यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय
(यो मंहिष्ठ इति ऋक्छन्दार्थप्रपञ्चनम् )
मूलम्
१९- मूलम्- यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय । इन्द्रो विदे तमु स्तुषे वशी हि शक्रः ॥ ५ ॥
मघोनां यशस्विनां महत्तमः चिकित्वः ज्ञातः कर्तरिति वा, नः अभितः सर्वतो नय । इन्द्रो विदे समस्तं व्यजानात् । तमेव स्तुषे ||५||
टीका
टीका- यो मंहिष्ट || मधोनाम् अनुस्वारश्छान्दस इति भावेन महत्तम इत्युक्तम् । त्वमिति शेषः । चिकित्व इति ॥ 'कित निवासे' इत्यस्य कसौ रूपम् । अनेकार्थत्वाद्धातूनां ज्ञातरित्यादि । विदे विविद इत्यर्थः । य इत्यनुवर्तते । उशब्दस्यार्थ एवेति ॥ ५ ॥
भावदीपः
(रा. टि.) 'यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय । इन्द्रो विदे तमु स्तुषे वशी हि शक्रः' || क्कसौ रूपमिति || लिटः क्कसावादेशे 'लिटि धातोरभ्यासस्य' इति द्विर्वचने अभ्यासस्य चुत्वे, सुप्रत्यये 'उगिदचाम्' इति नुमागमे 'हल्ड्यान्भ्यः' इति सुलोपे 'संयोगान्तस्य' इति सलोपे ' मतुवसो रु सम्बुद्धौ' इति नकारस्य रुत्वे चिकित्व इति रूपं ध्येयम् । अयमर्थः-चिकित्वः ज्ञतः कर्तः त्वमिति शेषः । नो अस्मान् प्रति अभितः सर्वतो नय भद्राणि प्रापय । किमर्थम् ? य इन्द्रो मघोनां यशस्विनां महिष्ठो महत्तमः य इन्द्रो विदे विविदे समस्तं व्यजानात् । तमु तमेव स्तुषे स्तोतुम् । तुमर्थे सेप्रत्ययः षत्वम् । इन्द्रस्तवप्रापकं भद्रप्रापणं कुतः प्रार्थ्यत इत्यत उक्तम्-वशी हि शक्र इति ।। हि यस्मात् शक्रो हि स्वतन्त्रः तस्मादिति ।। ५ ।।
विवरणम्
(श्री.टि.) ननु 'मह पूजायाम्' अस्मात् 'अतिशायने तमविष्ठनौ’ इत्यतिशयार्थे इष्ठन्प्रत्यये महिष्ठ इत्येव स्यान्मंहिष्ठ इत्यनुस्वारः कस्मादित्यत आह- अनुस्वार इति ।। मकारात्परोऽनुस्वारः इत्यर्थः । कितेति II ‘कित निवासे' अस्मात्क्कसुप्रत्यये ककारलोपे 'लिटि धातोरनभ्यासस्य' इति द्वित्वे कितकितेति जाते हलादिशेषे किकितेति जाते आद्यककारस्य 'कुहोश्चु' इति चुत्वे चिकितेति जाते तकारस्थाकारलोपे चिकित् वस् चिकित्वसिति प्रातिपादिके पश्चात् स्वाद्युत्पत्तौ सम्बुद्धौ चिकित्व इति भवतीति ध्येयम् । कसौ प्रत्यये सतीति शेषः । ननु कितधातोर्निवासार्थकत्वे कथं हे ज्ञातरित्यादि व्याख्यानमित्यत आह-अनेकार्थत्वादिति । य इतीति ।। यो व्यजानात्तमेव स्तुषेस्तोतुमित्यन्वयो द्रष्टव्यः ।। ५ ।।
कर्मप्रकाशः
(स.टि.) 'यो मंहिष्ठो मघोनां चिकित्वोऽभि नो नय । इन्द्रो विदे तमु स्तुषे वशीहि शक्र' इति ऋचं प्रतीकतयोपादत्ते यो मंहिष्ठ इति ॥ ननु मंहिष्ठ इत्यस्य महच्छब्दरूपत्वे नुमागमोऽनुपपन्नः । विधायकाभावात् । प्रकृत्यन्तररूपत्वे भाष्यकृता प्रकृत्यन्तरस्यैवार्थो वक्तव्य इत्यर्थः ।अनुस्वरागम इति ॥ क्कसौ रूपमिति ॥ कितेर्लिटः कसौ द्विर्वचने अभ्यासचत्वे च चिकित्व इति रूपम् । विदे इति ॥ छन्दसि वेति वक्तव्यमिति वचनात् अभ्यासाभावे विदेति लिटि रूपम् ।
गूढवाक्यार्थपञ्चिका
( छ. टि. ) 'यो मंहिष्ठो मघोनां' इति पञ्चमीं ऋचं प्रतीकेनोपादत्ते यो मंहिष्टो मघोनामिति ॥ ननु महच्छब्दात् अतिशयार्थे इष्टन्प्रत्यये 'तुरिष्ठेमेयःसु टे:' इति टिलोपे मंहिष्ठ इति भाव्यम् । अनुस्वारः कथमित्यत आह-अनुस्वारः च्छान्दस इति ॥ पृषोदरात्वादिति भावः । ऋचि मघवच्छब्दपर्यायकनिन्प्रत्ययान्तमघवच्छब्दात् षष्ठीबहुवचने आमि परत: —श्वपुत्रमघोनामतद्धिते' इति सूत्रेण संप्रसारणे निष्पन्नं मघोनामिति रूपमिति बोध्यम् । अस्य पदस्य अनुवृत्तेन सकाशादित्यनेनान्वयः । मंहिष्ठ इत्यस्य विशेषाकाङ्क्षायां नवेति मध्यमपुरुषप्रयोगबलात् प्रसक्तमध्याहरति-त्वमिति शेष इति ।। तव यच्छब्दबलात् स इत्यपि शेष इति ज्ञेयम् । रूपमिति ॥ ‘कित निवासे’ रोगापनये चेति धातोः लिटः ‘कसुश्च' इति | क्वसौ क्वस्वादेशे स्थानिवद्भावात् लिटि धातोरिति द्वित्वे 'कुहोश्रुः' इति अभ्यासस्य चुत्त्रे संबुध्येकवचने सौ उगित्वामिति नुमागमे 'हल्ङयांभ्यो दीर्घात्' इति सुलोपे संयोगान्तलोपेन वसोः सकारलोपे मतुवसोरुः संबुद्धाविति नुमः रुत्वे चिकित्व इति रूपमिति भावः ।
ननु तर्हि मूले ज्ञातः कर्तरीत्यर्थद्वयं कथमित्यत आह- अनेकार्थत्वादिति || ज्ञातृशब्दस्य तृन्नन्तस्य तादृशस्यैव कर्तृशब्दस्य संबुद्धौ ज्ञातः कर्त्तरीति मूले प्रयोग इति भावः । मूले नः अस्मान्निति द्वितीयान्तमभिप्रेत्य अभिशब्दस्य अभित इति प्रतिपदं दत्वा सर्वत इति ऐहिकामुष्मिकफलं नय प्रापयेति चिकित्व इति द्वितीयपादव्याख्यानं बोध्यम् ।
ननु 'विद ज्ञाने' इति धातो: विदे इति कस्मिन् लकारे रूपमित्यत आह- विविद इत्यर्थं इति ।। 'लिटि सर्वे विधयः छान्दसि विकल्प्यन्त' इति वचनात् द्वित्वाभावे व्यत्ययेन आत्मनेपदे च इदं रूपमित्यर्थः । अस्यैवाभिप्रायः मूले रामस्तमित्यनेन स्पष्टीकृतः । उपलक्षणमेतत् । विजानाति विज्ञास्यतीत्यपि ज्ञेयम् । 'छन्दसि लुन्गलिटः' इति सूत्रेण विहित: लेट: सामान्यतो विधानेन सर्वकालार्थत्वात् त्वमित्यस्य अन्वयसिद्ध्यर्थमाह- य इत्यनुवर्तत इति ॥ अस्य इन्द्र इत्यनेनान्वयः इति तु पुरुषव्यत्ययेन स्तुवे इत्यर्थकं बोध्यम् । तथा च यः इन्द्रः विदेहं तमेवं स्तुवे (पे) इत्यन्वयः प्रदर्शितो भवति । ऋचि वशीहि शक्र इति इन्द्रस्य स्तुत्यत्वे हेतुकथनं हि यस्मात् शक्रः न इत्यनुवृत्तेः अस्माकं वशी इच्छाधीनः भक्तवशत्वादिति यावदिति स्पष्टत्वात् मूले न व्याख्यातम् ।। छ ।।