न च सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावादीश्वराद्यसिद्धिः..

(लिङादिपदानामिष्टसाधनत्वातिरिक्तकार्यतार्थत्वनिरासः)

मूलम्

१३- मूलम्-न च सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावादीश्वराद्यसिद्धिः सिद्धातिरिक्तकार्याभावात् । लिङाद्यर्थस्त्विष्टसाधनत्वमेव । कर्तव्यत्वं नामेष्टसाधनत्वादन्यत्किञ्चिदस्ति । तन्मानाभावात् । शब्दस्तु न तद्वक्तीत्युक्तम् । लिङादेरिष्टसाधनार्थत्वेनैव कृतार्थत्वे तदन्यकार्यकल्पने कल्पनागौरवं च ॥

टीका

टीका-'महन्नाम यास्वृक्षु विद्यते' इत्यनेन महानाम्नीनां महागुणत्वेनेश्वरप्रतिपादकत्वमुक्तम् । तत्र प्राभाकरा आहुः । पदान्येव खल्वन्वितार्थाभिधायीनि वाक्यम् । तेषां च कार्यान्वितार्थ एव वाच्यवाचकभावावगमलक्षणा व्युत्पत्तिः प्राणमृन्मात्रसिद्धा । वृद्धप्रवृत्त्येक लिङ्गत्वात्तस्याः । प्रवृत्ते कार्यमात्रविषयत्वात् । न तु केवलसिद्धेऽर्थे तदुपायोऽस्तीत्यतः सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावान्न महानाम्रीभिरीवरादिकं सिध्यतीति । तदेतदुयति न चेति ॥ सिद्धेऽर्थे वाक्यस्य प्रामाण्याभावे विषयान्तराभावेन सर्वथाऽप्रामाण्यप्रसङ्गादिति शेषः । कार्ये प्रामाण्यसम्भवान्नायं प्रसंग: इति चेन्न । कुत इत्यत आह-सिद्धेति ॥ ननु कार्यं तावलिङादिप्रत्ययवाच्यम् । 'विधिनिमन्त्रण' इत्यादिस्मरणात् । न च सिद्धस्य लिङाद्यर्थताऽस्ति । तत्कथं सिद्धातिरिक्तकार्याभाव इत्यत आह-लिङ्गादिति ॥ न वयं सिद्धमात्रं कार्यं ब्रूमः । किन्त्विष्टसाधनत्वं सिद्धविशेषः कार्यत्वम् । तदेव धात्वर्थनिष्टं लिङाद्यर्थ: । धात्वर्थश्च तद्विशिष्टः कार्यमुच्यते । ननु त्रय एते धर्मा एकार्थसमवायिनः । कृतिसाध्यत्वं कुत्युद्देश्यत्वमिष्टसाधनत्वं चेति । तत्राद्वौ द्वौ सम्भूतौ कार्यत्वसंज्ञौ । प्रत्येकं कार्यबुद्ध्यनिमित्तत्वात् । तत्कर्तव्यत्वमेव लिङाद्यर्थः । इष्टसाधनत्वन्तु कृत्युद्देश्यतायां निमित्ततयैवावतिष्ठत इत्यत आह-न हीति ॥ कृतिसाध्यत्वस्येष्टसाधनतातिरिक्तत्वेऽपि कृत्युद्देश्यमन्यत्किमपि नास्ति किन्त्विच्छाप्रयत्नरूपोपाधी भिद्येते इति भावः । कुत इत्यत आह-तन्मानेति ।। तत् तत्र, धात्वर्थादाविष्टसाधनत्वातिरिक्तकृत्युद्देश्यत्वसद्भावे ।

ननु लिङादिशब्दस्तत्र प्रमाणमस्तीत्यत आह-शब्दस्त्विति ॥ इष्टसाधनत्वातिरिक्तं कर्तव्यत्वं लिङादिशब्दो न वक्तीति प्रतिज्ञामात्रं युष्माभिः कृतम् । न पुनः किमपि नियामकमुक्तम् । तत्कथं तदुपन्यासनिराकरणमित्यत आह- लिङादेरिति ॥ एतदुक्तं भवति । लिङादिः किमिष्टसाधनत्वं बोधयन्कार्यतां बोधयेद् अबोधयन्वा । द्वितीये कथमयमविदितेष्टसाधनत्व कार्यतां जानीयात् । कार्यताबोधस्येष्टसाधनताबोधकार्यतायाः किन्तु स्वयं क्लेशरूपम्' इत्यादिना परेणोक्तत्वात् । अन्यथा विषं भूम्क्ष्व इत्युक्तेऽपि कार्यताबोधप्रसङ्गात् । अन्यतस्त्विष्टसाधनताबोधे तत एव कार्यताबोधसम्भवेन लिङादेरनुवादकताप्रसङ्गात् । तस्मादाद्योऽङ्गीकार्यः । तत्र च परीक्षकेण शब्दस्य साधुतासिद्धयेऽर्थवत्तैव कल्पनीया । तत्र लिङादेः सम्प्रतिपन्नप्रमप्राप्तेष्टसाधनत्वार्थत्वेनैव कल्पकस्य कृतार्थत्वे क्षीणशक्तित्वे सति तदन्यकार्यस्य लिङाद्यर्थत्वकल्पने कल्पनागौरवं नियामकं चास्ति । न तु प्रतिज्ञामात्रमिति ॥

भावदीपः

(रा.टि) पदान्येव वाक्यमित्यत्र हेतुः–अन्वितार्थाभिधायीनीति कार्येति । कृतिसाध्यं यदानयनादि तदन्वितस्वार्थेष्वेवेत्यर्थः । प्रसिद्धेत्युक्तं व्यनक्ति- वृद्धेति ॥ कार्यमात्रेति । कृतिसाध्यमात्रेत्यर्थः । केवलेति ॥ कार्यानन्वितसिद्धेऽर्थ इत्यर्थः । 'सिद्धातिरिक्त' इत्युत्तरवाक्यघटना न चेत्याद्यर्थे स्वयं हेतुमाह-सिद्धेऽर्थे वाक्यस्येत्यादिना || लिङादिप्रत्यये लिङ्लोट्तव्यलेट्प्रत्ययेत्यर्थः । विधीति । 'विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्इति तृतीयाध्यायतृतीयपादीयसूत्रेण विध्याद्यर्थेषु लिङ विधानाद्विधेरेव कार्यत्वादिति भावः । किन्निष्ठं साधनत्वमित्यत आह-तदेवेति ।। यजेत, भुञ्जीत, इत्यादौ यागभोजनरूपधात्वर्थनिष्ठमित्यर्थः । इष्टसाधनत्वं लिङर्थो नेति वक्तुं शङ्कते-नन्विति ।। कृतिसाध्यत्वं कृतिनिष्पाद्यत्वम्, कृत्या इदं मेऽस्त्विति इच्छाविषयत्वं कृत्युद्देश्यत्वम् । तत्कर्तव्यत्वमिति ।। मिलितमेव कर्तव्यत्वं कार्यतेत्यर्थः । कृत्युद्देश्यत्वेष्ट-साधनत्वयोरनन्यत्वे तच्छब्दयोः पर्यायतापत्तिरितिभावेन पृच्छति-किन्त्विति ॥ इष्टसाधनत्वमिच्छोपाधिघटितम्, कृत्युद्देश्यत्वं प्रयत्नोपाधिघटितम्, इतीच्छाप्रयत्नोपाधी भिद्येते इत्यर्थः । धात्वर्थादाविति ॥ यजेत भुञ्जीतेत्यादिस्थयागभोजनादिधात्वर्थेत्यर्थः । अयमिति-पुरुषः । अविदितेत्यादी बहुव्रीहिः । बोधकार्यताया बोधकार्यत्वस्येत्यर्थः, परेणोक्तत्वादित्यन्वयः । कथमित्यत आह-किन्त्वित्यादिना ।। अयमर्थः । 'फलसाधनता नाम सा नैव हि कार्यता । कार्यता कृतिसाध्यत्वं फलसाधनता पुनः । कारणत्वं फलोत्पादे ते भिद्येते परस्परम्' इति पूर्वश्लोकेन कार्यतेष्टसाधनतयोर्भेदे प्रतिपादिते तर्हि सर्वथेष्टसाधनताया अनुपयोगः किम्? इति भावेन किन्त्विति प्रश्ने 'किन्तु स्वयं क्लेरूपं कर्म यत्कार्यतां व्रजेत् । फलसाधनता तत्र कारणं तेन कार्यता ।।' इत्यनेनोक्तत्वादिति । अन्यथा इष्टसाधनत्वाज्ञानेऽपि कार्यताज्ञान इत्यर्थः । अन्यतस्त्विति || लिङादेरन्यतः प्रमाणादित्यर्थः । अनुवादकतेति । अन्यतः प्रसिद्धकार्यताबोधकत्वादिति भावः । आद्य इति ।। इष्टसाधनतां बोधयन्नबोधयन् वेति पक्षद्वय इत्यर्थः । तत्रेति ।। इष्टसाधनताबोधे लिङादिनाऽङ्गीकार्ये सतीत्यर्थः । अर्थवत्तैवेति || न तु कार्यतादिरूपविशेष इत्यर्थः । तत्रेति ।। अर्थवत्तामात्रे कल्पनीये सतीत्यर्थः । मूलं योजयति-लिङादेरिति ॥ कल्पकस्येति ॥ साधुत्वस्येत्यर्थः । क्षीणशक्तिश्च इति कृतार्थत्वशब्दव्याख्या । चशब्दार्थो गौरवनियामकं चास्तीत्यादिना ॥

विवरणम्

(श्री.टि.) सिद्धार्थे वाक्यप्रामाण्यसमर्थनस्योत्तरत्र क्रियमाणस्यासङ्गत्तत्वप्रतीतेस्तद्वारणाय सङ्गतिमाह-महन्नामेति ॥ ननु मूले सिद्धेऽर्थे पदानां प्रामाण्याभावादिति वक्तव्ये वाक्यस्येति कथमुक्तमित्यत आह-पदान्येवेति ।। अन्वितेति ।। कार्यान्वित इत्यर्थः । तदुपपादयति-वृद्धेति ।। तस्या व्युत्पत्ते-वृद्धप्रवृत्त्येकलिङ्गकत्वादित्यर्थः । तथा हि-चैत्र जलमाहर इति प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य जलाहरणविषयां प्रवृत्तिं दृष्ट्वा प्रार्श्वस्थो बाल एवमाकलयति, अस्येयं प्रवृत्तिर्वृद्धिपूर्वा प्रवृत्तित्वान्मदीयस्तनपानादि-प्रवृत्तिवदिति । पुनश्चास्य प्रवृत्तिहेतुर्बुद्धिः किंविषयेति जिज्ञासायामेवं निश्चिनोति । वृद्धस्य प्रवृत्तिहेतुभूता बुद्धिर्मम प्रवृत्तिहेतुभूता बुद्धिर्यद्विषया तद्विषयैव भवितुमर्हति प्रवृत्तिहेतुभूतबुद्धित्वान्मदीयप्रवृत्तिहेतुभूतबुद्धिवदिति । पुनरेवमवधारयति यद्विषया सा बुद्धिः प्रवृत्तिहेतुभूता तद्वस्त्वस्यानेन शब्देन बोधितं तद्भावभावितत्वात् । मम तु प्रमाणान्तरेणेत्यावयोर्विशेषः । तेन योद्भोन्मम प्रवृत्तिस्तदनेन शब्देन बोधितमिति शब्दस्य प्रवृत्तिहेतुभूतार्थबोधकतेति । ननु कोऽसौ प्रवृत्तिहेतुभूतः शब्दबोध्योऽर्थ इत्यत आह-प्रवृतेति ॥ कार्यमात्रविषयत्वात् कार्यताज्ञानसाध्यत्वादित्यर्थः । तथाहि-प्रवृत्तिहेतुभूतः शब्दबोध्योऽर्थः क इत्यवधारयितुं स्वात्मनि प्रतिपन्नप्रवृत्तिहेतु-वा बुद्ध्वा प्रवृत्तः । किन्तु कार्यमेव । ममेदं कार्यमिति प्रतीत्य हि भूतार्थमनुसन्धत्ते । तत्र न तावदहं क्रियामात्रं फलमात्रं क्रियाफलसम्बन्धमात्रं स्तनपानादावहं प्रवृत्त इति स्वप्रवृत्तेः कार्यताबोधपूर्वकतां निश्चित्यायमपि कार्यबोधादेव प्रवृत्त इत्यनुमाय वाक्यस्य सामान्यतः कार्यपरतामवधारयति । ततो लिङ्गाद्यवापे कार्यावगमदर्शनात् । तदुद्धारे चादर्शनालिङादयः कार्यतावगतिं कुर्वन्तीत्येवं पदानां कार्यान्वित एव व्युत्पत्तिरिति भावः ।

केवलसिद्धेऽर्थे कार्यानन्विते कार्यातिरिक्ते चेत्यर्थः । तदुपायो ।। प्रमाणान्तरसिद्धार्थबोधकत्वे व्युत्पत्त्युपायः । प्रामाण्याभावादिति अनधिगतार्थगन्तुत्वाख्यप्रमाणलक्षणाभावादिति भावः । कुतो न चेत्याशङ्कायां वाक्यशेषमाह-सिद्धेऽर्थ इति ।। विषयान्तरेति ।। प्रतिपाद्यान्तरेत्यर्थः । कार्य इति ।। तथा च विषयान्तराभावोऽसिद्ध इत्यर्थः । विधिनिमन्त्रणेत्यादीति ॥विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्' ‘लोट् च' । विधिः कर्तव्यार्थोपदेशः । निमन्त्रणं नियोगकरणम्, आमन्त्रणं कामचारकरणम्, अधीष्टः सत्कारपूर्वको व्यापारः, सम्प्रश्नः प्रार्थनं याञ्चा, एष्वर्थेषु धातोर्लिङ् लोट् च स्यादिति विध्यादी लिङो विधानात्कार्यस्य च कर्तव्यार्थोपदेशरूपत्वेन विधित्वाल्लिङादिवाच्यत्वमित्यर्थः । न चेति । तथात्वे लिङादेरनुवादकता-प्रसङ्ग इति भावः । सिद्धमात्रमिति ॥ अहिकण्टकतृणादिरूपमित्यर्थः । इष्टसाधनत्वम् इष्टसाधनत्वाख्यः । तदेव इष्टसाधनत्वमेव । धात्वर्थो यागादिः । तद्विशिष्टो लिङाद्यर्थभूतेष्टसाधनत्वविशिष्टः । इष्टसाधनत्वस्य कृतिसाध्यत्वे सति कृत्युद्देश्यत्वाख्यलिङ्वाच्यकार्यतानुमापकत्वाज्ज्ञाप्यज्ञापकयोरभेदायोगादित्या शंकते नन्विति ॥ सम्भूती मिलितौ । कुत इत्यत आह-प्रत्येकमिति ॥ विषभक्षणादौ तक्षकचूडामण्यादौ प्रत्येकं कृतिसाध्यत्वकृत्युद्देश्यत्वयोः सत्वेऽपि कार्यताबुद्ध्यभावादिति भावः । कार्येति । कार्यतेत्यर्थः । तत्कर्तव्यत्वमेवेति || तच्च तत्कर्तव्यत्वं चेति विग्रहः । कृतिसाध्यत्वे सति कृत्युद्देश्यत्वरूपं कार्यत्वमित्यर्थः । तस्मादिति वा । निमित्ततयैवेति || ज्ञापकतयेत्यर्थः ।किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् । फलसाधनता तत्र कारणं तेन कार्यता ।।' इत्युक्तेः । श्लोके कार्यता अनुमेयेति शेषः । तथा च गम्यगमकयोर्भेदस्याऽवश्यकतया नेष्टसाधनत्वं लिङाद्यर्थभूतकार्यत्वमिति भावः । कृतिसाध्यत्वस्येति ।। चन्द्रमण्डलादाविष्टसाधनत्वसत्त्वेऽपि कृतिसाध्यत्वाभावात् कृंतिसाध्यत्वस्य विषभक्षणादौ सत्त्वेऽपीष्टसाधनत्वाभावेन विरुद्धतया न तयोरैक्यमित्यर्थः । अन्यदिति । इष्टसाधनादन्यदित्यर्थः । तथा चेष्टसाधनकृत्युद्देश्ययोरैक्येन कृत्युद्देदयत्वेष्टसाधनत्वयोरप्यैक्यमेवेति गम्यगमकभाव एवायुक्त इति भावः । इच्छेति ।। इष्टसाधनत्वकृत्युद्देश्यत्वघटकेच्छाप्रयत्नरूपोपाधी एव भिद्येते न तु तद्घटितधर्मा इत्यर्थः ।

ननु विरुद्धमेतत् । इच्छाप्रयत्नरूपोपाध्योर्भेदे तदुपहितधर्मयोरिष्टसाधनत्वकृत्युद्देश्यत्वयोरपि भेद एव प्राप्तो नैक्यमिति चेदुच्यते । अस्त्यत्राभिप्रायविशेषः । कृत्युद्देश्यत्वं द्विविधं मुख्यममुख्यं च । इष्टसाधनमित्यत्रापीष्टसाधनमिति विवक्षितम् । मुख्यं कृत्युद्देश्यं फलं तदेव चेष्टम् । अमुख्यं कृत्युद्देश्यम् अमुख्यकृतिप्रयोजनं यागादि । एवं च यागादावमुख्यकृत्युद्देश्यत्वं नामेष्टसाधनत्वमेव नान्यदस्ति । यथोक्तं सुधायाम्द्विविधं हि कृत्युद्देश्यं मुख्यममुख्यं च । तत्रेष्टसाधनत्वादिति विवक्षितकार्यव्याख्यानं लौकिकानाम्' इति । एवमिष्टसाधनत्वस्यामुख्यकृत्युद्देश्यत्वव्याख्यानरूपत्वस्योक्तत्वात् । नन्विदमप्ययुक्तम् । प्रयत्नरूपोपाधिघटितामुख्यकृत्युद्देश्यत्वमिच्छारूपोपाधिघटितेष्टसाधनत्वरूपधर्मेण व्याख्याय तयोरभेदकथनमदृष्टत्वादयुक्तमिति चेन्न । उपाध्यन्तरघटितमनिर्वचनीयत्वं कृत्वा तयोरभेदकथनस्य शाखे बहुशो दर्शनात् । यथा हि-अनिर्वचनीयत्वं सदसद्विलक्षणत्वं चैकम् । तत्र यद्यपि निर्वचनरूपोपाधिघटितमनिर्वचनीयत्वं सदसदादिरूपोपाधिघटितं सदसद्वैलक्षण्यम् । तथापि सदसद्वैलक्षण्यमित्यनिर्वचनीयत्वं व्याख्याय सदसद्वैलक्षण्यमेवानिर्वचनीयत्वमिति तयोरभेदव्यवहारदर्शनादतोऽत्रेच्छाप्रयत्नरूपोपाध्योर्भेदेऽपीच्छाघटितधर्मेण प्रयत्नघटितधर्मं व्याख्याय तयोरभेदकथनस्य युक्तत्वादिति नात्र क्षुद्रोपद्रव इत्याहुः ।

मूलं व्याकुर्वन्नेवोत्तरवाक्यमवतारयति-इष्टेति । तदुपन्यासेति ॥ इष्टसाधनत्वातिरिक्तकृत्युद्देश्यत्वसद्भावे प्रमाणत्वेन परकृतलिङादिशब्दोपन्यासेत्यर्थः । कार्यताया जन्यताया इत्यर्थः । किन्त्विति ॥ किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् । फलसाधनता तत्र कारणं तेन कार्यता ||' इति श्लोके इष्टसाधनत्वेन कार्यताऽनुमेयेत्युक्तत्वादित्यर्थः । अन्यथेति ॥ कार्यताबोधस्येष्टसाधनताबोधकार्यत्वानङ्गीकारे ।  इष्टसाधनतामवबोधयन्नेव कार्यतां बोधयतीति पक्षे कथमविदितेष्टसाधनत्वः कार्यतां जानीयादित्युक्तमयुक्तम् । इष्टसाधनताबोधस्य लिङादिपदादजायमानत्वेऽपि प्रमाणान्तरेण सम्भवादित्यत आह-अन्यस्त्विति ।। प्रमाणान्तरेणेत्यर्थः । प्रमाणान्तरादेव । अनुवादकतेति ।। प्रमाणान्तरसिद्धकार्यताबोधकत्वादित्यर्थः । अर्थवत्तेति ।। न्यायप्राप्तो योऽर्थस्तद्वत्तेत्यर्थः । को वा न्यायप्राप्तोऽर्थः? य: कल्पनीय इत्यतो मूलं योजयति-तत्रेत्यादिना ॥ सम्प्रतिपन्नेति । कार्यताज्ञापकत्वाङ्गीकारेण तव सम्प्रतिपन्नत्वादित्यर्थः । प्रथमेति ॥ इष्टसाधनतां बोधयन् कार्यतां बोधयतीत्यङ्गीकारेणेष्टसाधनत्वं प्रथमप्राप्तमित्यर्थः । कल्पकस्य लिङ्गादेः । कृतार्थत्व इत्यनूद्य क्षीणशक्तित्वे सतीति व्याख्यातम् । तदन्येति || इष्टसाधनत्वाख्यकृत्युद्देश्यत्वान्यकृतिसाध्यत्वस्यापीत्यर्थः । अनेन 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे' इति न्याय: सुवचो भवति । अयं भावः । तार्किकेण जातिविशिष्टव्यक्तौ शक्तिरित्युक्तौ मीमांसकेन त्वया न जातिविशिष्टव्यक्तौ शक्तिः किं नाम जातावेव । 'नागृहीतविशेषणा बुद्धिर्विशेष्ये प्रवर्तते', 'विशेष्यं नामिधा गच्छेत्क्षीणशक्तिर्विशेषणे' इति न्यायात् प्रथमोपस्थितत्वाच्च । व्यक्तिलाभस्त्वाक्षेपात् । इति यथा तार्किकं प्रति त्वयोपपादनं क्रियते तथा वयमपि त्वां प्रति त्वद्रीत्यैवोपपादयाम इति । नियामकं चास्तीति । तथा च कल्पनागौरवरूपनियामकस्य नियामकान्तरेण समुच्चयाभावेऽपि प्रतिज्ञया सह समुच्चायको मूले चशब्द इति ध्येयम् । किञ्च कृतिसाध्यत्वस्य न लिङाद्यर्थत्वम् । अनन्यलभ्यो हि शब्दार्थः । तत्र कृतिसाध्यत्वं नाम कृतिजन्यत्वम् । तच्चान्वयव्यतिरेकसहकृतप्रत्यक्षेणैव पूर्वं ज्ञातमिति लिङादिशब्दस्य तदर्थकत्वेऽनुवादकत्वप्रसङ्गान्न कृतिसाध्यत्वं लिङर्थः । कालान्तरभावीष्टं प्रति साधनत्वं तु प्राङ् न शब्दातिरिक्तप्रमाणगम्यमिति तदर्थकत्वे लिङादेर्नानुवादत्वमित्यर्थ इत्यप्याहुः ॥

कर्मप्रकाशः

(स.टि) ईश्वरप्रतिपादकत्वमिति ॥ स्वप्राधान्येनेश्वरप्रतिपादकत्वं नत्वन्यशेषतयेत्युक्तप्रायमित्यर्थः । तत्र प्राभाकरा इति । प्राधान्येनेश्वरप्रतिपादकत्वे प्राभाकरा बाधकमाहुरित्यर्थः । वृद्धप्रवृत्तीति ।। प्रयोज्यवृद्ध-प्रवृत्त्येकलिङ्गत्वादित्यर्थः । तदुपायोऽस्तीति ॥ व्युत्पत्युपायोऽस्तीत्यर्थः । अत इति ।। संज्ञैषा पूर्वाचार्यस्य नियोगविषयादन्यस्य घटादेः सिद्ध इति । सिद्धेऽर्थे च वाक्यस्य स्वप्राधान्येन ज्ञापकत्वाभावात् महानाम्नीभिर्नेश्वरादिः स्वप्राधान्येन सिद्ध्यतीति । एतेन वाक्येन सृक्-स्रुव-वह्न्यादेः सिद्धेर्दर्शनात् सिद्धेऽर्थे प्रामाण्याभावादित्यनुपपन्नमिति परास्तम् कार्यशेषतया प्रामाण्यमङ्गीकृत्य स्वप्राधान्येन सिद्धे प्रामाण्यनिरासात् ।

विषयान्तराभावेनेति । ईश्वरस्य कार्यशेषत्वाभावात्सिद्धपदानां कार्यान्वितः स्वार्थो विषय इति त्वदभिमतविषयान्तरालाभेन सर्वथा अप्रामाण्यप्रसङ्गादित्यर्थः । एतेन ईश्वराद्यसिद्धिर्न चेति प्रतिज्ञा सिद्धेऽर्थे प्रामाण्यभावे सति त्वदभिमतविषयान्तरालाभेन सर्वथा अप्रामाण्यप्रसङ्गादिति हेतुरिति मूलयोजनोक्ता भवति । सिद्धातिरिक्तकार्याभावादिति मूलस्यापूर्णत्वात् ततः पूर्वं वक्तव्यमाह-कार्येति ॥ कार्यान्विते प्रामाण्यसम्भवात् विषयान्तरालाभात् अप्रामाण्यमिति अतिप्रसङ्गो नेत्यर्थः ।

मूले सिद्धातिरिक्तेति ॥ ' द्यावा भूमी जनयन् देव एकः' इत्यादिवाक्ये अन्वीयमानस्य सिद्धपरपदार्थातिरिक्तस्य कार्यस्याभावात् । कार्यान्विते प्रामाण्यमिति नेत्यर्थः । एतेन सिद्धातिरिक्तकार्यस्य गामानयेत्यादौ सद्भावात्कार्याभाव इत्युक्तमिति परास्तम् । केवलसिद्धपरवाक्येषु हससि अपूपं भक्षसि इत्यादाविव कार्याभावस्येहोक्तत्वात् ।

ननु नेश्वरप्रतिपादकवाक्ये कार्याभावः । तस्य यागादिविधायकवाक्येनैकवाक्यताङ्गीकारात् । विधिवाक्ये च विधिपरत्वेन कार्यस्योक्तत्वादिति भावेन शङ्कते-नन्विति ।। न च सिद्धस्येति । विधिवाक्येषु सिद्धस्य लिङ्वाच्यता तावन्नास्ति लिङादिव्युत्पादक 'विधिनिमन्त्रणे 'ति स्मृतिविरोधात् । ततश्च तेन वाक्येनैकवाक्यतया ईश्वरस्वरूपपरवाक्यानां कार्यान्विते स्वार्थे प्रामाण्यसम्भवात्कथम् ईश्वरपरवाक्येषु अन्वययोग्यस्य कार्यस्याभाव इत्यर्थः मूले लिङाद्यर्थस्त्विष्टसाधनमेवेति ॥ लिङ्लोट्तव्यप्रत्ययार्थः इष्ट-साधनत्वमेव न कार्यत्वम् । ततश्चेश्वरवाक्यानां विधिवाक्येनैकवाक्यतामापाद्य लिङर्थान्वयेन सिद्धार्थवाक्यानां कार्यान्वितस्वार्थपरत्वव्युत्पादनमयुक्तमित्यर्थः । यद्यपि ' द्यावा भूमी जनयन्' इत्यादिवाक्यानां विधिवाक्यानां विधिवाक्येनैकवाक्यता नास्ति इति समाधातुं शक्यम् । तथापि शिष्याणां लिङर्थज्ञानाय समाधानान्तरमुक्तमिति ज्ञेयम् ।

ननु इष्टसाधनत्वमेव लिङर्थश्चेत् ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यनेन यागमिष्टसाधनमिति बोधजननात् ज्योतिष्टोमेनेति तृतीयान्तपदं स्वर्गकाम इति प्रथमान्तं च पदमनन्वितं स्यात् । किंचानभिहित इत्यधिकृत्य कर्तृकरणयोस्तृतीयेति तृतीयाविधानात् प्रकृते च लिङा इष्टसाधनत्वस्याभिधानात् कर्तुरनभिधानात् । ज्योतिष्टोमेनेत्यत्र तृतीया न स्यात् स्वर्गकाम इत्यत्र तृतीया स्यादिति चेत् । उच्यते । लिङादिपदानां द्वे शक्ती । एका इष्टसाधनत्वे अपरा करोत्यर्थरूपायां भावनायाम् । तत्राद्यायाः शक्तेः विधिप्रत्ययत्वमननुगतं लिङत्वादिकं वाऽवच्छेदकम् । द्वितीयायास्त्वाख्यातत्वमवच्छेदकम् । तत्र द्वे शक्ती सम्भूय ज्योतिष्ठोमनामकेनेष्टसाधनेन यागेन स्वर्गकाम इष्टं भावयेदिति बोधं जनयतः । ततश्च न ज्योतिष्ठोमेनेत्यस्य स्वर्गकाम इत्यस्य चानन्वयदोषः । आख्यातत्वावच्छिन्नया शक्त्या अनभिहिते कर्त्रादौ कर्तृकरणयोस्तृतीयेति तृतीयाविधानात् करणत्वस्य विधित्वावच्छिन्नया शक्त्या अभिधानेष्वाख्यातत्वावच्छिन्नशक्त्याऽनभिधानात् प्रत्युत कर्तुरभिधानात् ज्योतिष्ठोमेनेत्यत्र तृतीया स्वर्गकाम इत्यत्र प्रथमा चोपपन्ना । कार्यता विधिप्रत्ययत्वावच्छिन्नशक्या लिङाद्यर्थो नेत्येव दृष्यते परेण विधिप्रत्ययत्वावच्छिन्नशक्त्या कार्यता लिङादिनोच्यत इत्येवाभिधानात् । आख्यातत्वावच्छिन्नशक्त्या तु भावनारूपकार्यता लिङादिनोच्यत इत्यङ्गीक्रियते एवेति न कश्चिद्दोषः ।

ननु लिङाद्यर्थस्त्विष्टसाधनत्वमेवेत्ययुक्तम् सिद्धातिरिक्तकार्याभावादिति वदता सिद्धमात्रस्य कार्यत्वाभिधानेन यावत्सिद्धानुगतस्य कार्यत्वशब्दवाच्यस्य लिङाद्यर्थस्य वक्तव्यत्वात् । तथासत्येव सिद्धमात्रस्य कार्यत्वं समर्थितं स्यात् । । अन्यथा इष्टसाधनस्य धात्वर्थस्यैव इष्टसाधनत्वाधिकरणत्वात् कार्यत्वं स्यादिति मन्दाशङ्का निरासायाहटिकायां न वयमिति । अत्र भाव इत्युच्छिन्नं ग्राह्यम् । न वयं सिद्धमात्रं कार्यं ब्रूमः येन सर्वसिद्धानुगतलिङाद्यर्थो वक्तव्यः स्यात् । किन्तु सिद्धविशेषः धात्वर्थः कार्यमित्यस्माभिरुच्यत इत्यन्वयः । किं कार्यं कथं च धात्वर्थः कार्यमित्यत उक्तं इष्टसाधनत्वं कार्यत्वं तद्विशिष्ट: धात्वर्थश्च कार्यमिति इष्टसाधनत्वस्य कार्यत्वसिध्यर्थं तदेव धात्वर्थनिष्ठलिङाद्यर्थं इत्युक्तमिति बोध्यम् ।

इष्टसाधनस्य कार्यत्वमाक्षिपति नन्विति ॥ मूले न हि कर्तव्यत्वं नामेष्टसाधनत्वादन्यत्किंचिदिति । इष्टसाधनत्वादन्यत्किंचित् कृतिसाध्यत्वे सति | कृत्युद्देश्यत्वं कर्तव्यत्वं नाम कार्यशब्दवाच्यं न हि भवति । विधिप्रत्ययेन इष्टसाधनत्वबोधात् कृतिसाध्यत्वे सति कृत्युद्देश्यत्वस्याबोधादित्यर्थः विधिप्रत्ययश्रवणे इष्टसाधनत्वं ज्ञायते । न पुनः कृतिसाध्यत्वे सति कृत्युद्देश्यत्वम् । कृतिसाध्यताज्ञानस्यानुमानजन्यत्वात् । स्वनिष्ठद्रव्यसम्पत्तिं शरीरबलम् अभिजनसम्पत्तिं च राजाद्युपद्रवाभावमालोच्य मत्कृतिसाध्यमि जना: जानन्ति इति सर्वलोकानुभवात् । कृत्युद्देश्यताज्ञानस्य तदिच्छासाध्यत्वस्यानुभवाच्च । न हि तत्रेच्छाभावे अनेकविधिप्रत्ययोच्चारणेऽपि इदं मत्कृत्युद्देश्यमिति ज्ञानमुदेतीत्यस्यानुभवसिद्धत्वाच्चेति भावः ।

एतेन कृतिसाध्यत्वे सति कृत्युद्देश्यत्वस्य इष्टसाधनत्वाद्भिन्नत्वेन सिद्धत्वात् इष्टसाधनत्वातिरिक्तं कृत्युद्देश्यत्वं नास्तीति भेदनिराकरणमनुपपन्नमिति परास्तम् । कृतिसाध्यत्वे सति कृत्युद्देश्यत्वस्य लिङ्बोध्यत्वनिराकरणे तात्पर्येणेष्टसाधनताभेदनिराकरणे तात्पर्याभावात् ।

एतन्मूलटीकायां श्रूयमाणं 'कृतिसाध्यत्वस्यैष्टसाधनत्वातिरिक्तत्वेऽपि तदुद्देश्यत्वमन्यत्किमपि नास्ति । किन्तु इच्छाप्रत्यत्नरूपोपाधिर्भिद्यत इति भावः' । इति वाक्यं प्रक्षिप्तम् । न टीकावाक्यम् । एतन्मूलव्याख्यानमुच्छिन्नम् । अवश्यं चैतदेवं विज्ञेयम् । कृतिसाध्यत्वे सति कृत्युद्देश्यत्वमिष्टसाधनत्वाद्भिन्नमेवेति शङ्कोत्तरत्वेन मूलमवतार्य कृतिसाध्यत्वमात्रस्य भेदमङ्गीकृत्य कृत्युद्देश्यत्वस्य भेदनिराकरणपरतया व्याख्यानस्यायुक्तत्वात् । न हि विशिष्टं भिन्नमिति शङ्किते एकदेशेन भिन्न इत्युत्तरं सङ्गतम् । येनेदं व्याख्यानं युक्तं स्यात् । इच्छाप्रयत्नरूपोपाध्योर्भेदवचनस्यासङ्गतत्वाच्च । घटकयोरुपाध्योर्भेदे घटकपदार्थयोः कृत्युद्देश्यत्वेष्टसाधनत्वयोः विभिन्नोपाधि घटितपाचकत्वपाठकत्वयोरिव भेदस्यावश्यकत्वाच्च । इष्टसाधनत्वानधिकरणे इष्टे वर्तमानस्य कृत्युद्देश्यत्वस्य तद्भेदावप्यम्भावाच्च । उत्सन्नं तु व्याख्यानमस्मत्कृतव्याख्यानवदेवासीदिति बोध्यम् ।।

ननु कृत्युद्देश्यत्वस्येष्टसाधनत्वाद्भेदकधर्मं सुधाविरुद्धम् । ननु कृतिसाध्यं यत्कार्यमभिधीयते इति परोदीरितं कार्यलक्षणं कुतो न शङ्कितमिति चेत् । अनेनैव गतत्वात् । तथा हि किमिदं प्रत्येकं लक्षणमुत मिलितम् । आद्ये कृतिसाध्यत्वस्योक्तो दोषः । 'कार्यं न हि क्रियाव्याप्यम्' इति कृतिप्रधान्यं किमुच्यते । प्रयत्नोद्देश्यत्वमिति चेत् तत्किं मुख्यमुतामुख्यम् । आद्यं त्विष्टमेव। द्वितीयन्त्विष्टसाधनत्वमेवेत्यङ्गीकृतमेव  न द्वितीयः । कृतिसाध्यताविशेषणस्य व्यर्थत्वादिति मुख्यकृत्युद्देश्यत्वस्येष्टत्वेनामुख्यकृत्युद्देश्यत्वस्येष्टसाधनत्वेन भेदाभिधानादिति चेन्न । सुधार्थापरिज्ञानात् । तथा हि । कृतिसाध्यत्वे सति प्रधानत्वं यत्कार्यमिति परोदीरितं लक्षणं कुतो न दूषितमिति चेदित्यन्तेन ग्रन्थेनाशङ्कय तदुत्तरमाह-अनेनैव गतत्वादिति ॥ स्वोत्प्रेक्षितलक्षणदूषणेनैव परोक्तस्यापि दूषितत्वादित्यर्थः ।

परोक्तिबलेनाखण्डमेवेदं लक्षणमिति पक्षस्य विशेषणवैय्यर्थ्यात्प्रत्येकमेव लक्षणमिति पक्षस्य प्राप्तेः निर्णायकाभावात् पृच्छति । किमिदमिति ॥ आद्य इति ।। प्रत्येकं लक्षणमिति पक्षो दृष्टः । कृतिसाध्यत्वं कार्यत्वमिति लक्षणे 'कार्यं न हि क्रियाव्याप्यं' इति मूलेन दोषस्योक्तत्वादित्यर्थः । द्वितीयं तु लक्षणं निर्धारयितुं पृच्छति-कृतिप्राधान्यमिति ॥

द्यं त्विति ॥ अभेदोपचारीऽयम् । तथा च यथा इष्टत्वं न विध्यर्थः तथा मुख्यकृत्युद्देश्यत्वमपि न विध्यर्थः । इष्टत्वतुल्ययोगक्षेमत्वादिति भावः ।द्वितीयं त्विति ॥ अयमप्यभेदोपाचारः अमुख्यकृत्युद्देश्यत्वमिष्टसाधनत्वमेव । इष्टसाधनत्वसमानाधिकरणमेवेत्यङ्गीकृतमित्यर्थः । ' यद्यप्यमुख्यं कृत्युद्देश्यत्वं न विध्यर्थः तथापि विध्यर्थेष्टसाधनत्वसमनियतत्वाद्विध्यर्थत्वभ्रमः' इति सुधार्थः । अवश्यं चैवं सुधार्थः प्रतिपत्तव्यः । कृत्युद्देश्यत्वेष्टसाधनत्वयोर्भेदस्य सर्वानुभवसिद्धत्वात् । तत्र धात्वर्थादाविति ॥ इष्टसाधनत्वातिरिक्तलिङ्गबोध्यकृत्युद्देश्यत्वसद्भाव इत्यर्थः । यजेतेत्यादौ इष्टसाधनत्वं धात्वर्धनिष्ठतया लिङ्गादिना बोध्यते । धात्वर्थनिष्ठं कृत्युद्देश्यत्वं लिङ्गादिना बोध्यते इत्यत्र न किञ्चिन्मानमिति भावः । एतेन धात्वर्थदाविष्टसाधनत्वातिरिक्तकृत्युद्देश्यत्वस्य प्रामाणिकत्वात् तत्र मानाभावकथनमनुपपन्नमिति परास्तम् ।

ननु लिङ्गादिशब्दस्तावत्साधुः । साधुत्वं सार्थकत्वेन विनाऽनुपपन्नम् । अर्थान्तरासंभवात् । कार्यतावाचित्वमेव गमयतीति भावेन शङ्कते । ननु लिङ्गादीति ॥ एतेन लिङ्गादीनां कार्यतावाचित्वे किं प्रमाणमिति प्रश्ने अर्थापत्तिर्वा निगमनिरुक्तव्याकरणादिर्वा वक्तव्यः । लिङ्गादिरेव प्रमाणमित्युक्तिस्तु अनुपपन्ना । तस्य वाच्यवाचकभावसम्बन्धाग्राहकत्वादिति परास्तम् । लिङ्गादिसाधुत्वस्यार्थापत्तिविधयोपन्यासात् ।

नन्विष्टसाधनार्थत्वेनैव कृतार्थत्वे तदन्यकार्यकल्पने कल्पनागौरवमित्युक्तम् । वैपरीत्यस्यापि वक्तुं शक्यत्वादित्यत आह-एतदुक्तं भवतीति । इष्टसाधनतां कार्यं चेति इयमपि बोधयति उत कार्यतामेवेत्यर्थः । इष्टसाधनताम् न बोधयति कार्यतामेव बोधयति इति द्वितीयपक्षं दूषयति-द्वितीय इति । अत्र द्वितीय इत्यतः परं श्रूयमाणं 'कथमविदितेष्टसाधनत्वं कार्यतां जानीयात् । कार्यताबोधस्येष्टसाधनतावोधकार्यतायाः किन्तु स्वयं क्लेशरूपं किमित्यादिना परेणैवोक्तत्वात् । अन्यथा विषं भुङ्खेत्युक्तेऽपि कार्यताबोधप्रसङ्गात् । अन्यतस्त्विष्टसाधनतावोधे तत एव कार्यताबोधसम्भवेन लिङ्गादेरनुवादकताप्रसङ्गात्' इति वाक्यजातं प्रक्षिप्तं, न टीकावाक्यम् । द्वितीय इत्यतः परम् 'अनुभवविरोध: लिङ्गादिश्रवणानन्तरं श्रोत्रा ममेदमिष्टसाधनमित्ययमाहेत्युच्यमानत्वादित्युच्छिन्नम् । ततश्चैवं टीकावाक्यपाठ: । 'द्वितीयेऽनुभवविरोध: ' लिङ्गादिश्रवणानन्तरं श्रोत्रा ममेदमिष्टसाधनमित्ययमाहेत्युच्यमानत्वात् । तस्मादाद्योऽङ्गीकार्य इति ।। अवश्यं चैतदेवं विज्ञेयम् । लिङ्गादेरिष्टसाधनताबोधकत्वाभावेऽपि कार्यतावाचकलिङ्गादेरेव कार्यताबोधकत्वसम्भवेन कथं जानीयादित्याक्षेपायोगात् । अन्यथा वह्निशब्देनाऽपि वह्निबोधो न स्यात् । तस्य धूमाबोधकत्वात् । परेण अनुमितिरूपकार्यताज्ञानस्येष्टसाधनताज्ञानकार्यत्वाभिधानेऽपि शब्दाबोधस्य तत्कार्यताया अनभिधानेन परेणैव कार्यताज्ञानस्येष्टसाधनताबोधकार्यताया अभिधानादित्युक्त्ययोगात् । 'किं तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् । फलसाधनता तत्र कारणं तेन कार्यता' इति श्लोकस्य स्वयं क्लेशरूपं अनुष्टानसमये क्लेशजनकं कर्म कार्यतां कृत्युद्देश्यतां व्रजेदिति यावत् । तत्र फलसाधनता कारणम् । तेन कारणमेव कार्यता भवतीत्यर्थकत्वेन कार्यताज्ञानस्य इष्टसाधनताज्ञानं कारणमित्यर्थकत्वाभावात् इत्यादिना परेणैवोक्तत्वादिति । अस्यायोगाच्च । विषं भुङ्खेत्यादौ प्रथमतः कार्यताबोधो भवति । अनिष्टसाधनत्वानुसन्धानात् कार्यताबोधो विनश्यतीत्यङ्गीकारेण कार्यताबोधप्रसङ्गस्येष्टापादनत्वात् । इष्टसाधनतायाः लिङ्गर्थत्वपक्षेऽपि विषं भुम्क्तेत्यादावपि इष्टसाधनताबोधप्रसङ्ग इत्यपि वक्तुं शक्यत्वाच्च लिङ्गादेरिष्टसाधनत्वार्थकत्वपक्षे अन्यथा इष्टसाधनताबोधे लिङ्गादेरनुवादकताप्रसङ्ग इति वक्तुं शक्यत्वेन कार्यताबोधकत्वपक्षेऽनुवादकत्वप्रसङ्गाभिधानायोगाच्चेति ।तस्मादाद्य इति ॥ इष्टसाधनतां कार्यत्वं च लिङ्गादिना बोधयतीति पक्षोऽङ्गीकार्य इत्यर्थः ।

कल्पकस्येति ॥ साधुशब्दत्वरूपकल्पकस्य कृतार्थत्व इत्यर्थः । विप्रतिपत्तौ चान्यन्मानं वक्तव्यम् । 'तद्भाव' इत्येतन्मूलेऽवतारिकायां श्रूयमाणानि अङ्गीकृत्य चेदं नियामकमुक्तम् । 'वस्तुतस्त्वस्मिन्प्रसङ्गे परेणेष्टसाधनत्वातिरक्तकार्याभावे शब्दादन्यदेव मानं वक्तव्यम् । न तु शब्दः । तस्य तद्वाचित्वे विप्रतिपत्तेः । अन्यथाशब्दातिरिक्तकार्यवाचित्वे सिद्धे तद्बलादतिरिक्तकार्यासिद्धिः । तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयताप्रसङ्गात् । तथैव प्रमेयस्य प्रस्तुतत्वादित्याशयवानाह' इत्येतानि वाक्यानि प्रक्षिप्तानि । न टीकावाक्यानि । उपन्यस्तस्य साधुत्वस्यान्यथोपपन्नत्वान्मानान्तराभावाच्च स्यादेव लिङ्गादीनां कार्यतावाचकत्वमित्याशयवानाहेत्युच्छिन्नम् ।

अवश्यं चैतदेवं । विज्ञेयम् । इष्टसाधनत्वातिरिक्तं कर्तव्यत्वं लिङ्गादिशब्देन वक्तीत्याज्ञामात्रं युष्माभिः कृतम् । न पुनः किमपि नियामकमुक्तमित्यस्मदुक्तसाधुत्वानुपपत्तिरूपार्थापत्तिनिराकरणं कथमित्याक्षेपनिराकरणायार्थापत्तेर्बाधितविषयत्वं वक्तुमुक्तनियामकस्यावश्यं वक्तव्यत्वेनाङ्गीकारवादत्वोक्त्ययोगात् । कार्यताया लिङ्गवाच्यत्वमेव । विप्रतिपत्तेः सद्भावेन तत्रैव मानस्य वक्तव्यत्वेन कार्यतासद्भावे मानस्य अवक्तव्यत्वात् । कृत्युद्देश्यत्वरूपकार्यत्वस्योभयवादिसिद्धत्वात् । न च कार्यताया उभयवादिसिद्धत्वेऽपि इष्टसाधनत्वाभेदे विप्रतिपत्तिरिति युक्तम् । इष्टसाधनतायाः लिङवाच्यत्वमङ्गीकुर्वता तदभिन्नतायाः कार्यतया अपि वाचकत्वस्याङ्गीकर्तव्यत्वेन शब्दस्तु न तद्वक्तीत्युक्तमिति पूर्ववचनस्यायुक्तत्वापातात् । इच्छाकृतिरूपविभिन्नोपाधिघटितयोरिष्टसाधनत्वकृत्युद्देश्यत्वयोर्भेदस्यावश्यकत्वाच्च । अतिरिक्तकार्यतासिद्धेरनपेक्षितत्वेन अन्योन्याश्रयाभिधानायोगाच्च । भेदस्य विरुद्धधर्मदर्शनगम्यत्वेन लिङ्गादिना अतिरिक्तकार्यतासिद्ध्यभिधानायोगाच्च । न महानाम्नीभिः स्वप्राधान्येनेश्वरसिद्धिः । शब्दमात्रस्य कार्यतापरत्वादित्येव प्रमेयस्य प्रस्तुतत्वादित्यभिधानायोगाच्च ।

गूढवाक्यार्थपञ्चिका

( छ. टि.) ननु मूले सिद्धेऽर्थे वाक्यप्रामाण्यसाधनमयुक्तम् । अनन्तगुणसाधनस्य महच्छब्दार्थभूतमहत्वसाधनाशेषगुणपूर्त्तेरिति हेतुसङ्गतिवत् अस्य पूर्वसंगत्यभावात् इत्यतस्तत्राङ्गतिमाह-महन्नामेति । इत्यनेन इति ॥ निर्वचनेन । महानाम्नीनां ऋचामिति शेषः । ईश्वरस्य प्रतिपादकत्वम् । मघवन्नित्यादीनां परमेश्वरनामत्वात् । तत्र हेतुमाह-गुणत्वेनेति ॥ महानाम्नीऋचा ईश्वरप्रतिपादकत्वाभावे कैमुत्यन्यायं वक्तुं प्रथमं पदादीनां व्युत्पत्तिप्रकारमाह-पदान्येवेति । गामानयेत्यादिपदानि स्ववाच्यार्थातिरिक्तार्थोचितस्वार्थाभिधायकानि वाक्यानीत्युच्यन्ते । तत्र स्ववाच्यपदार्थातिरिक्तार्थदर्शयन् पदानां व्युत्पत्तिशब्दार्थं दर्शयति-तेषां चेति ॥ वृद्धप्रवृत्त्येकलिङ्गत्वादिति । प्रयोज्यप्रयोजकवृद्धयोर्या प्रवृत्तिः तयैव ज्ञाप्यत्वात्तस्याः व्युत्पत्तेरित्यर्थः । प्रवृत्तेश्चेति । व्युत्पित्सो बालकस्य गामानयेति प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रवृत्तमानप्रयोज्यवृद्धप्रवृत्तेः स्वस्य स्तनपानादौ ममेदं कार्यमिति कार्यत्वानुसन्धानपूर्वकप्रवृत्तिदृष्टान्तेन कार्यत्वानुसन्धानपूर्वकत्वानुमानादिति भावः । कार्यत्वं नाम कृतिसाध्यत्वे सति कृत्युद्देश्यत्वम् । कृतिः प्रयत्नः तया कर्तुं शक्यत्वे सति कृत्याः उद्देश्यत्वं अहमिदं करिष्यामीति प्रयत्नविषयत्वम् । अत एव चन्द्रमण्डले कृतिसाध्यत्वाभावात्, काकदन्तदर्शनादौ च निष्प्रयोजनत्वेन कृत्युद्देशत्वाभावात् कार्यत्वाभावः । न तु केवलसिद्धार्थे इति । कार्यसम्बन्धरहिते इत्यर्थः । तदुपायः व्युत्पत्युपायः । ईश्वरादिकमिति ॥ केवलसिद्धत्वादिति शेषः । आदिशब्दात् इन्द्रादिदेवजातम् । ननु व्युत्पत्तिबलात् पदानां कार्ये प्रामाण्यात् सिद्धार्थे प्रामाण्याभावात् । महानाम्नीभिः ईश्वराद्यसिद्धिरुक्ता तत्र तत्सिद्धान्ते तन्निषेधे सिद्धातिरिक्तकार्याभावादिति हेतोरलग्नकत्वात् मध्ये हेत्वध्याहारेण योजयति । सिद्धेऽर्थे इति ।। विषयान्तराभावात् महानाम्नीऋचामप्रामाण्यप्रसङ्गात् ईश्वराद्यसिद्धिः न चेत्यन्वयः । इदानीं सिद्धातिरिक्तकार्याभावादिति हेतुं योजयितुं तदुपयुक्तशङ्कां दर्शयति-कार्ये प्रामाण्यसंभवादिति ॥ लिङ्गादिप्रत्ययवाच्यमिति ॥ आदिशब्दात् लोट्तव्यलेट्पञ्चमालकाराद्याः । विधिनिमन्त्रणेत्यादीति ॥ अत्र आदिशब्दात् ' विधिनिमन्त्राणामन्त्राणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् लोट् च' 'लिङर्थे लेडि 'ति सूत्राणि गृह्यन्ते । एतैः सूत्रैः विधिशब्दवाच्यप्रेरणाद्यर्थेषु लिङादिप्रत्ययानां विधानात् । पाणिनीय. सूत्राणां स्मृतिसदृशत्वेन तदर्थस्य अवश्यग्राह्यत्वं ज्ञापयितुं स्मरणादित्युक्तम् ।

अत एव पूर्वमीमांसायां व्याकरणाधिकरणे व्याकरणशाखस्य प्रामाण्यं साधितम् । विधिशब्दवाच्यप्रेरणैव कार्यम् । सिद्धमात्रमिति ॥ सर्वसिद्धमित्यर्थः । इष्टसाधनत्वं इच्छाविषयीभूतसुखादिकारणत्वरूपः । सिद्धविशेषः कार्यत्वाख्य इत्यर्थः । तदेवेति । इष्टसाधनत्वमेव । धात्वर्थनिष्ठं लिङाद्यर्थः 'यजेत जुहुयात् दद्यादित्यादौ यागहोमदानादिरूपधात्वर्थविषयकलिङाद्यर्थः । लिङादिप्रतिपाद्यमित्यर्थः । फलितार्थमाहधात्वर्थश्चेति ॥ इष्टसाधयुक्तयागादिरित्यर्थः । एकार्थसमवायिन इति ।। एकार्थनिष्टाः । मिलितौ । प्रत्येकं कार्यबुद्ध्यनिमित्तत्वादिति । कार्यताबुद्धेः अनिमित्तत्वात् संभूतौ अविषयत्वादित्यर्थः । विषभक्षणे कृतिसाध्यत्वे सत्यपि कृत्युद्देश्यत्वाभावात् । चन्द्रमण्डले कृत्युद्देश्यत्वे विद्यमानेऽपि कृतिसाध्यत्वाभावात् कार्यताबुद्धैरभावात्कर्तव्यत्वमेवेति । तत्कृतिसाध्यत्वे सति कृत्युद्देश्यत्वरूपं कार्यत्वमेव लिङाद्यर्थः लिङादिवाच्यः । इष्टसाधनतायाः तर्हि कोपयोग इत्यत आह-इष्टसाधनत्वमिति ।। निमित्ततया ज्ञापकतया कारणतया वा । तथा च लिङाद्यर्थेन इष्टसाधनत्वस्य नाभेद इति भावः । कृतिसाध्यत्वस्य इष्टसाधनत्वातिरिक्तत्वेऽपीति ।। लिङाद्यर्थत्वाङ्गीकारे प्रयोजनाभावात्कृतिसाध्यत्वं न लिङाद्यर्थ इति शेषः । तदुद्देश्यत्वं कृत्युद्देश्यत्वं अन्यत् लिङादिः इष्टसाधनत्वाद्भिन्नमित्यर्थः । ननु कृत्यद्देश्यत्वेष्टसाधनत्वशब्दयोर्भेदात् अर्थभेदप्रतीतेः कथं अन्यत्त्विति नास्तीत्युक्तमिति भावेन शङ्कते-किन्त्विति ॥ उत्तरमाह-इच्छाप्रयत्नरूपोपाधी इति ।। यागादौ इष्टसाधनमित्यत्र इच्छा-विषयीभूतस्वर्गादिकारणत्वं कृत्युद्देश्यत्वमित्यत्र यागादेः स्वार्गाद्यर्थं कर्तृप्रयत्नविषयत्वमित्येवंरूपोपाधी इत्यर्थः ।

ननु इष्टसाधनत्वातिरिक्तकृत्युद्देदयत्वसद्भावे कथं प्रमाणाभाव: स्वर्गादिरूपे फले इष्टसाधनत्वे सुखसाधनत्वरूपे सत्यपि तदतिरिक्तकृत्युद्देश्यत्वदर्शनादित्यतः तच्छन्दार्थमाह तत् तत्र, धात्वर्थादावित्यादिना || धात्वर्थी यागादिः आदिशब्दात् स्वर्गादिफलम् । इष्टं च साधनं चेति द्वन्द्वः | साधनशब्देन इष्टसाधनमेव ग्राह्मम् । तयोर्भावः इष्टसाधनत्वम् । अयमभिसन्धिः । कृत्युद्देश्यत्वं द्विविधम् । मुख्यममुत्र्यं च । तत्राद्यमिष्टं द्वितीयमिष्टसाधनम् । एवं च 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादी लिङादिना स्वर्गादेः इष्टत्वं यागादेः इष्टसाधनत्वरूपकृत्युद्देश्यत्वं बोद्ध्यत इति । तदुक्तमनुव्याख्याने-तदिष्टं साधनं तथा कार्यम्' इति । तद्विवृतं श्रीमन्यायसुधायाम् अस्मदुक्तप्रकरणे | किन्तु स्वयमिति । किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यं तं व्रजेत् । फलसाधनता तत्र कारणं तेन कार्यता' इति प्रभाकरेणोक्तत्वात् ।

जोतिष्टोमादिकर्मणः कृत्युद्देश्यत्वरूपकार्यत्वं कथं इति भावेन पृच्छति-किन्त्विति ॥ तद्विवृण्वन्नुत्तरमाह-स्वयमिति । स्वभावेन क्लेशरूपमपि कर्मकार्यतां कृत्युद्देश्यतां व्रजेत् प्राप्नुयादिति यत् तत्र फलसाधनता इष्टसाधनताकारणम् । तेन इष्टसाधनत्वेन ज्योतिष्टोमादेः कार्यता कृत्युद्देश्यता भवतीति इष्टसाधनताबोधककार्याकार्ययोः इष्टसाधनताज्ञानजन्यत्वस्येत्यस्य परेणैवोक्तत्वादित्यन्वयः । विषं भुंक्ष्वेति । अत्र विध्यर्थकलोटः सत्वात् कार्यताबोधः स्यात् । तथा च अनिष्टसाधनताज्ञानं स्यादिति भावः ।

ननु प्रमाणान्तरेण इष्टसाधनताबोधानन्तरं लिङादिभिः कार्यताबोध्यते । अत्र विषभक्षणस्य अनिष्टसाधनत्वज्ञानात् । इष्टसाधनत्वज्ञानाभावात् न कार्यताबोध इति भावेनाशङ्कय दूषयति-अन्यतस्त्विति । तत एव इष्टसाधनताबोधकप्रमाणादेव । तथा च यागादिकं मम कार्यं मदिष्टसाधनत्वेन बोधितकर्तव्यताकत्वादित्यनुमानेनेति शेषः । तस्मादाय इति ॥ द्वितीय-पक्षस्यानुपपन्नत्वात् लिङादिः इष्टसाधनतां बोधयन् कार्यतां बोधयतीति पक्ष इत्यर्थः । अस्मिन्पक्षे भूलोक्तकल्पनागौरवं दर्शयितुमाह-तत्र परीक्षकेणेति ॥ पदार्थानां अर्थनिष्कर्षं ब्रुवता शब्दस्य लिङादिरूपस्य साधुतासिद्धये शब्दप्रयोगस्यार्थज्ञानार्थत्वेनार्थाभावे शब्दप्रयोगस्य व्यर्थत्वाख्यात्याधुता प्राप्तिरि भावः । ननु लिङादेरिष्टसाधनत्वकृत्युद्देश्यत्वरूपार्थद्वयमध्ये गौरवभयेन एकोऽर्थोङ्गीकार्यश्च कृत्युद्देश्यत्वमेवाङ्गीक्रियतां नेष्टसाधनत्वमित्यतो नियामकमाह-तत्र लिङादेरिति ॥ इष्टसाधनत्वरूपार्थग्रहणे वादिप्रतिवादिनोः संप्रतिपन्नत्वं प्रथमप्रतीतत्वं च नियामकम् । कृत्युद्देश्यत्वाग्रहणे तु तदभावः कल्पनागौरवं च नियामकमिति भावः ।