इतस्ततो विशेषेण हृतं विहृतम्

(विहृतवाक्यशंसनप्रशंसापरमूलवाक्यार्थीक्तिः)

मूलम्

४२- मूलम् - इतस्ततो विशेषेण हृतं विहृतम् । 'पापानां व्यतिपिक्तत्वाद्व्यतिषक्तं विनाशकम् । धनस्याव्यतिषङ्गेण व्यतिषङ्गोऽविनाशकः । सदृशं सदृशस्यैव यतस्स्यात्प्रविनाशकम् । तयाप्यप्राप्तनाशस्य धनस्य बलवत्त्वतः । शक्नुयान्न विनाशाय पापस्येच्या समेधितम्। संसृष्टं स्याद्विनाशाय नहीच्छाधनसंक्षये' || इति स्वाध्यायतत्वे । अव्यतिपक्तत्वं च मोक्षे विद्यत इत्यत्रोभयार्थ इवशब्दः । एवम्भूतेन शंसनेन पाप्मानमपहन्ति । शमलं रागादिकं च । पापस्य पृयगुक्तेः ।शमलं पापमुद्दिष्टं रागद्वेपादिकं तथा । अपराधश्च शमलं मलं च शमलं विदुः' ॥ इति शब्दनिर्णये । य एवमुपास्ते सोऽपि पाप्मानमपहते । 'ऋक्षु संसृज्यमानासु प्रोच्यमानं जनार्दनम् । पुंसंसृष्टस्य पापस्य निहन्तारं विशेषतः । तत्प्रसादेन मुक्तस्य पापासंसृष्टतामपि । ध्यायन्कर्माण्यकृत्वापि मुच्यते सर्वपातकैः ' ॥ इति प्रवृत्ते ।

टीका

टीका- एवमव्यतिषक्तशंसनप्रशंसानन्तरं व्यतिषक्तशंसनप्रशंसनायें वाक्यम् 'अथ यः पाप्मानम्' इति । तत्र विहृतशब्दार्थमाह-इतस्तत इति ॥ ननु 'अविहृतमसंसृष्टम्' इत्यविहृतशब्दव्याख्यानेनैव विहृत-शब्दोऽपि संसृष्टार्थतया व्याख्यात एव किं पुनरनेन ? मैवम् । तात्पर्यमेव तत्रोक्तम् । अवयववृत्तिस्त्वत्रोच्यत इति । यः पुरुषः पाप्मानमपजिघांसुः स्यात् स विहृतं पोळशिनं शंसयेत् इत्यत्रोपपत्तिरुच्यते-व्यतिषक्त इवेति ॥

यस्मात्पुरुषः पाप्मना व्यतिपक्तस्तत्तस्माद्व्यतिषक्तमेव शंसनमस्मै अस्य पुरुषस्य पाप्मानं हन्तीति । तामागमवाक्येनैव घटयति- पापानामिति । व्यतिषक्तं शंसनम् । तर्हि धनस्यापि विनाशकं स्यादित्यत आह- धनस्येति ॥ धनस्यात्मना सङ्गमात्रं न तु पापवद्व्यतिपङ्गोऽस्तीत्यर्थः अव्यतिषङ्गेऽपि कुतो न विनाशक इत्यत आह-सदृशमिति ॥ तस्माद-विनाशक इति सम्बन्धः । अस्तु वा धनं व्यतिषक्तं तथाप्यप्राप्तनाशस्य अप्रार्थितनाशस्य । इच्छासहितसंसृष्टं संसृष्टनाशकम् । न संसृष्टमात्रमिति भावः । एतेन पुण्यनाशोऽपि परिहृतः । धनस्याप्राप्तनाशत्वं कथम्? इत्यत आह-न हीति ॥ यदि तु यत्रापीच्छा तर्हि तदपि पापतुल्यमेव । पुरुषस्य पापमिति भ्रान्तिरेव । अयन्तु सर्वदा शुद्ध एवेति व्यतिषक्त इब इतीवशब्दात्प्रतीयते । अतो व्याचष्टे-अव्यतिषक्तत्वं चेति ।। व्यतिषक्तमेव शंसनम्पाप्मानमपहन्ति' इति व्यतिषक्तशंसनस्य प्राधान्यं प्रतीयते । तत्परिहारार्थमाह-एवम्भूतेनेति ॥ शंसनेन प्रसन्नो हरिरिति शेषः ।पुंसंसृष्टस्य पापस्य निहन्तारम्' इति वक्ष्यते । शमलमित्यस्यार्थमाह-शमलमिति ।। ननु शलमं पापं प्रसिद्धम् । तत्कथं तथा न व्याख्यायत इत्यत आह-पापस्येति । तत् किं पुनरुक्तिभयादेवं न व्याख्यायते ? मैम् । शमलशब्दो रागादेर्वाचकश्च भवतीत्याह-शमलमिति ॥ 'अप पाप्मानं हते य एवं वेद' इति ज्ञानमात्रेण पापहानिरुच्यते । तदनुपपन्नम् । तथा सति शंसनवैयर्थ्यापत्तेः । तस्यापि ज्ञानपूर्वकत्वादित्यत आह-य एवमिति ।। उपासनमेवात्र वेदनं विवक्षितं न तु ज्ञानमात्रमित्यर्थः । उपासनमात्रं तु सर्वपापक्षयकारणं भवतीत्याह प्रमाणमाह-क्ष्विति ॥ ध्यायिनामपि शंसनं फलान्तरार्थमिति ॥

भावदीपः

(रा.टि.) 'अथ य:' इतिखण्डशेषमवतारयति-एवमिति ।। निगदव्याख्यानमेतदिति भावेन वाक्यमेव पठति-यः पुरुष इति ॥ स इति शेषोक्तिः । यजमानपक्षे णिच हेतुमिति, होतृपक्षे स्वार्थ इति प्राग्वयक्तमति भावः । हन्तीतीत्यत्रेतिपदस्य उच्यत इति पूर्वेणान्वयः । तामिति ॥ उपपत्तिमित्यर्थः । व्यतिषक्तमित्यस्यार्थः व्यतिषक्तं शंसनमिति ॥ यत इत्यस्य साकाङ्क्षत्वादन्वयायोक्तम् तस्मादिति ॥ अप्रार्थितनाशस्येति बहुव्रीहि:। इच्छेति | ममेदं न स्यादितीच्छोपोद्बलितं संसृष्टम्, तथेच्छाविषयस्य नाशकमित्यर्थः । अप्राप्तनाशत्वम् अप्रार्थितनाशत्वमित्यर्यः । हरिरिति शेषोक्तौ ज्ञापकमाह-पुंसंसृष्टस्येति । ज्ञानपूर्वकत्वादिति ॥ तथा च ज्ञानेनैवालं किं तदुत्तरशंसनेनेति भावः । उत कोऽपि यदि शंसनं कुर्यात्तत्किं व्यर्थमित्यत आह-ध्यायिनामपीति । एतेन ध्यानमुपासनशब्दार्थ इत्युक्तं भवति । इति विहृताविहृतशंसनमूलवाक्यार्थोक्तिः ।।

कर्मप्रकाशः

(स.टि.) व्याख्यात एवेति ।। व्याख्यातप्राय एवेत्यर्थः । मैत्रमिति । इतः परं तात्पर्यमेव तत्रोक्तम् । अवयववृत्तिस्त्वत्रोच्यते इति वाक्यं प्रक्षिप्तं, न टीकावाक्यम् । अधिकलाभस्य वैय्यर्थ्यानापादकत्वादित्युच्छिन्नम् । अवश्यं चैतदेवं विज्ञेयम् । पूर्वमविहृतशब्दार्थमात्रस्यैव कथितत्वेन तात्पर्यस्याकथनात् । अर्थात्तात्पर्यालाभात् । पापतुल्यमेवेति || पापवद्विनाश्यमेवेत्यर्यः । ज्ञानपूर्वकत्वादिति ।। पूर्वभाविना ज्ञानेनैव कृतत्वात् शंसनवैय्यर्थ्यं स्यादित्यत आह-ध्यायिनामिति ॥

गूढवाक्यार्थपञ्चिका

(छ.टि.) व्यतिपक्तशंसनेति ॥ स्थलान्तरवाक्यसहितशत्रुशंसनप्रशंसेत्यर्थः । इतस्तत इति मूलेऽपि अयमेवार्थो ज्ञेयः । अवयववृत्तिरिति ॥ विहृतमित्यत्र वीत्यस्य विशेषेण हृतमित्यस्य संहृतं संयोजितमित्युक्तेरिति भावः ।यः पाप्मानं' इति पुरुषः पाप्मानं पापं अपजिघांसुः नाशितुमिच्छुः स्यात् । हन्तेः सनि रूपमेतत् । तर्हि विहृतं षोळशिनं शंसेदित्युक्ते तत्कुत इत्याकाङ्क्षायामिति शेषः । पाप्मना व्यतिषक्तः सम्बद्धः तस्मात्पुरुषस्य पापसम्बद्धत्वात् । ऋगन्तरसम्बन्धशंसनं एतत्पुरुषसम्बद्धं पापं हन्तीति ब्राह्मणे युक्तिरुक्ता । तां अप्रयोजकशङ्कापरिहारेण सम्बध्नातीत्यर्थः । तर्हि धन- स्यापीति । यदि सम्बद्धत्वसाम्येन इदं विहृतशंसनं यजमानसम्बद्धपापविनाशकम् । तर्हि यजमानसम्बद्धत्वात् तद्धनादिविनाशकं च स्यादिति भावः । पापवव्यतिषङ्ग इति यथा पापस्य जीवेन विशेषेण अत्यन्तसङ्गः । जन्मान्तरेऽप्यनुवर्तमानत्वात् । तथा धनादेर्जन्मान्तरानुवृत्यभावात् न व्यतिषङ्ग इति भावः । तथा च व्यतिषक्तशस्त्रशंसनं व्यतिषक्तपापविनाशकमेव न तु अव्यतिषिक्तधनविनाशकमिति भावः । तस्मादिति ॥ धनस्य आत्मना व्यतिषङ्गाभावात् शस्त्रसादृश्याभावात् सदृशात्मव्यतिषिक्तपापस्यैव नाशकः । न तु धनस्येति भावः । तथापीत्यस्याभिप्रायमाह-अस्तु वेति । धने मनसः । अत्यासक्तत्वात् । अप्राप्तनाशस्येत्यस्य व्याख्यानम् । अप्रार्थितनाशस्येति || अनपेक्षितनाशस्येत्यर्थः । तथा च मूलस्यैवं योजना धनस्य अनपेक्षितनाशत्वेन प्रत्युत अपेक्षिताभिवृद्धिमत्वेन वलवत्वात् संसृष्टं विहृतशंसनं धनविनाशाय न शक्नुयात् । किन्तु परस्यैव इच्छासमेधितं नाशापेक्षयाभिवृद्धं सत् विनाशाय स्यादिति ।

ननु तर्हि पुण्यस्य जन्मान्तरेप्यनुवृत्तेः पापवद्व्यतिषक्तत्वात् विहृतशंसनेन नाशस्स्यादित्यत आह-एतेनेति ।। इच्छासमेधितमिति वचनेन पुण्यनाशस्य अनपेक्षितत्वात् अपेक्षितफलप्रदविहृतशंसनेन अजायमानत्वोक्तिरिति भावः ।

ननु विरक्तस्य धने सति तद्रक्षणार्थं मनोश्चित्येन (?) स्नानादिधर्मत्यागनिमित्तात् नाशापेक्षा भवत्येवेत्यतः कथमुक्तं न हीच्छाधनसंक्षय इत्यत आह-यदि त्विति ।। पापतुल्यमेव । पापवद्विनाश्यमेव ।

ननु ब्राह्मणे व्यतिषिक्त इव वै पुरुषः पाप्मना इत्यनेन जीवस्य अत्यन्तं पापसम्बन्धाभावः कथ्यते । तत्तु समीचीनमेव अत्र प्रतीत्याद्यभावात् मूले किमर्थं व्याख्यानमित्यतोऽन्यथाप्रतीतिं दर्शयति- पुरुषस्येति ॥ पुरुषः पाप्मना व्यतिषिक्त इव सम्बद्ध इव । न तु सम्बद्धः । पुरुषस्य पापसम्बन्धप्रतीतिस्तु भ्रान्तिरिति इवशब्दात्प्रतीयते । तदयुक्तम् । मोक्ष एव जीवस्य सर्वथापापसम्बन्धाभावास्य अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इति श्रुत्योक्तेरिति भावः । मूलयोजना तु अव्यतिषिक्तत्वं च पापसम्बन्धा- भावः मोक्ष एव वर्तत इति हेतोः अत्र व्यतिषिक्त इवेत्यत्रेवशब्दः उभयार्थः । मोक्षे अव्यतिषिक्त एव । संसारे तु व्यतिषङ्गेत्युभयार्थः । किञ्चित्वे चेत्यभिधानात् व्यतिषिक्तमेव शंसनमिति । व्यतिषिक्तमेवाऽस्मै तत्पाप्मानमिति ब्राह्मणवाक्य इति शेषः । अस्मै अस्य यजमानस्य पाप्मानं पापं व्यतिषक्तमेव विहृतमेव तच्छंदानम् । अपहन्ति नाशयतीति विहृतशंसनस्य पापनाशनं प्रति कर्तृत्वोक्तेरिति भावः । मूले एवंभूतेन शंसनेनेत्युक्त्या व्यतिषिक्तमेव तदिति प्रथमाविभक्तिः तृतीयार्थे । 'सुपां सु लुक्' इति तृतीयायास्सु इत्यादेशविधानात् । एवंभूतेनेति व्यतिषक्तत्वग्रहणात् प्रसन्नो हरिः अपेक्षिताध्याहारोक्तिग्रहणे ज्ञापकमाह-पुंसंसृष्टस्येति ॥ शंसनवैय्यर्थ्यापत्तेरिति ।। शंसनेऽपि ज्ञानस्यापेक्षितत्वात् ज्ञानमात्रेण पापहानौ सत्यां शंसनस्य प्रयोजनाभावादिति भवः ।

ननु ज्ञानेन फलांगीकारे यथाशंसनवैय्यर्थ्यं तथा ध्यानेन फलाङ्गीकारे ध्यायिनां ध्यानेन फलसिद्धे शस्त्रशंसनं व्यर्थं स्यादित्यत आह-ध्यायिनामपीति ।। ऐहिकामुष्मिकफलार्थमित्यर्थः । तथा च ‘“अप पाप्मानमिति वाक्यस्यायमर्थः, यः यज्ञादिकर्मकृत्वाऽपि एवं यज्ञादिकर्मणि विहृतशंसनेन प्रसन्नो हरिः यजमानहोत्रोः पापक्षयं करोतीति वेद ध्यायति । स पाप्मानं स्वानिष्टं पापं अपहते नाशयतीति ।