नमो नारायणायाजभवशक्रोष्णरुङ्मुखैः । सदा वन्दितपादाय श्रीपाय प्रेयसेऽधिकम्

(अन्त्यमङ्गलाचरणम्)

मूलम्

५६- मूलम्-

नमो नारायणायाजभवशक्रोष्णरुङ्मुखैः ।

सदा वन्दितपादाय श्रीपाय प्रेयसेऽधिकम् ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः कर्मनिर्णयः समाप्तः

टीका

टीका-

समापितग्रन्थोऽप्याचार्यः प्रचयगमनाद्यर्थं भगवत्प्रणामं आचरति- नम इति ॥ मम प्रेयसे ॥

यत्सम्बन्धेन कर्माणि फलवन्ति भवन्ति हि ।

यः सर्वकर्मणां कर्ता तस्मै भगवते नमः ॥

इति श्रीमदानन्दतीर्थमुनिविरचितकर्मनिर्णयस्य श्रीजयतीर्थमुनिविरचिता टीका समाप्ता

भावदीपः

(रा. टि.) प्रचयगमनादीति | शिष्याभिमताऽयुरादिसिद्धिरादिपदार्थः । प्रेयसे, कस्येत्याकाङ्क्षायामाह-ममेति || ग्रन्थकर्तुरित्यर्थः । अभ्यर्हितत्वादिति भावः । एतत्प्रकरणाभिमतगुणवत्त्वेन भगवन्तं नमति-यत्सम्बन्धेनेति ॥ फलवन्ति फलोपेतानि भवन्तीत्यर्थः ॥

यदापादनरूपाणि कर्माणि निखिलान्यपि ।

कर्मणां फलदाता यस्तस्मै श्रीपतये नमः ||

कर्मनिर्णयटीकाया भावदीपो यथामति ।

राघवेन्द्रेण यतिना कृतो मध्वेशतुष्टये ॥

इति कर्मनिर्णयटीकाया भावदीपः श्रीराघवेन्द्रयतिविरचितः समाप्तः

कर्मप्रकाशः

(स.टि.) प्रचयगमनाद्यर्थमिति (प्रचयगमनार्थमिति ) ॥ वस्तुतः प्रचयगमनप्रयोजनकं प्रणामं स्वभावादेवाचरतीत्यर्यः । सर्वकर्मणां कर्तेति ॥ सर्वकर्मणां प्रयोजककर्तेत्यर्थः ।

य इज्यते मखैस्सर्वैः फलदस्सर्वकर्मणाम् ।

यस्सुत्यो विविधैश्शस्त्रैस्तस्मै भगवते नमः ॥

इति श्रीसत्यनिधितीर्थश्रीमच्चरणाराधकश्रीसत्यनाययतिविरचितः कर्मनिर्णयटीकाव्याख्यानरूपः कर्मप्रकाशः समाप्तः ।

गूढवाक्यार्थपञ्चिका

( छ. टि.) ननु ग्रन्थस्य निर्विघ्नेन समाप्तत्वात् अन्तमङ्गलनिबन्धनं किमर्थमित्यत आह-समर्पित (समापित ) ग्रन्थोऽपीति । प्रचयगमनाद्यर्यमिति ॥ शिष्यपरंपरया ग्रन्थव्याख्यानं प्रचयः । गमनं नाम शिष्याणां ग्रन्थार्थज्ञानम् । आदिशब्देन ग्रन्थप्रतिपाद्यदेवताप्रीतिः । अजभवेत्यस्य अजो ब्रह्मा । भवो रुद्रः शक्रः इन्द्रः । उष्ण ऋक् । उष्णकान्तिमत्वेन सूर्य अग्निश्च । एते मुखं येषान्ते तैः यज्ञभोक्तृदेवैरित्यर्थः । श्रियं पाति रक्षतीति श्रीपः तस्मै ।आतोऽनुपर्गे कः' इति कः । प्रियशब्दात् अतिशयार्थे ईयसुन्प्रत्यये प्रियस्थिरेति प्रादेशे प्रकृत्येकाजिति प्रशब्दाकारस्य प्रकृतिभावेन यस्येति लोपाभावेन अतिशयेन प्रिय इत्यर्थकप्रेयशब्दस्य सम्बन्धिनमध्याहरति-मम प्रेयसे इति ॥ इदानीं समापितकर्मनिर्णयटीकः श्रीमज्जयतीर्थाचार्यवर्यः शिष्यशिक्षायै अन्तेऽपि मङ्गलं निबध्नाति यत्सम्बन्धेनेति ।। कर्माणि यज्ञादीनि ।। मनोवाक्कायजसर्वचेष्टारूपाणि वा । यत्सम्बन्धेन कायेन वाचा यत्करोषीत्याद्युक्तप्रकारेण भगवत्समर्पणेन । फलवन्ति मोक्षादिमहाफलवन्ति भवन्ति प्रसिद्धम् । यः सर्वकर्मणां कर्ता स्वातन्त्र्येणेत्यर्थः कारयिता वा । तंत्र हेतुगर्भविशेषणं-भगवते इति ।। इत्यशेषमतिमङ्गलम् ।। श्रीमुख्यप्राणंगेऽनन्तवेदोक्ते यज्ञभोक्तरि ।

सन्यस्तं कर्म सुफलं तस्मै कृष्णाय ते नमः ॥

कर्मनिर्णयटीकाया मत्कृतव्याख्यया शुभम् ।

यज्जातं मम पित्रोस्तत् ददातु श्रीनृसिंहराट् ||

श्रीमन्मध्वोक्तिसिन्धोर्जयमुनिशुभवाक्जाह्नवीसङ्गमेऽलं ।

व्यारत्र्यासंस्नानशुद्धे गुरुहरिदयया ज्ञानसाध्यं प्रसादम् ।

दत्वा विज्ञानतेजो भवभयदहनं पूर्णसंवित्प्रमोदः ।

कृत्वा श्रीशः प्रसन्नाननहृदयवपुः प्रीयतां मय्यनाथे ।

भ्रान्तेः पुरुषधर्मत्वात् गच्छतः स्कलनं तथा ।

अत्र यत्स्खलनं मे स्यात् तत्सर्वं क्षम्यतां बुधैः ॥

बहुग्रन्थसंदर्भमालोक्य कृच्छ्रात् गुरुप्रीतये संगृहीतेऽत्र भावं ।

अविज्ञाय चेद्दूषयेत्कश्चिदेतत् भवेद्भूषणं नाग्रहस्तत्र मे स्यात् ।।

श्रीपारिजातहरणकाव्यटीका मया कृता ।

सटीकतारतम्याख्यकौस्तुभः सप्रमाणकः ॥

षट्प्रश्नोपनिषद्भाष्यटीकाया विवृतिः कृता ।

अथेशावास्यभाष्यस्य टीकाया व्याकृतिस्तथा ॥

ऋरभाष्यटीकाव्याख्यानं तथा स्मृत्यर्थसागर: ।  

शाब्दिकानां कण्ठमणिः तट्टीकामणिमण्डनम् ||

बालानां सुखबोधार्थं बालकण्ठमणिः कृतः ।

कर्मनिर्णयटीकाया गूढवाक्यार्थपञ्चिका ।

एतैर्दशग्रन्थवरैश्छलारिनरसिंहजैः ।

मत्स्यादिदशरूपात्मा प्रसान्नो दशदिक्षु च ।।

एतेषां प्रचयं कुर्यात् व्याख्यातृषु मनस्विषु ।

शके षट्पूर्णरसभू(१६०६) मिते रक्ताक्षिवत्सरे ||

आषाढ्यां हि कृतो ग्रन्थः श्रीनृसिंहे समर्पितः ।

भूयाद्गुरुहरिप्रीत्यै बालकानामभीष्टदः ||

छलारिनारायणपुत्रवर्यनृसिंहनाम्ना रचिता पुमार्थान् ।

श्रीमाध्वसत्कर्मविनिर्णयस्य जयार्यटीकाविवृतिः प्रदद्यात् ॥

इति श्रीमद्गुरुवरतिलकश्रीमदानन्दतीर्थभगवत्पादाचार्यकृतकर्मनिर्णयस्य टीकायाः

श्रीमज्जयतीर्थवर्यकृतायाः छलारीनारायणाचार्यपुत्रनृसिंहाचार्यविरचिता गूढवाक्यार्थपञ्चिका समाप्ता ।

॥ मध्वेशार्पणमस्तु ॥ ॥ श्रीकृष्णार्पणमस्तु ॥