अवस्वराति गर्गरो गोधा परि सनिष्वणत्
(गर्गरादिघोषाणां भगवद्वाचकत्वसमर्थनम् )
मूलम्
३४-मूलम्-अवस्वराति गर्गरो गोधा परि सनिष्वणत् । पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥ २ ॥
गर्गरगोधापिङ्गादीनां घोषा अपि नादमात्रव्यञ्जकत्वेन भगवद्वाचका एवेत्याह-अवस्वरातीत्यादिना । एतत्समस्तमिन्द्रायैवेत्यर्थः । ब्रह्म वेदो विशेषत इन्द्रायैवोद्यतः । गर्गर इति पादभूषणमहामत्रकदधिपात्रहस्तिहस्तानां नाम । पिङ्गा चकोरी । अवपरीत्यल्पाधिक्यादिविशेपोऽपि तद्वाचक एवेति ज्ञापनाय । चनिष्कददित्यनुकरणशब्दः । सनिष्वणदित्यतिशयार्थे । 'ता वा एतास्सर्वा ऋचस्सर्वे वेदास्सर्वे घोषा एकैव व्याहृतिः प्राण एव' इति श्रुतिः । 'दध्नो मथनशब्दश्चाप्यन्तर्नादस्वरूपतः । भीषकत्वं हरेब्रूयादन्तर्नादो हि भीषणे । गजबृंहितमप्येवं धिक्कारसहितं वदेत् । स्वरितेन समायोगाद्धिकृतौ स्वरितो यतः । महामत्रजन्ताद्यैश्च युक्तमेतादृशां वदेत् । पादभूषा च धिक्कारं तत्कृतं स्वरितो वदेत् ।अद्भुतत्वं हरेर्वक्ति पिङ्गाकण्ठगशब्दवत्। तामेवाद्भुततां वक्ति गृहगोधा परापि च' इति शब्दतत्वे॥ ३॥
टीका
टीका:- द्वितीयाया ऋचः पादत्रयस्य तात्पर्यमाह गर्गरिति ॥ ननु वर्णा एव वाचका न घोषाः । ते तु वर्णानां व्यञ्जका एव । तत्कथमुच्यते घोषा वाचका इति । न च वाच्यं वाचकवर्णव्यञ्जकत्वेनोपचारादियमुक्तिरिति । गर्गरादिघोषाणामकारादिवर्णव्यञ्जकत्वस्याप्यभावादित्यत उक्तम्-नादेति ॥ नादो नाम वर्णो मन्त्रशास्त्रे प्रसिद्धः । अकाराद्यव्यञ्जकत्वेऽपीति मात्रशब्दार्थः । इदं तात्पर्यमक्षरैर्दर्शयति-एतदिति ॥ अनेन यदवस्वरातीत्यादियोजना सूचिता । इन्द्रायेत्यस्योभयत्र सम्बन्धः कृतः । उद्यत इत्यस्यैवार्थो विशेषत इति । गर्गरादिशब्दानां भगवति शक्तिमात्रं वेदस्य तु तात्पर्यमपीति भावः । कचिदवेत्यपकृष्टार्थ उपसर्ग उपात्तः क्वचित्परीत्युत्कृष्टार्थः तदेतद्वैचित्र्यं किमर्थम् ? इत्यत आह-अवपरीति । अनेन अवस्वराति परिस्वरातीत्यादि प्रत्येकं द्वयोः सम्बन्ध इत्यङ्गीकृतं भवति । ननु चनिष्कददिति कोऽयं शब्दः । एवंभूतस्य धातोरस्मरणादित्यत आह-चनिष्कददिति ॥ असाध्यनुकरणस्यापि साधुत्वमिष्यत एव । सनिष्वणदिति अभ्यासनिगागमौ स्वनतेः कुतः ? निपातनादिति ब्रूमः । तर्हि कोऽर्थ इत्यत आह- सनिष्वणदिति ॥ उपसर्गाणां व्यञ्जकत्वपक्षे परेर्न पुनरुक्तता । वाचकत्वेऽप्यत्यन्तातिशयार्थकत्वात् । अत्रैव सामान्यविशेषवचने पठति -ता वा इति ॥ अन्तर्नादोऽपि नादस्यैव विशेषः । तत्स्वरूपतस्तद्व्यञ्जकत्वात् । एवमन्तर्नादव्यञ्जकं धिक्कारसहितं भीषकत्वं यत एतादृशं तस्मादेतादृशमर्थं वदेत् । तत्कृतं भगवत्कृतम् । पराप्यरण्यगोधापि ।। २ ।।
भावदीपः
(रा.टि.) द्वितीयाया इति । अवस्वराति गर्गरो गोधा परि सनिष्वणत् । पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम्' इत्यस्या इत्यर्थः । पादत्रयस्येति || मूले भगवद्वाचक एवेत्युक्तिर्वास्तवाभिप्राया न त्वन्त्यपादतात्पर्योक्तिपरेति भावः । नादो नामेति । अकारोकारमकारनादबिन्दुस्वरशान्तातिशान्तभेदेनाष्टाक्षरप्रणवगतनाद इत्यर्थः । इन्द्रायेत्यस्येति ।। वाक्येऽप्यनेनेत्यनुषङ्गः ।उभयत्रेति । पादत्रयोक्तवाक्यत्रये ब्रह्मोद्यतमित्यत्र चेत्यर्थः । उद्यत इति पृथगुपादानाद्विशेषत इति कस्यार्थः ? इत्यत आह-उद्यत इत्यस्य वेति ॥ व्याख्यानपूर्वं तस्यानुवाद इति भावः । विशेषत इत्युक्तं व्यनक्ति-गर्गरादीति । तात्पर्यमपीति । तत्प्रमितिशेषत्वरूपं तात्पर्यमित्यर्थः । तेन 'न च वाचनिकार्थस्तात्पर्यार्थ इति विशेष:' इति वक्ष्यमाणविरोधः । मूले अवपरीत्यादिना सङ्कलय्योक्तेर्विविच्य पदार्थं वदन् व्यावर्त्यपूर्वमवतारयति-क्वचिदवेतीति ॥ क्वचिदिति । शास्त्रे शब्दव्यवहार इति वार्थः । असाध्वनुकरणस्येति ।। श्रुतावनुकरणशब्दस्यानुकार्येणार्थवत्त्वमुपेत्य साधुत्वमनुकरणशब्दस्येष्यत इत्यर्थः । अतो नासाधुत्वशङ्का । ' यच्चाशक्तिजमसाधुशब्दरूपं तदनुकरणस्यापि साधुत्वमिष्यते' इति व्याकरणभाष्योक्तेः । तत्राशक्तिजमित्युक्तिरुपलक्षणमिति भावः । अभ्यासनिगागमाविति ॥ षत्वं चेत्यापि ध्येयम् । कोऽर्थ इति । तयोरिति योज्यम् । अभ्यासनिगागमाभ्यामेव ‘अतिशयार्थे’ इत्यतिशयार्थलाभे परीति पुनरुक्तमित्यत आह-उपसर्गाणामिति ।। अत्यन्तातिशयार्थकत्वादिति ॥ न पुनरुक्ततेत्यनुषङ्गः ।
अत्रैवेति ।। घोषा वेदाश्च ब्रह्मपरा इत्युक्तमन्त्रव्यञ्जकत्वेनेति प्रागुक्तविरोध इत्यत आह-अन्तर्नादोऽपीति ॥ तत्स्वरूपत इत्यभेदोक्तेर्बीजमाह-तत्स्वरूपतस्तद्व्यञ्जकत्वादिति । एवमित्यनुवादः अन्तरित्यादि व्याख्या । यत इत्यस्योत्तरेणाप्यन्वयमुपेत्य तच्छब्दाध्याहारेणावृत्त्या योजयति-एवमिति । यत एतादृशमन्तर्नादव्यञ्जकं स्वरितयुक्तं तस्मादेतादृशं धिक्कारसहितभीषकत्वं वदेदित्यर्थः । स्मृतौ जलाद्यैश्व युक्तमित्यस्य निक्षिप्यमाणजलधान्यादियुक्तमित्यर्थः । अन्यथा अवस्वरातीत्यस्यायोगात् । अयमृगर्थसङ्ग्रहः-गर्गरः पादभूषणादिकं यदवस्वरति अवस्वरति शनैः स्वनति, यत्परिस्वरति उच्चैर्ध्वनयति, गोधा गृहगोधा अरण्यगोधा च यदवसनिष्वणत् मन्दतरं रौति यच्च परिसनिष्वणत् उच्चै रौति पिङ्गा चकोरी यदवचनिष्कदत् मन्दं कूजति,यच्च परिचनिष्कदत् उच्चैः कूजति सर्वमिन्द्राय इन्द्रशब्दितपरमेश्वरवाचकमेव । ब्रह्म वेद उद्यतं तात्पर्योपेतं सदिन्द्राय तद्वाचकमिति ॥ २ ॥
कर्मप्रकाशः
(स.टि.) द्वितीयाया इति ॥ ' अवस्वरातिगर्गरो गोधा परिसनिष्वणत् पिङ्गापरिचनिष्कददिन्द्राय ब्रह्मोद्यतम्' इति द्वितीयाया ऋचः इत्यर्थः । उभयत्रेति ।। यदवस्वारातीत्यादि तत्सर्वमिन्द्रायैवेति पूर्वेण यश्वोद्यतं ह्य वेदः तदिन्द्रापेत्युत्तरेण च सम्बन्धः कृत इत्यर्थः । गर्गरादिरादिशब्दानामिति । गर्गरादिशब्दाभिव्यक्तानां नादरूपाणानां भगवति शक्तिमात्रं, न तु तात्पर्यम् । भगवच्छब्देच्छया गर्गरादिशब्दानामप्रयुक्तत्वादिति भावः । वेदस्येति॥ तत्प्रतीतीच्छया ऋषिप्रयुक्तत्वादिति भावः । अभ्यासनिगागमति ॥ स्वनतेर्लिङ्गि तस्य तिपि इकारलोपे अभ्यासनिगागमे च सनिष्वणदिति रूपं स्यात् । तत्राभ्यासनिगागमौ कुतः इत्यर्थः । धिक्कारसहितं भीषकत्वमिति ॥ अभक्तानां धिक्कारं कृत्वा हरिर्भीषयतीति वदेदित्यर्थः ।
गूढवाक्यार्थपञ्चिका
( छ. टि. ) द्वितीयाया ऋच इति ॥ ' अवस्वराति गर्गरो गोधा परि सनिष्वणत् । पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम्' इति तृचस्थद्वितीयाया इत्यर्थः । यद्यपि मूले भगवद्वाचका एवेत्यनेन एतत्पादत्रयस्य चतुर्थपादस्थ इन्द्रायेत्यनेनान्वयप्रदर्शनेन चतुर्थपादतात्पर्यमप्ययुक्तम् । तथापि संपूर्णतात्पर्यानुक्तेः इन्द्रायेत्यस्योत्तरत्राप्यन्वयात्पादत्रयस्येत्युक्तमिति ज्ञातव्यम् । मूले नादमात्रव्यञ्जकत्वेनेत्यस्य सार्थक्याय तनिवर्तनीयां शङ्कां दर्शयति ननु वर्णा एवेति ।। घोषाः ध्वनयः । ननु घोषस्य नादव्यंजकत्वेन घोषशब्देन लक्षणया नादग्रहणेऽपि नादस्यावर्णत्वे कथं भगवद्वाचकत्वमित्यत आह-नादो नम वर्ण इति ।। मन्त्रशास्त्रे तन्त्रसारादौ ।। तत्र प्रणवस्य ॐकाररूपस्य अकारउकारमकारविन्दुनादघोषशान्तातिशान्तरूप अष्टाक्षरवत्वोक्तेः । तथा च वर्णत्वेन लोकप्रसिद्धाकारादिव्यंजकत्वाभावेऽपि गर्गरादिध्वनेः नादरूपवर्णव्यञ्जकत्वेन भगवद्वाचकत्वमित्युक्तं भवति । इदं तात्पर्यमिति ॥ पादत्रयस्य तात्पर्यम् । अक्षरैः पादयोजनयेत्यर्थः । तामेव दर्शयति-यदवस्वरातीत्यादिनेति ।। तथा च गर्गरयत् यद्वस्तु प्रति अस्वराति स्वृशब्दोपतापयोरिति धातोः लोटि तिपि लोटो डाटावित्यडागमे सार्वधातुकेति रूपमेतत् । शब्दं करोतीत्यर्थः । तथा गोधा पल्ली सरटो वा यच्च सनिष्वणत् । 'ध्वणशब्दे' इति धातोः ध्वनिं करोति । तथा पिङ्गा चकोरी यच्च चनिष्कणत् तत्सर्वं इन्द्रायेति योजना ददितित्यर्थः । उभयत्रेति ।। पूर्वपादत्रये चतुर्थपादे चेत्यर्थः । तथा च इन्द्रायेत्यस्य पूर्वमन्वयोक्तेः पुनः इन्द्रायैवोद्यत इति इन्द्रायेति उक्तिर्व्यर्था इति शङ्कानवकाशः । ननु विशेषत इति मूले कस्य पदस्य व्याख्यानमित्यत आह-उद्यत इत्यस्येति ॥ उच्छब्दस्य उत्कर्षरूपविशेषार्थकत्वात् विशेषत इति पञ्चम्याः ल्यत्र्लोपनिमित्तत्वाश्रयेण यतमित्यस्य उद्युक्तत्वरूपार्थमभिप्रेत्य मूले उद्यतमिति श्रौतपदस्य विशेषतः उद्यत इति व्याख्यानमिति भावः । तथा च ब्रह्म वेदः उद्यतं उत्कर्षरूपविशेषमादाय यतं प्रवृत्तमिति श्रौतपदं व्याख्यातं भवति ।
ननु गर्गरादिशब्दाभिव्यक्तनादस्य वेदेन विष्णुप्रतिपादकत्वाविशेषात् ब्रह्मशब्दोक्तवेदस्य श्रुतौ उद्यतमिति विशेषोक्तिः कुत इत्यत आह- गर्गरादि- शब्दानामिति ॥ शक्तिमात्रं स्वभावेन प्रतिपादकत्वम् । औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति जैमिन्युक्तेः । औत्पत्तिकशब्दस्य स्वाभाविकत्वार्थकत्वात् । तात्पर्यमपीति ॥ वक्तृभिप्रायोपेतत्वमपीत्यर्थः । अपिशब्दात् वाचकत्वम् । गर्गरादिशब्दानां जडतिर्यग्योनिजातानां वक्तृभिप्रायोपेतत्वासंभवात् वेदस्य तु विष्ण्वादिवक्तृभिप्रायोपेतत्वसंभवादिति भावः । मूले गर्गरशब्दार्थ उक्तः गर्गर इतीति ।। पदभूषणं नूपुरादि । महामत्रकं स्थूलजलपात्रम् । दधिपात्रं दधिमथनकरणपात्रम् । हस्तिहस्तः गजस्य शुण्डादण्डः । तथापि गजशब्दव्याख्यानं चकोरीति कृतम् । चकोरी पक्षीविशेष: चन्द्रस्य ज्योत्स्नापानकर्ता । क्वचिदिति ।। अवस्वरातीत्यत्र । क्वचित्परीति ।। द्वितीयपादयोः अवपरीत्यादिमूलस्येयं योजना । गर्गरादिशब्दानां अवेत्युपसर्गान्वयेन पदल्पत्वं परीत्युपसर्गान्वयेन च यदुत्कृष्टत्वं प्रतीयते स सर्वोपीत्यर्थः कोयं शब्द इति ॥ कस्माद्धातोर्निष्पन्न इत्यर्थः । अनुकरणशब्दो नाम शब्दार्थकः शब्दः अत्र चकोरीध्वनिप्रतिपादक इति यावत् । एतत्प्रतिपादकस्य चनिष्कददिति शब्दशास्त्रेऽननुशासनेन असाधुत्वात् कथं वेदे प्रयोग इत्यत आह-असाध्वनुकरणस्येति ॥ इत एव वैदिकप्रयोगादेव अनुकरणशब्दत्वादिति वेत्यर्थः । तथा च महाभाष्ये 'सतक:' इति प्रयोगं कर्त्तुमशक्तया 'कुमार्या लुतक' इति प्रयुक्ते तदनुवादकेन पुरुषेण कुमारी लुतक इत्याहेति उक्तानुकरणभूतलुतकशब्दस्य साधुत्वोक्तेः कैयटादिभिस्तथाङ्गीकाराच्च । यथोक्तं यच्चाशक्तिजं असाधुशब्दरूपं तदनुकरणस्यापि साधुत्वमिष् साधुत्वमिष्यत इत एवेति पाठान्तरम् । अभ्यासानिगागम स्वनधातोः लेटि तिपः इतश्चेति इकारलोपे स्वनदिति रूपसिद्धौ द्वित्वाभावात् तत्प्रयुक्तसनित्यभ्यासाभावात् । तस्य निगागमाभावाच्च नीति वर्णद्वयं स्वनदित्यतः पूर्वं कृतः प्रमाणात्समागतमिति शङ्कार्थः । उत्तरमाह- निपातनादिति ।। ‘दाधर्तिदर्धर्ति' इति सूत्रेण सनिष्कणदित्यस्यापि निपातनाङ्गीकारादिति भावः । तर्हि कोऽर्थ इति ।। अभ्यासनिगागमयोरिति शेषः । अनेन सनिष्कणदित्यतिशयार्थ इति मूलेऽपि अत्रत्य अभ्यासनिगमाविति शेषोक्तिर्द्रष्टव्या ।
ननु एकेनैव परीत्यनेन शब्देनातिशयार्थस्योक्तत्वात् द्वितीयस्य वैय्यर्थ्यमित्यत आह-उपसर्गाणामिति || ' डुबप् बीजतन्तुसन्ताने' इति बीजावापे पठितधातोः उपसर्गाभावेऽपि केशान्वपतीत्यत्र मुण्डनार्थत्वप्रतीतेः धातूनामनेकार्थत्वस्य सिद्धत्वात् ' उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहार-संहारविहारपरिहारवत्' इत्युक्तिः धात्वन्तर्गतार्थानां व्यञ्जकत्वमाश्रित्येति महाभाष्यादावुक्तेः न पुनरुक्तता । अभ्यासत्वेन तात्पर्यनिर्णायकत्वादिति भावः । अत्रैवेति । वेदानां तात्पर्यपूर्वकं विष्णुवाचकत्वे 'ता वा एताः सर्वा ऋचः' इति वाक्यं सर्वा ऋच: 'सर्व वेदाः प्राणे' इति सामान्यत विष्णुविषयत्वमुक्त्वा एकैव व्याहृतिरिति अवयवार्थवत्वकथनात् । दध्नो मथनशब्दश्रेत्यादिकं तु गर्गरादिशब्दानां विष्णौ शक्तिप्रतिपादने प्रमाणम् ।
ननु गर्गरादिशब्दानां नादत्र्यंजकत्वमुक्तम् । कथं तद्विरुद्धं प्रमाणे अन्तर्नाद उच्यते इत्यत आह-अन्तर्नादोऽपीति ॥ दधिपात्रमध्ये जायमान इत्यर्थः । ननु अन्तर्नादस्य दधिमथनशब्दस्वरूपत्वं कथमित्यत आह-तद्व्यंजकत्वादिति । अन्तर्नादव्यंजकत्वात्तथाच दधिमथनशब्दैः तद्व्यंग्य अन्तर्नादः हरेर्भीषकत्वं वक्तीत्यर्थ उक्तो भवति । गजबृंहितमप्येवमिति मूलं योजयति-एवमिति ।। गजबृंहितं गजानां ध्वनिः एवमित्यस्यार्थोऽन्तर्नादव्यंजकमिति । धिक्कारसहितमित्यस्य विशेष्याकाङ्क्षायां पूर्वोक्तभीषकत्वमित्यनेनान्वयमाह-भीषकत्वमिति ॥
महामत्रमिति मूले स्थूलघट : जलदुग्धादिभिः पूरणकाले ध्वनिजनक: एतावन्मात्रस्य एतादृशमर्थं वदेदित्यनेनान्वये वाक्यार्थपूर्त्तेरभावात् यत्तच्छब्दाध्याहारेण एतादृशमित्यस्यावृत्या योजयति-यत एतादृशमिति । यतः स्वरितसहितान्तर्नादव्यंजकं तस्मात् धिक्कारसहितं भीषकत्वं वदेदित्यर्थः । तथा पादभूषा च नूपुरादिध्वनिः स्वरितः तत्सहितः । धिक्कारं तत्सहितं भीषकत्वम् । तत्कृतमित्यत्र पादभूषापरामर्शभ्रान्तिं वारयति -भगवत्कृतमिति ।। अभक्तानां धिक्कारं कृत्वा हरिः भीषयतीति वदेदित्यर्थः । तथाऽद्भुतत्वं च पिङ्गाकण्ठगशब्दवत् चकोरी गलस्थशब्दो यथा विष्णोर्वक्ति । एवं पादभूषापि स्वरिताभावे अद्भुतत्वं वक्तीत्यर्थः । परापीत्यस्य उत्तमार्थत्वभ्रान्तिनिवारणाय अन्यार्थत्वविवक्षया आह-परापीति ॥
मन्त्रार्थस्तु -गर्गरः पादभूषणादिनादः अब शनैः परि उच्चैः स्वरति शब्दंकरोति । गोधा गृहपल्ली अरण्यपल्ली सरटो वा । अवपरिसनिष्कणत् मन्दमुचैर्वा ध्वनिं करोति । पिङ्गा चकोरी । यत् अवपारि च । चनिष्कदत् । मन्दमुचैर्वा ध्वनिं करोति । एतत्त्रयं इन्द्राय । तादर्थे चतुर्थी | उद्यतं उत् उत्कर्षेण तत्प्रतिपादने यतं प्रवृत्तं यती प्रत्यत्न इत्यस्मात्पचाद्यच् । ब्रह्म वेदस्तु इन्द्राय उद्यतं उत् उत्कर्षात् उत्कर्षमभिप्रेत्य यतं प्रवृत्तम् । 'गुणोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्य नैव चान्यत्र सत्यम् । अवान्तरं तत्परत्व तदन्यत् ततो वेदास्तत्पराः सर्व एव ' इति श्रुतिरिति ।