 'आयाहि' इत्यादीन् त्रीन् पादान् यथासङ्ख्यं षष्ठान् कृत्वा ततः सर्वा ऋचोऽनुष्टुभः कृत्वा शंसेदिति। ‘प्र प्र वः’ इत्याद्यास्तु प्रज्ञशतानुष्टुभ इति नोदाहृताः ॥
भावदीपः
(रा.टि.) एवं खण्डद्वयेनेति । 'अथातः छन्दांस्येव व्यतिषजति' इति ‘महानाम्नीनाम्” इति च खण्डद्वयेनेत्यर्थः । विहरणमिति ।। अन्यत्र स्थितस्यान्यत्र संयोजनम् । पादानितीति । 'छन्दांसि व्यतिषजति' इति सामान्येनोक्त्या कस्य केन व्यतिषङ्ग इत्याकाङ्क्षायाम्, ‘आ त्वा वहन्तु, उपोषु शृणुही गिरः इति गायत्रीश्च पङ्कीश्च व्यतिषजति' इत्यादिना विशिष्याप्युच्यते ब्राह्मणे । तत्र कथं व्यतिषङ्ग इत्यतस्तत्प्रकारप्रदर्शनाय परिभाषासूत्रमिदं ‘पादान्त्र्यवधायार्धर्चशश्शंसेत्' इत्यादि । तस्य तावदर्थमाह-कासाञ्चिदिति ।। व्यवहितान्विधायेति । किञ्चिदृक्पादानां मध्ये ऋगन्तरपादस्थापनेन पादान्व्यवहितान् विधायेत्यर्थः । आनुष्टुभार्धर्चानिति ॥ ‘ऋक्पूरब्धू:' इति समासान्तः । अनुष्टुप्सम्बन्ध्यर्धर्चान् षोडशाक्षरार्धर्चानिति यावत् । पूर्वमिति ।। ‘गायत्र्यः पङ्क्तिभिः ' ' उष्णिहो बृहतीभि:' इत्यादौ पूर्वं निर्देश्यमाणानां पादान् पूर्वपूर्वमुक्त्वा ऋगन्तरपादान् पश्चाद् ब्रूयादित्यर्थः । तत्र संयोज्यमानपदेष्वित्यर्थः । सूत्रानुक्तं स्वयमाह-पश्चादिति । ऋचामित्यनुषङ्गः । ‘आ त्वा वहन्तु हरयः इति तित्रो गायत्र्य:, उपोषु शृणुही गिर इत्येका, सुसन्दृशं त्वा वयमिति द्वे पङ्क्ती' इति ब्राह्मणानुरोधादाह-आ त्वा वहन्त्वित्यादि । ‘आ त्वा वहन्तु हरयो वृषणं सोमपीतये । इन्द्र त्वा सूरचक्षसः । इमा धाना घृतस्नुवो हरी इहोपवक्षतः । इन्द्रं सुखतमे रथे । इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे । इन्द्रं सोमस्य पीतये' ।। इति तित्रो गायत्र्यः । 'उपोषु शृणुही गिरो मघवन्मातथा इव । यदा नः सूनृतावतः कर आदर्ययास इद् योजा न्विन्द्र ते हरी' इत्येकया, 'सुसन्दृशं त्वा वयं मघवन् वन्दिषीमहि । प्र नूनं पूर्ववन्धुरः स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी ।। स घा तं वृषणं रथमधितिष्ठति गोविदम् । यः पात्रं हारियोजनं पूर्वमिन्द्र चिकेतति योजान्विन्द्र ते हरी' ।। इति द्वाभ्यामित्यर्थः । व्यवहिताः कार्या इत्युक्तं व्यनक्ति आ त्वेति । इत्यादीति ॥ 'इन्द्र त्वा सूरचक्षसो यदा नः सूनृतावत:' इत्येवं रूपेण ज्ञेय इत्यर्थः ।
‘पङ्कीनान्तु’ इत्यादिसूत्रांशमुपोद्घातपूर्वं व्याचष्टे-तत्रेति । 'गायत्र्यः पङ्किभिः' इत्यात्रेत्यर्थः । आद्यपादत्रयेण व्यतिषङ्गे सतीत्यन्वयः । प्रणुयादित्यस्यार्थः-यथास्थिताभ्यां स्तुवीतेति || 'णु स्तुतौ' इति धातोरिति भावः । तथा चैवं शंसनप्रकार:-'सूनृतावत:' इति प्रागुक्तव्यतिषङ्गानन्तरम् 'कर आदर्थयास इदं योजा न्विन्द्र ते हरी' इति यथास्थितषोळशाक्षरपादद्वयशंसनं कृत्वा पुनर्द्वितीयगायत्रीपादत्रयं पुनर्द्वितीयपङ्क्तीपादत्रयेण व्यतिषक्तं कृत्वा शंसनीयम् । 'इमा धाना वृतस्रुवः सुसन्दृशन्त्वा वयम्’, 'हरी इहोपवक्षतो मघवन् वन्दिषीमहि', 'इन्द्रं सुखतमे रथे प्र नूनं पूर्णवन्धुरः' इति । अत्राप्यवशिष्टं पतयाः पादद्वयम् ‘स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी' इति यथाश्रुतमेव शंसित्वा पुनस्तृतीयगायत्र्याः पादत्रयं तृतीयपङ्क्रयाः पादत्रयेण व्यतिषज्य शंसनीयम् । ‘इन्द्रं प्रातर्हवामहे स या तं वृषणं रथम्', 'इन्द्रं प्रयत्यध्वरे अधितिष्ठति गोविदम्', 'इन्द्रं सोमस्य पीतये यः पात्रं हारियोजनम्' इति । अत्राप्यवशिष्टं पतयाः पादद्वयं 'पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी' इति यथास्थितमेव शंसनीयम् । एवं तृतीयगायत्रीपादानां तृतीयपङ्क्तीपादत्रयेण व्यतिषज्य शंसित्वा अवशिष्टपाद- द्वयं यथाश्रुतमेव शंस्यमिति ।
‘यदिन्द्र पृतनाज्ये, अयं ते अस्तु हर्यत इत्युष्णिहश्च बृहतीश्च व्यतिषजति’ इति ब्राह्मणम् । तत्रेदं सूत्रम् 'उष्णिहो बृहतीभिः' इत्यादि । तद्व्याचष्टे-यदिन्द्रेत्यादिना ।। तिस्व इति ॥ ' यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः । आदित् ते हर्यता हरी ववक्षतुः । यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे ।आदित्ते हर्यता हरी ववक्षतुः' इति तित्र उष्णिहः । ‘अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् । हर्यन्नुपसमर्चयः सूर्यं हर्यन्नरोचयः । विद्वांश्चिकित्वान्हर्यश्ववर्धस इन्द्र विश्व अभि श्रियः । द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्षसम् । अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत्' इति तिसृभिर्बृहतीभिरित्यर्थः । ‘उष्णिहान्तूत्तमान् पादान् द्वौ द्वौ कुर्यात्' इत्यादि सूत्रोक्तव्यतिषङ्गे चतुर्विंशत्यक्षरता स्यात्, नानुष्टुभार्धर्चता । अतस्तत्समाधानाय उत्तमानित्यादिविवृणोति- तत्रोष्णि-हान्त्विति ।। तयोरिति ।। द्वेधा कृतयोः पादयोरित्यर्थः । चतुरक्षरमाद्यमिति।। तथा चोष्णिक्चतुरक्षरस्य तृतीयपादतया बृहतीतृतीयपादेन द्वादशाक्षरेण संयोजने षोडशाक्षरप्राप्त्या आनुष्टुभार्धर्चो भवतीति भावः । अर्थाल्लब्धं स्वयमाह-द्वितीयमष्टाक्षरमेवेति ।। पादशब्दपर्यायः पदशब्दो नपुंसकोऽत्राध्याहार्यः । तथा चैवं संयोजनप्रकारः । यदिन्द्रपृतनाज्ये अयं ते अस्तु हर्यतः। देवास्त्वा दधिरे पुनः सोम आ हरिभिः सुतः । आदित् ते ह जुषाण इन्द्र हरिभिर्न आगहि । र्यता हरी ववक्षतुरातिष्ठ हरि तं रथम् । यदा वृत्रं नदीवृतं हर्यन्नुषसमर्चयः । शवसा वज्रिन्नवधी: सूर्यं हर्यन्नरोचयः । आदित् ते ह विद्वांश्चिकित्वात् हर्यश्व वर्धसे । र्यता हरी ववक्षतुरिन्द्रं विश्वा अभिश्रियः । यदा ते विष्णुरोजसा द्यामिन्द्रो हरिधायसम् । त्रीणि पदा विचक्रमे पृथिवीं हरिवर्षसम् । आदित् ते ह अधारयद्धरितोर्भूरि भोजनम् । र्यता इति ववक्षतुर्ययोरन्तर्हरिश्चरत्, इति व्यतिषज्य मिलित्वा द्वादशानुष्टुभार्धर्चान् शंसेदिति ।।
‘आधूर्ष्वस्मै ब्रह्मन् वीर ब्रह्मकृतिं जुषाण इति द्विपदाञ्च व्यतिषजति' इति ब्राह्मणम् । तत्र सूत्रम् ‘द्विपदा श्रतुर्धा' इत्यादि, उत्तरस्येत्यन्तम् । तद्व्याचष्ठे-चतस्त्रो द्विपादा इति ।। ' आ धूर्ध्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः ' इत्येका द्विपदा ऋक् । ' एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गणे ।विश्रुतयो यथायथो इन्द्र त्वद्येति रातयः । त्वामिच्छवसस्पते यन्ति गिरो न संयत:' इति तिस्रः त्रिपदा: शाखान्तरस्था: । तत्रेयमाशङ्काद्विपदानामधिकाक्षरत्वात् त्रिष्टुभोऽपि तथात्वात् पादयोः संयोजने षोडशाक्षरानुष्टुर्भाधर्चासम्भवात् ' पादान् व्यवधायार्धर्चश:' इति प्रागुक्तपरिभाषाविरोध इति । तामिमामाशङ्कां समाधातुं सूत्रांशं व्याचष्टे-प्रत्येकमिति ॥ ब्रह्मन्निति ॥ 'ब्रह्मन् वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम् । अस्मिन्नू षु सवने मादयस्वोप ब्रह्मणि शृणव इमा नः' इति त्रिष्टुभा एकादशाक्षर-युताश्चत्वारः पादा जाता इति पञ्चपञ्चाक्षरचतुष्पादाया द्विपादायाः क्रमेण संयोजने चत्वार आनुष्टुभा अर्धर्चा भवन्तीति भावः । तथाचैवं संयोजन- प्रकार:- ‘आधूर्ध्वस्मै ब्रह्मन् वीर ब्रह्मकृतिं जुषाण: । दधाताश्चानर्वाचीनो हरिभिर्याहि तूयम् । इन्द्रो न वज्री अस्मिन्नू षु सवने मादयस्व । हिरण्य-बाहुरुप ब्रह्माणि शृणव इमान:' इति । 'उत्तरा जगतीभिः' इत्यंशं व्याचष्टे-एष ब्रह्मेति ॥ उत्तरा इति । प्राक् चतस्र इत्युक्तचतसृषु द्विपदास्ववशिष्टा इत्यर्थः । चतुर्धा विभागे हेतु :-षोडशाक्षरा इति ।। प्रत्येकमिति योज्यम् । चतुर्थेति ।। प्रत्येकं चतुश्चतुरक्षरपादतंया विभक्ता इत्यर्थः । तत्रैकेकस्य चतुरक्षरपादस्य द्वादशाक्षरेण एकैकेन जगतीपादेन आनुष्टभार्धर्चस्य सम्पादनार्थं जगतीभिः संयोजयेदिति ॥
एतास्तिस्रो जगत्य:- ‘प्र ते महे विदथे शंसिषं हरी प्रते वन्वे वनुषो हर्यतं मदम् । घृतं न यो हरिभिश्वारु सेचत आ त्वा विशन्तु हरिवर्षसं गिरः । हरिं हि योनिमभि ये समत्वरन् हिन्वन्तो हरी दिव्यं यथा सदः । आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत । सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः । धुम्नी सुशिप्रो हरिमन्युसायक इन्द्रो नि रूपा हरिता मिमिक्षिरे' ॥ एताभिः संयोजयेदित्यर्थः । तथाहि -एष ब्रह्मा प्र ते महे विदथे शंसिषं हरी । य ऋत्वियः प्र ते वन्वे वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यो हरिभिश्चारु सेचते । श्रुतो गणे आ त्वा विशन्तु हरिवर्षसं गिरः । विश्रुतयो हरिं हि योनिमभि ये समस्वरन् । यथा यथो हिन्वन्तो हरी दिव्यं यथा सदः । इन्द्र त्वद्य आ यं पृणन्ति हरिभिर्न धेनवः । तिरातय इन्द्राय शूषं हरिवन्तमर्चत । त्वामिच्छव सो अस्य वज्रो हरितो य आयसः । वसस्पते हरिर्निकामो हरिरागभस्त्योः । यन्ति गिरो द्युम्नी सुशिप्रो हरिमन्युसायकः । न संयत इन्द्रो नि रूपा हरिता मिमिक्षिरे, इति। ननु ‘त्वामिच्छवसस्पते' इत्यन्तिमाया द्विपदायाः पञ्चदशाक्षरत्वेन तस्याश्चतुर्धा विभागेऽपि चतुरक्षरपादचतुष्टयासम्भव इत्याशङ्कासमाधानाय प्रवृत्तम् ‘उत्तमाया’ इत्यादिसूत्रांशं व्याचष्टे - त्वामिच्छवसस्पत इत्यादि । चतुर्थमिति ।वेत्यक्षरम् । प्रागस्माभिर्वेत्यस्योभयत्र सम्बन्धमुपेत्य व्यतिषङ्गः प्रदर्शितः ।
एवम् ‘अथातः छन्दांस्येव व्यतिषजति' इत्यादिना पूर्वखण्डोक्तव्यतिषङ्गप्रकारप्रदर्शनाय परिभाषापूर्वं प्रवृत्तं सूत्रं व्याख्यातम् । अथैतद्वाक्यस्य पूर्वमुपक्रमे टीकोक्तानुपपत्तिसमाधानाय प्रवृत्ते 'महानाम्नीनामुपसर्गानुपसृजति' इत्यादिके खण्डेऽभिप्रेत उपसर्गोपसर्जनप्रकारो भगवत्पादैर्महानाम्नीनां व्याख्या- नावसरे प्रदर्शितः । तत्र सूत्रस्यानुक्तेरिदानीं तत्सूत्रं प्रदर्शितम्-अनुष्टुभमतिच्छन्दस्स्वित्यादि । तदुपोद्घातपूर्वं व्याचष्टे-प्रचेतनेत्यादिना ।। संव्यवहारायेति ।। ‘अनुष्टुभमतिच्छन्दस्स्ववदध्यात्' इत्यादौ संव्यवहारायेत्यर्थः । अवदध्यादितिसामान्योनोक्तेः पृच्छति-कथमिति ।। उत्तरमाह-प्रथम इति || 'त्रिकद्रुकेषु' इति तृच इत्यर्थः । प्रथमायामृचि पूर्वमिव टीकोक्तदिशाऽनुपपत्त्यभावाद् द्वितीयतृतीययो ऋचोरित्युक्तम् । तृतीययोः पादयोरिति ॥ अन्येषां पादानां षोडशाक्षरत्वेनैकैकपादस्यार्धर्चीकरणसम्भवेऽपि अनयोरक्षरचतुष्टयन्यूनतया तथाकरणासम्भवादित्येतस्या अनुपपत्तेः पूर्वमेवोक्तत्वादिति भावः । ‘प्रचेतनेति पूर्वस्याम्' इत्यादेरर्थमाह-तत्रापीति ॥ पूर्वस्यामित्यस्यार्थः- द्वितीयायामिति ।। ऋचीति तृतीयपादावसान इति च ध्येयम् ।उत्तरास्वित्यादि व्याचष्टे उत्तरास्विति || इत्यादींस्त्रीनिति || उपसर्गपञ्चकमध्ये अवशिष्टांत्रीनित्यर्थः । षष्ठान्कृत्येति । एतासामुचामष्टाक्षरसप्तपादत्वेनाष्टाक्षरेकपादन्यूनत्वादित्यनुपपत्तेः प्रागुक्तत्वादिति भावः । अनुष्टुप्कारं शंसेदित्यस्यार्थः- ततः सर्वा ऋच इति ।। शंसेदिति ॥ शंसनप्रकार: प्राक्प्रदर्शितः इति भावः । नोदाहृता इति । सूत्रकृतेति भावः ॥
कर्मप्रकाशः
(स.टि.) तित्रो गायत्र्य इति || ' आत्वा वहन्तु हरयो वृषणं सोम पीतये । इन्द्र त्वा सूर चक्षसः || १ || इमा धाना वृतस्रुवो हरी इहोपवक्षतः। इन्द्रं सुखतमे रथे || २ || इन्द्रं प्रातर्हवामहे । इन्द्रं प्रयत्यध्वरे इन्द्रं सोमस्य पीतये ।। ३ ।। ' इति तिस्रो गायत्र्य इत्यर्थः । इत्येकयेति । ‘उपोषु श्रुणु ही गिरो मघवन्मातथा इव । यदानः सूनृतावतः कर आदर्ययास इद्यो जान्विन्द्रते हरी' इत्येकयापङ्क्तया । 'सुसन्दृशंत्वावयमधवन् वन्दिषीमाहि ।' प्रनूनं पूर्णबन्धुरः स्तुतो याहि वशां अनुयोजान्विन्दते हरी ॥ १ ॥ सघाते वृषणं रथमधितिष्ठति गोविन्दम् । यः पात्रं हरियोजनं पूर्णमिन्द्र चिकेततियोजान्विन्द्रते हरी ॥ २ ॥ इति द्वाभ्यां पङ्क्तिभ्यामिति तिसृभिः पङ्क्तिभिरित्यर्थः । अत्र अक्षन्नमीमदन्तेति द्वितीयाया ऋचः परित्यागं कृत्वा सुसन्दृशत्वावयमिति ऋग्द्वयग्रहणं तु उपोषु श्रुणु ही गिरः सुसन्दृशं त्वा वयं मघवन्नित्येतद्वेच पङ्की इति षष्ठाध्यायस्थाश्वलायनसूत्रानुसारेणेति ज्ञातज्ञाव्यम् । पादशो व्यवहिताः कार्या इति ॥ गायत्र्या एकं पादं पठित्वा पंक्ते: प्रथमपादः पठितव्यः । एवं सति एक अनुष्टुभः अर्धर्चो भवति । एवं गायत्र्याः द्वितीयपादं पठित्वा पंक्ते: द्वितीयपादः पठनीयः अयमेक अर्धर्च इत्येवंपादाः व्यवहिताः कार्या इत्यर्थः । व्यवहितपाठप्रकारं दर्शयति-आत्वा वहन्तित्यादिना ॥ तिस्र उष्णिह इति ।। ' यदिन्द्रपृतनाज्ये देवास्त्वादधिरे पुरः । आदित्येहर्यताहरी ववक्षतुः ॥ १ ॥ यदा वृत्रं नदी वृतं शवसावज्रिन्नवधीः । आदित्तेहर्यता हरी ववक्षतुः ॥ २ ॥ यदा वृत्रं नदी वृत्रं शवसावज्रिन्नवधीः । आदित्तेहर्यता हरी ववक्षतुः ॥ यदा ते विष्णु रोजसा त्रीणि पदा विचक्रमे । आदित्ते हर्यता हरी ववक्षतुः ॥ ३ ॥ इति तिस्र: उष्णिह इत्यर्थः । तिसृभिर्वहतीभिरिति । 'अयं ते अस्तु हर्यत सोम आह रिभिः सुतः । जुषाण इन्द्र हरिभिर्न आगह्यातिष्ठ हरितं रथम् ॥ १ ॥ हर्यन्नुषसमर्चयः सूर्यं हर्यन्न रोचय: । विद्वांश्चिकित्वान् हर्यश्व वर्ध स इन्द्र विश्वा अभिश्रयः ।। २ ।। द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्षसम् । अधारयद्धरितोर्भूरिभोजनं ययोरन्तर्हरिइतरत् ।। ३ ।। इति तिस्तृभिः बृहतीभिरित्यर्थः। उष्णिहान् त्वंत्यान्पादानिति ।। अन्त्यान् त्रीपादान् द्वौ पदौ कुर्यात् । तयोराद्यं चतुरक्षरं कुर्यात् । अन्त्यमष्टाक्षरं (कुर्यात्) । एवं च सति उष्णिह अपि चत्वारः पादाः सम्पन्ना । तत्र उष्णिहः एकैकपादपठनानन्तरं बृहत्या: एकैकः पादः पठनीयः । एवं च सति उष्णिक्बृह॒त्योः आद्याभ्यां पादाभ्यां एक अनुष्टुभः अर्धर्चो भवति । उभयोः छन्दसोः द्वितीयाभ्यां पादाभ्यां अनुष्टुभः तदर्धर्चो भवति । उष्णिहः चतुरक्षर तृतीयपादस्य बृहत्या द्वादशाक्षर तृतीयपादेन संयोगे एकानुष्टुभ अर्धर्चो भवति । एवं च द्वाभ्यां ऋगभ्यां चत्वारः अर्धर्चा: सम्पन्नाः । एवमेव उष्णिहः द्वितीयायाः ऋचः बृहत्याः द्वितीयाया ऋचा संयोजनं कृत्वा चत्वारोऽर्धर्चाः सम्पादनीयाः । एकमेवोष्णिहस्तृतीया ऋचो बृहत्या स्तृतीयया ऋचा संयोजनं कृत्वा चत्वारोऽर्धर्चाः सम्पादनीया इति ज्ञेयम् । चतुस्त्रो द्विपदा इति || यत्र द्वयोः पादयोः ऋक्संज्ञा सा ऋक् द्विपदेत्युच्यते । तदेव दर्शयति-आघूर्ष्वस्मा इति ।। आधूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः । यद्यपीदं द्विपदा, अक्षरपरिगणनायामष्टादशाक्षरा दृयते । तथापि द्वे संयुक्ताक्षरे विविच्य विंशत्यक्षरत्वं सम्पादनीयम् । त्रिष्टुभेति || ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोर्वाचीनो हरिभिर्या हि तूयम् । अस्मिन् नृषसवने मादयस्वस्योपत्रह्माणि शृणव इमानः । इत्यकादशाक्षरचतुष्पादा त्रिष्टुत्रित्यर्थः । विंशत्यक्षरा आधूर्ध्वस्मा इति ऋक् चतुर्धा कर्तव्या । एकैकभागस्य पञ्चाक्षराणि भवन्ति । एवं च विंशत्यक्षराया ऋचः पञ्चाक्षराणि प्रथमं पठित्वा त्रिष्ठुभः प्रथमः पादः पठनीयः । एवं सत्येक आनुष्टुभः अर्धर्चो भवति । एवं विंशत्यक्षरायाः द्वितीयभागं पठित्वा त्रिष्टुभो द्वितीयः पादः पठनीयः । अयमेक अर्धर्चो भवति । द्विपदायाः तृतीयभागं पठित्वा त्रिष्टुभस्तृतीयपादः पठनीयः । अयमेक अर्धर्चो भवति । द्विपदायाश्चतुर्थभागं पठित्वा त्रिष्टुभचतुर्थपादः पठनीयः । अयमेक अर्धर्चो भवतीति ज्ञेयम् । चतुर्धा विभक्त इति ॥ एकैका ऋक् चतुर्धा कर्तव्या । एवं च सति एकैकस्या ऋचः चतुरक्षरात्मकाः चत्वारः पादा भवन्ति इति भावः । प्रतेमह इति ।। ‘प्रतेमहे विदथे शंसिषं हरी प्रवन्वे वनुषो हर्यतं मदं । घृतं नयो हरिभिश्चारुसेचत आ त्वा विशन्तु हरिवर्षसं गिरः ' ॥ १ ॥ हरिं हि योनिमभि ये समस्वरन्हिन्वतो हरी दिव्यं यथो सदः । आयं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत । सो अस्य वज्रो हरितो व आयसो हरिर्निकामो हरिरागभस्त्योः । द्युम्नीसु शिप्रो हरिमन्युसायक इन्द्रा निरूपा हरिता मिमिक्षिरे' ॥ इति प्रत्येकं द्वादशाक्षरचतुष्पादाः जगत्यः । एवं च पूवोक्तद्विपदाः चतुरक्षरात्मकाः भागाः क्रमेण द्वादशाक्षरजगतीपादैः संयोज्याः । एवं च सर्वेऽपि भागाः प्रत्येकं षोडशाक्षरानुष्टुभर्धर्चा भवन्तीति भावः । ‘त्वामिच्छव सस्यते कण्वा उत्तथेन वावृधुः' । इत्युत्तमा द्विपात् । अत्र चतुरक्षरात्मकभागचतुष्टयं न सम्पादयितुं शक्यम् । ऋचः पञ्चादशाक्षरत्वादित्याशङ्क्य समाधत्ते । त्वामिच्छवस्पत इत्यादिना ॥ कुर्यादित्युक्तमेव दर्शयति-त्वामिच्छवन्तीति प्रथमे तृच इति ॥ 'त्रिकद्भुकेषु महिषो यबाशिरं तु विशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् । स ई ममादमहि कर्म कर्तवे महामुरुं सैनं सचदेवो देवं सत्यमिन्द्रं सत्यमिन्दुः ॥ १ ॥ अधत्विषीमां अभ्योजसा क्रिवि युधा भवदा रोदसी अपृणदस्य मज्मना प्रवावृधे । अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्यमिन्दुः ॥ २ ॥ साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैस्सा सहिर्मृधो विचर्षणिः । दाताराधः स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्यमिन्दुः ' ।। इति प्रथमे ऋचे आद्यऋचः पोडशाक्षरचतुष्पादवत्त्वात्संयोजनं विना द्वित्वमापादयितुं शक्यत इति संयोजनं नास्तीति मनसि कृत्वा संयोजनस्थलमुदाहरति-द्वितीयतृतीययोः ऋचोरि ॥ अर्धत्विषौमानिनि द्वितीयस्याः साकं जात इति तृतीयायाश्च तृतीयपादस्य द्वादशाक्षरत्वात् षोडशाक्षरत्वसम्पत्तये अधत्तान्यं जठरे प्रेमरिच्यतेति द्वितीय-ऋचः तृतीयपादस्यान्ते प्रचेतयेति निदध्यात् । दाताराधस्तुवते काम्यं वश्विति तृतीयऋचः तृतीयपादस्यान्ते प्रचेतयेति निदध्यादित्यर्थः । प्रोष्वस्मा इत्याद्यास्विति प्रोष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभी केचिदुलोककृत्सङ्गे सभत्सुवृत्रहोऽस्माकं बोधिचोदितानभन्तामन्यकेषां ज्याका अधिधन्वसु । त्वं सिन्धूरवासृजोधाराचो अहन्नहिम् । अशत्रुरिन्द्र जहिषे विश्वं पुष्यसि वार्यम् तन्त्वा परिष्वजामहे । नभन्तामन्तामन्यकेषां ज्याका अधि धन्वसु ॥ २ ॥
विषु विश्वा अरातयो र्यो न शन्तनोधियः । अस्तासि शत्रवे वधं यो न इन्द्र जिधांसति या ते रार्तिर्ददिवसु नभन्तामन्यकेषां ज्याया अधिधन्वसु । इति तिसृषु आयाहि पिबमत्स्व क्रतुः छन्दऋतं बृहत् । सुन्म आधेहि नो वसो इति त्रीन् पादान् यथासङ्ख्यं संयोजयेत् । कथमिति चेत् इत्थम् । तित्रो ऋच: प्रत्येकमष्टाक्षरसप्तपादवत्य इत्यष्टाक्षरन्यूनत्वात्प्रत्येकं द्वित्वापादनं न भवतीति द्वित्वसम्पत्तये षष्टपादस्थाने आयाहीत्यादीन् त्रीन् पादान् यथाक्रमं पठित्वा षष्टसप्तमपादावनन्तरं पठितव्यौ । एवं च सति सर्वा ऋचः अष्टाक्षराष्टपादवत्यो भवन्तीति भावः । अत्रैवं सम्पूर्णसंयुक्तऋक्पाठक्रमः । आ त्वा वहन्तु हरयः उपोषु श्रुणुही गिरः । वृषणं सोम पीतये मघवन्मा तथा इव । इन्द्रं त्वा सूरचक्षसो यदा नः सूनृतावतः कर आदर्थ यास इद्योजान्विन्द्र ते हरी । इमा धाना घृतस्रुवो सुसंदृशं त्वा वयं हरी इहोपवक्षतो मघवन्वन्दिषीमहि । इन्द्रं सुखतमे रथे प्रनूनं पूर्णवन्धुरः । स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी || ४ || इन्द्रं प्रातर्हवामहे सघातं वृषणंरथं । इन्द्रं प्रत्यत्यध्वरेऽधितिष्ठाति विगोविदम् || ५ || इन्द्रं सोमस्य पीतये यः पात्रं हारियोजनं । पूर्णमिन्द्र चिकेताति योजा न्विन्द्र ते हरी ॥ ६ ॥ यदिन्द्र पृतनाज्ये अयन्ते अस्तु हयतः । देवास्त्वादधिरे पुरः सोम आहरिभिस्सुतः || १ || आदित्येहर्जुषाण इन्द्र हरिभिर्न आगहि । यताहरी ववक्षतुरातिष्ठ हरितं रथम् ।। २ ।। यदा वृत्रं नदीवृतं हर्यन्नुपसचयः । शवसा बज्रिन्नवधीः सूर्य हर्यन्नरो च यः || ३ || आदित्ये हर्विद्वांचिकित्वान्हर्यश्व कर्धसे । आदित्येहहर्यता हरीववक्षतुरिन्द्रं विश्वा अभिश्रियः || ४ || यदा ते विष्णुरोजसा द्यामिन्द्रो हरिधायसम् । त्रीणिपदा विचक्रमे पृथिवीं हरिवर्षसम् || ५ || आदित्तेहाधारयद्धरितोर्भूरि भोजनम् । यताहरिवत्रक्षतुर्ययोरन्तर्हरिश्वरन् | ६ || आधूर्ध्वस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाणः । दधाता इवानर्वाचीनो हरिभिर्याहि तूयम् ।। १ ।। इन्द्रो नवज्यस्मिन्नुषुसदने मादयस्व । हिरण्य- बाहुरुपब्रह्माणि शृणव इमा नः || २ || एष ब्रह्मा प्रतेमहे विदधे शंशिषं हरी | य ऋत्विजः प्रतेवन्वेवनुषो हर्यतं मदम् || ३ || इन्द्रो नाम वृतं नयो हरिभिश्चारु सेचते ।। १ ।। श्रुतो गुणे आ त्वाविशन्तु हरिवर्षसंगिरः || २ || विभूतयो हरि हियोनिमभिये समस्वरन् । यथा पयो हिन्वन्तो हरीदिव्यं यथा सदः ।। ३ ।। इन्द्रत्वद्ये आयं पृणन्ति हरिभिर्न धेनवः । तिरातय इन्द्राय शूषं हरिवन्तमर्चत ।। ४ ।। त्वामिच्छसो अस्य वज्रो हस्तरितो य आयसः । वनस्पते हरिर्न कामो हरिरागभस्त्योः ॥ ५ ॥ यन्ति गिरो घुम्नीसु शिप्रो हरिमन्युसायकः । न संयतः इन्द्रे निरूपा हरिता मिमिक्षिरे || ६ || त्रिकद्रुकेषु महिषो यवाशिरं तु विशुष्मस्तृपत्सोममपिवद्विष्णुना सुतं यथा वशत् ।। १ ।। स ईममाद महिकर्मकर्तवे महामुरुं हैनं सञ्चद्देवो देवं सत्यमिन्द्रं सत्यमिन्दुः । अधित्विषीमाँ अभ्योजसा क्रिविं युधा मवदारोपसी अपृणदस्य मज्मना प्रवावृधे ।। ३ ।। अधत्तान्यं जठरे प्रेमरिच्छत प्रचेतना । सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्यमिन्दुः || ४ || साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वुद्धो वीर्यैस्सासहिर्मृधो विचर्षणिः || ५ || दाताराधस्तुवते काम्यं वसु प्रचेतय । सैनं सश्चद्देवो देवं सत्यमिन्द्रम् । प्रोष्वस्मै पुरोरथमिन्द्राय शूषमर्चत । अभिकेचिदुलोककृत्सङ्गे समत्सुवृत्रहाकृत्सङ्गे समत्सुवृत्रहास्माकं बोधि चोदितामाहि पिबमत्स्व । नभन्तामन्यकेषां ज्याका अधिधन्वसु ।। २ ।। त्वं सिन्धूँरवासृजो धराचो अहन्नहिंम् । अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यन्ति वार्यम् । तं त्वा परिष्वजामहे क्रतुः छन्द ऋतं बृहत् । नभन्तामन्यकेषां ज्याका अधि धन्वसु ।। ४ ।। विषुविश्वा अरातयोर्यानशन्तनो धियः । अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति ।। ६ ।। यातरातिर्ददिर्वसुम्न आधेहि नो वसो । नभन्तामन्यकेषां ज्याका अधि धन्वसु । एवाह्येवैवापः पूर्वेषां हरिवः सुतानां । एवैवाहीन्द्रमथो इदं सवनं केवलं ते । एवाहि शक्रो ममद्धि सोमं मघमन्तमिन्द्र । वशी हि शक्रः सत्रावृषं जठर आवृषस्व ||
गूढवाक्यार्थपञ्चिका
( छ.टि.) ननु मूले महानाम्नीनामित्यादि खण्डशेषव्याख्यानं विहाय विहृतपक्षेत्वित्यनेन किमुच्यते इत्यतस्तदभिप्रायमाह-एवमिति खण्डद्वयेनेति ।। ‘अथातः छन्दांस्येव व्यतिषजति' इति तृतीयखण्डेन महानाम्नीनामुपसर्गानुपसृजतीति चतुर्थखण्डेन चोक्तमित्यर्थः । मूले विहृतपक्ष इत्यत्र विहृतशब्दार्थमाह-विहृतं विहरणमिति ।। वाक्यान्तरस्य वाक्यान्तरेण संयोजनमित्यर्थः । प्रतिज्ञां दर्शयति-शस्त्रमुच्यत इति शेष इति ॥ कथमित्यत इति ।। गायत्र्यादिछन्दस्कानां ऋचां शस्त्रत्वं कथं केन प्रकारेण खण्डादिरूपत्वाभावादित्यर्थः । तत्प्रतिपादकमिति । तासां ऋचां शस्त्रत्वप्रकारप्रतिपादकमित्यर्थः । मूले पादानित्यादीनां अध्याहारसापेक्षत्वात् अपेक्षिताध्याहारपूर्वकं व्याख्यातुमाह-अयमर्थ इति ।। तत्रेति ।। शंसनीयऋक्षु पूर्वं निर्देश्यमाणानां ब्राह्मणतृतीयखण्डे पूर्वं उच्यमानानां ‘आ त्वा वहन्तु हरय' इत्यादीनां ऋचां पादान् शस्त्रशंसनकाले पूर्वान् कुर्यात् पूर्वं शंसेत् । तत्रैव ब्राह्मणे पश्चान्निर्देश्यमाणानां 'उपोषु शृणुही गिर' इत्यादि ऋकूपादान् उत्तरान् कुर्यात् । तत्पादशंसनानन्तरं शंसेदिति तु आश्वलायनसूत्रे पूर्वासां पूर्वाणि पादानीत्युक्तया अर्थालभ्यत इत्यर्थः । एवं परिभाषामिति ॥ उत्तर प्राप्यमाणं न्यायसाम्यमित्यर्थः । आ त्वा वहन्तु हरय इति तिम्रो गायत्र्य इति ॥ 'आ त्व वहन्तु हरयो वृषणं सोमपीतये । इन्द्र त्वा सूरचक्षसः ।' उयमेका ऋक् चतुर्विंशत्यक्षरत्वात् गायत्री छन्दस्कत्रिपादयुक्ता । 'इमा धाना घृतस्रुव हरी इहोपवक्षतः । इन्द्रं सुखतमे रथे । इयं द्वितीयगायत्री । 'इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे । इन्द्रं सोमस्य पीतये' इयमपि तृतीयगायत्री | ‘उपोषु शृणुही गिर' इत्येकयेति अष्टाक्षरपञ्चपाद्युक्तपङ्कीछन्दस्कयेति शेषः । 'उपोषु शृणुही गिरो मघवन्मा तथा इव । यदा नः सूनृतावत: कर आदर्श या स इद् योजान्विन्द्र ते हरी' इयं प्रथमा ऋक् । अत्र एकयेत्युक्तिस्तु एतदनन्तरपठिताया अक्षन्नमीमदन्त इत्येतस्या ऋचः शस्त्रम् । अत एव तदुत्तरस्थद्वयं क्रमेण गृहीतुमिति द्वाभ्यामित्युक्तम् । 'सुसंदृशं त्वा वयं' द्वाभ्यामितीति ।। ‘सुसन्दृशं त्वा वयं मघवन् वन्दिषीमहि । प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशाँ अनुयोजान्विन्द्र ते हरी' इति द्वितीया पङ्किः । ऋक्प्रथमपादोच्चारणानन्तरं पङ्कीछन्दस्कप्रथमपादोच्चारणं कार्यम् । एवमेव गायत्रीछन्दस्का । ‘सधातं वृषणं रथमधितिष्ठाति गोविदम् । यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजात्विन्द्र ते हरी' इति तृतीया पङ्किः । इति तिसृभिः पङ्क्तिभिरित्यस्य तित्रो गायत्र्यः । यथाक्रमं आश्वलायनसूत्रोक्त क्रमेण पादशः प्रतिपादं गायत्रीछन्दस्कान्त्यपादोच्चारणानन्तरं पङ्क्तिछन्दस्कतृतीयपादोच्चारणं कार्यम् । इति पादशो व्यवहिताः कार्या इत्यन्वयः ।
तत्प्रकारं प्रथमऋचि उदाहृत्य दर्शयति-आ त्वा वहं त्विति ॥ इत्यादीत्यादिशब्देन ‘इन्द्र त्वा सूरचक्षसो यदा नः सूनृतावत: 'इति गायत्री तृतीयपादस्य पङ्किः । तृतीयपादसंयोजनं ग्राह्यम् । एवं 'इमा धान” इति गायत्रीऋग्द्वये सुसन्दृशंत्वेति पङ्किद्वयस्य पादत्रयसंयोजनं ज्ञेयम् । अनेन फलितार्थमाह-तत्रेति ॥ व्यतिषङ्गेति || संयोजने इत्यर्थः । अनुष्टुभार्धर्चा: अनुष्टुभछन्दस्कऋचां अर्धा इत्यर्थः ।
ननु पंक्तीनां आद्यपादत्रयस्य गायत्रीपादैः व्यतिषङ्गे सति पंकत्या: तत्पादद्वयस्य कथमुपयोग इत्यत आह- पंक्तीनां त्विति ॥ ताभ्यां प्रत्यृचं प्रति पंक्ते: विद्यमानाभ्यां यथास्थिताभ्यां ऋगन्तरव्यतिपारहिताभ्यां स्तुवीत शस्त्रशंसनं कुर्यादित्यर्थः । अनेन ताभ्यां प्रणुयादिति मूलं व्याख्यातम् । ताभ्यां पतिपादाभ्यां यथास्थितमिति शेषः । प्रणुयात् स्तुवीत । प्रपूर्वक 'णुञ् स्तुती' इत्यतो विधिलिङ् । तस्यान्वयं दर्शयति-स एक आनुष्टुभोऽर्धर्च इति ।। चतुर्थ इति शेषः । तथा च गायत्रीपंक्तिभ्यां शस्त्रद्वयमिति गायत्रीत्रयेण पंक्तित्रयेण च मिलित्वा षट्शत्राणि भवन्तीति भावः ।
तथा चैवं शस्त्रषट्कं ज्ञेयम् । तथाहि । 'आ त्वा वहन्तु हरयः, उपोषु शुणुही गिरः, वृषणं सोमपीतये मघवन्मा तथा इव' इत्येकं शस्त्रम् । ‘इन्द्रं त्वा सूरचक्षसो यदा नः सूनृतावतः, कर आदर्थयास इद् योजान्विन्द्र ते हरी' इति द्वितीयं शस्त्रम् । 'इमा धाना घृतस्रुवो हरी इहोपवक्षतः, सुसन्दृशं त्वा वयं मघवन् वन्दिषीमहि' इति तृतीयं शस्त्रम् । 'इन्द्रं सुखतमे रथे प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशाँ अनु | योजा न्विन्द्र ते हरी' इति चतुर्थं शस्त्रम् । 'इन्द्रं प्रातर्हवामहे इन्दं प्रयत्यध्वरे' इति पञ्चमं शस्त्रम् । ‘इन्द्रं सोमस्य पीतये, स धा तं वृषणं, योजा न्विन्द्र ते हरी' इति षष्ठं शस्त्रम् ।
इदानीं ' यदिन्द्र पृतनाज्ये अयं ते अस्तु हर्यत' इति ब्राह्मणवाक्यव्याख्यानरूपं 'उष्णिहो बृहतीभि:' इति मूलं योजयति- यदिन्द्र पृतनाज्ये इति तिस्त्र उष्णिहस्त्रिपादा इति ।। ' यदिन्द्र पृतनाज्ये । देवास्त्वा दधिरे पुरः । आदित् ते हर्यता हरी ववक्षतु:' । इयमेका ऋक् उष्णिक्छन्दस्का । अस्याः अष्टाविंशत्यक्षराभावेऽपि 'नवा एकेनाक्षरेण' इत्युक्तेः उष्णिक्छन्दस्कं ज्ञेयम् । 'यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधी: । आदित् ते हर्यता हरी ववक्षतु:' । इयं द्वितीया । ' यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे । आदित् ते हर्यता हरी ववक्षतु:' इति तृतीया । एतास्तिस्रः त्रिपादा अपि उष्णिहः अष्टाविंशत्यक्षरवत्वात् । 'अयं ते अस्तु हर्यत' इति तिसृभिः षट्त्रिंदादक्षरवत्वात् बृहतीछन्दस्काभिरत्यर्थः ।
इदानीं उष्णिहांतूत्तमान् पादानिति मूलं व्याख्याति । तुशब्दाशब्दार्यः । तेन बृहतीनां चेति ग्राह्यं । तद्व्याचष्टे तासामुष्णिहामिति ॥ उष्णिहान्त्वन्त्यान् पादानिति ।। ‘आदित्ते हर्यता हरी ववक्षतुः' इति त्रीनपि पादान् । तयोश्र मध्यं चतुरक्षरमाद्यमिति ॥ आदित्ते हीति प्रथमं चतुरक्षरं प्रथमं पादं कुर्यात् । ऋक्त्रयेऽपीति शेषः । द्वितीयमिति ॥ 'यतो हरी ववक्षतुः' इति पादमित्यर्थः । बृहत्पस्तु 'अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः । जुषाण इन्द्र हरिभिर्न आ गया तिष्ट हरितं रथम् इयमेका बृहती । ‘हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः | विद्वांश्चिकित्वान्हर्यश्ववर्धस इन्द्र विश्वा अभि श्रियः' इयं द्वितीया । ' द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्षसम् । अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरन् ।' इति तृतीया बृहती ॥ छ ॥
अत्रापि बृहतीषु तृतीयः पादः द्वादशाक्षराः तत्रापि पूर्ववत् चतुरक्षरमाद्यं पादं कुर्यात् । द्वितीयं त्वष्टाक्षरमेव । तेनैवं षड्ऋक्संयोजना । ‘यदिन्द्र पृतनाज्ये अयं ते अस्तु हर्यतः देवास्त्वादधिरे पुनः । सोम हरिभिः सुतः । इदमेकं शस्त्रम् । आदित्ते ह जुषाण इन्द्र हरिभिर्न आ गहि । यता हरी ववक्षतुरातिष्ठ हरितं रथम्' । इदं द्वितीयम् । “यदा वृतं नदीवृतं हर्यनुषसमर्जयः । शवसा वज्रिन्नवधी: सूर्यं हर्यन्नरोचय:' । इदं तृतीयम् । ‘आदित् ते ह विद्वांश्चिकित्वान् हर्यश्व वर्धसे । र्यता हरी ववक्षतुरिन्द्रं विश्वा अभिश्रियः’ । इति चतुर्थम् । 'यदा ते विष्णुरोजसा द्यामिन्द्रो हरिधायसम् । त्रीणि पदा विचक्रमे पृथिवीं हरिवर्षसम्' । इति पञ्चमम् । 'आदित् ते ह अधारयद्धरितोर्भूरि भोजनम् । र्यता हरी ववक्षतुर्ययोरन्तर्हरिश्वरन् ' इति षष्ठं शस्त्रम् ।
'आधूर्ष्वस्मै' इति ब्राह्मणवाक्यं मूले व्याख्यातं द्विपदा इति तद्व्याचष्टे-चतस्र इति । 'आधूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहु:' इयमेका द्विपदाऋक् द्वितीया । द्विपदा तु 'एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गणे। विश्रुतयो यथायथो इन्द्र त्वद्येति रातय:' इयं तृतीया द्विपदा । ‘त्वामिच्छवसस्पते यन्ति गिरो न संयतः ' इयं चतुर्थी द्विपदा । इति च द्विपदाः ऋचः प्रत्येकं एकैकां द्विपदां चतुर्धां चतुर्भागं कृत्वा तन्मध्ये इति शेषः । एकादशाक्षरात्रिष्टुप्चतुष्पाद्येत्यनेन त्रिष्टुप्चतुष्पादैः प्रत्येकं आ धूर्ध्वस्मा इति द्विपदाचतुर्भागान् क्रमेण संयोजयेदित्यन्वयः कार्य इत्युक्तं भवति। त्रिष्टुवृक् । ‘ब्रह्मन् वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम्। अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः' इति । संयोजनप्रकारस्तु-आधूर्ष्वस्मै ब्रह्मन्वीर ब्रह्मकृतिं जुषाणः । दधाताश्वानर्वाचीनो हरिभिर्याहि तूयम् । इदमेकं शस्त्रम् । इन्द्रो न वज्यस्मिन्नूषु सवने मादयस्व । हिरण्यबाहुरुप ब्रह्माणि शृणव इमान:' इति द्वितीयं शस्त्रम् । एष ब्रह्मेति ब्राह्मणवाक्यं उत्तराजगतीभिरिति मूलेन व्याख्यातम् । तद्विवृणोति-एष ब्रह्मेति शाखान्तरस्था इत्यादिना || उत्तराः आ धूर्ध्वस्मा इत्यत इति शेषः । जगत्यस्तु । ‘प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् । घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु ( वहन्तु ) हरि वर्षसं गिरः ।' इति प्रथमा । 'हरिं हि योनिमभि ये समत्वरन् हिन्वन्तो हरी दिव्यं यथा सदः । आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ।' इति द्वितीया । ‘सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः । द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे' इति तृतीया । एतत्तिसृषु मध्ये पूर्वयोर्जगत्योः पूर्वद्विपदाद्वयसंयोजनप्रकारस्तु- 'एष ब्रह्म प्र ते महे विदथे शंसिषं हरी । य ऋत्वियः प्र ते वन्वे वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यो हरिभिश्चारु सेचते । श्रुतो गणे आ त्वा विशन्तु हरिवर्षसं गिरः ।' इदमेकं शस्त्रम् । 'विश्रुतयो हरिं हि योनिमभि ये समस्वरन् । यथा यथो हिन्वन्तो हरी दिव्यं यथा सदः । इन्द्र त्वद्य आ यं पुणन्ति हरिभिर्न धेनवः । तिरातय इन्द्राय शूषं हरिवन्तमर्चत ।' इति द्वितीयं शम् । उत्तमाया इति मूलं विवृणोति त्वामिच्छवसस्पत इत्यादिना ॥
वकारस्य पूर्वभागान्त्यत्वं उत्तरभागाद्यत्वं च स्पष्टयति-त्वामिच्छत्रेति ॥ वशस्पत इति चेति ।। तथा चैवं संयोजनम्- ' त्वामिच्छव सो अस्य वज्रो हरितो य आयसः । वसस्पते हरिर्निकामो हरिरागभस्त्योः । यन्ति गिरो चुम्नी सुशिप्रो हरिमन्युसायकः । न संयत इन्द्रो निरूपा हरिता मिमिक्षिरे' इति तृतीयं शस्त्रम् । इदानीं त्रिकद्रुकेषु महिषो यवाशिरं प्रोष्वस्मै पुरो रथमित्यतिछन्दसः शंसतीति ब्राह्मणे प्रथमऋमध्ये त्रिकटुकेष्विति प्रथमऋचि षोळशाक्षराचतुष्पादवत्वेन शस्त्रद्वयकरणसंभवेऽपि एतदुत्तरऋद्वये प्रत्यृचं अक्षरचतुष्टयन्यूनत्वेनानुष्टुप्छन्दस्कशस्त्रद्वयकरणासंभवं तथा प्रोष्वस्मै इति तृचे ऋक्त्रयेऽपि अष्टाक्षरसप्तपादवत्वेन अष्टाक्षरन्यूनवत्वात् द्वात्रिंशदक्षरानुष्टुप्छन्दस्कशस्त्रद्वयकरणासंभवमाशङ्कय आश्वलायनेन समाहितं मूले अनूदितं अनुष्टुभमतिछन्दस्स्ववदध्यादिति । तद्विवृणोति- प्रचेतनेति ।। आदिशब्दात् । ‘आयाहि पिबमत्स्व क्रतुश्छन्द ऋतं बृहत् । सुम्न आधेहि नो बसो' इति उत्तरऋचि संयोज्यमानं पादत्रयं गृह्यते ।
ननु प्रचेतनेत्यादिपञ्चोपसर्गाणां एकऋक्स्थत्वाभावात् अनुष्टुभादिसंज्ञानां एकछन्दस्कानामेव विधानात् पृथक्छन्दस्थेषु एतेषु उपसर्गेषु किमर्थमाश्वलायनेन अनुष्टुभावित्युक्तमित्यत आह-एकीकृत्य संव्यवहाराये ॥ महानाम्नीऋक्षु प्रचेतनेत्यादिपञ्चैवोपसर्गेत्यादिपञ्चैवोपसर्गा इति याज्ञिकव्यवहारार्थं पञ्चोपसर्गाणां द्वात्रिंशदक्षरवत्वेन निमित्तेन प्रचेतनेत्यादीनि सहैव व्यवहृत्य आश्वलायनेन नूतनसंज्ञा कृतेति भावः । तमनुष्टुभमिति ॥ अनुष्टुप्स्थपञ्चोपसर्गानित्यर्थः । द्वितीयतृतीययोरिति मूलं संगमयितुमाह-कथमिति ।। एतान् पञ्चोपसर्गान् ऋचद्वये यथासंख्याभावात् कथं संयोजयेदित्यर्थः । तदुत्तरत्वेन मूलं योजयति प्रथमे तृचे इति ॥ ऋचोरित्यध्याहारोक्तिः । प्रथमतृचग्रहणं तु द्वितीयतृचस्थऋग्व्यावृत्त्यर्थम् । तृतीययोः पादयोरिति । एतदुभयतृतीययोरित्यर्थः । अवसाने अन्ते । मूले पूर्वस्यामित्यस्य त्रिकद्रुकेष्विति ऋगर्थकत्वभ्रान्तिं वारयितुमाह-पूर्वस्यां द्वितीयायामिति || त्रिकद्रुकेष्वित्येतदपेक्षया द्वितीयायामित्यर्थः । उत्तरस्यां त्विति मूलं व्याचष्टे उत्तरासु प्रोप्वस्मै इत्याद्यास्विति || उत्तरतृचस्थासु ऋक्ष्वित्यर्थः । यथा संख्यमिति ।। प्रथमगादिषु आयाहि पिबमत्स्वेत्यादिपादक्रमेणेत्यर्थः । सर्वा ऋच इति || त्रिकद्रुकेष्वित्यादितृचद्वयस्था इत्यर्थः । तत्प्रकारस्तु महानाम्नीखण्डव्याख्याने व्युत्पादितः तत एव बोद्धव्यः ॥ छ ॥
ननु एतदनन्तरं प्र प्र व इत्यादिब्राह्मणोक्तशस्त्ररूपऋचः मूलकारैः कुतो नोदाहृता इत्यस्तत्र हेतुमाह-प्र प्र व इत्याद्यास्त्विति । प्रज्ञातानुष्टुभ इति हेतुगर्भविशेषणम् । प्र प्र व इत्यादिऋचां वाक्यान्तरसंयोजनं विना अनुष्टुप्त्वस्य सम्यक्ज्ञातत्वादित्यर्थः ।