यो व्यतीँ रफाणयत्सुयुक्तां उप दाशुपे

(यो व्यतीनितिमन्त्रस्य विष्णुनिष्ठदेवप्रेरकत्वार्थकत्ववर्णनम् )

मूलम्

३६- मूलम्- यो व्यतीँ रफाणयत्सुयुक्तां उप दाशुपे । तक्को नेता तदिद्वपुरुपमा यो अमुच्यत ॥ १ ॥

व्यतीन् विशेषेणाधिकान् देवान् अफाणयत् विस्तारयामास । दाशुषे यजमानाय तत्समीपे ।फण विस्तारे' इति धातोः । सुयुक्तान् सुयोगरतान् ।विशेषेणाधिकत्वेन व्यतयो देवतास्स्मृताः । नित्ययोगरताश्चैव नारायण-परायणाः । ता एव चेन्द्रियात्मानस्तान्विस्तारयतीश्वरः । मन आदीन्द्रियाणान्तु शक्तिविस्तार एव तु । विस्तारो देवतानां स्याद् भक्तेषु हरिणा कृतः ' इति प्रकाशसंहितायाम् ।चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीं रवीविपत्' इति च श्रुतिः । ' समेन्द्रो मेधया स्पृणोतु | अमृतस्य देवधारणो Iभूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूति विश्रुवम्' इति च । 'न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥' इति भारते ॥

टीका

टीका- यो व्यतीन् ॥ व्यतीन् । उपसर्गा हि धातुसम्बन्धेन तदर्था-बोधादिहेतवः । केवलास्तु ससाधनक्रियावचना भवन्तीत्यतो व्यतीन् विशेषेणाधिकानित्युक्तम् । अधिकानस्मदायतिक्रान्तान् पूजितान्चा | 'दाशृ दाने' इत्यस्य दाश्वान् इति क्वसौ रूपम् । 'दाश्वान्साहान्' इति निपातनात् । षष्ठ्यर्थे चतुर्थीति भावेनोक्तम्-तत्समीप इति ॥ अफाणयदित्यस्य विस्तारयामासेति व्याख्यानं समर्थयते फणेति ॥ 'छन्दसि लुललिटः' इतिवचनालङन्तस्य लिडन्तं प्रतिपदं नानुपपन्नम् । योगकर्तृत्वमेव युक्तशब्दार्थः । रतानिति तु तात्पर्यम् । एतदेवाऽगमवचनेन विवृणोति विशेषेणेति । नित्ययोगरतत्वस्यैव विवरणम्-नारायणेति ॥ त एव चेन्द्रियात्मन इन्द्रियाभिमानिनः । भक्तानां मन आदेर्भगवत्तत्व-ज्ञानादौ शक्तिप्रेरणाय देवान्प्रवर्तयतीत्युक्तं भवति । देवानामीश्वर- प्रवर्तनीयत्वे श्रुत्यन्तरसम्मतिमाह - चतुर्भिरिति ॥ ननु बुद्ध्यादेः शक्तिविस्तारो न पुरुषार्थः । अतस्तत्प्रदानामीश्वरस्य किं वर्ण्यत इति चेन्न। महापुरुषार्थहेतुत्वेन महद्भिः प्रार्थितत्वादित्याशयवानाह-समेति ॥ स्पृणोतु बलयतु । अमृतस्य वेदस्य विचर्पणं बहुशिष्यप्रजोपेतं भवतु | मधु ब्रह्म । अतिशयेन तत्प्रतिपादिका । भूरि विश्रुवं ब्रह्म विशेषेण शृणवानीति । अत्रैव स्मृतिमाह-नेति ॥

भावदीपः

( रा. टि. ) य इति । 'यो व्यतीं रफाणयत्सुयुक्ताँ उप दाशुषे । तक्को नेता तदिद्वपुरुषमा यो अमुच्यत' । व्यतीनिति भाष्यप्रतीकम् । बोधादीत्यादिपदेन धात्वर्थानुवर्तनग्रहः । धात्वर्थं बाधते कश्चित्कश्चित्तमनुवर्तते' इत्युक्तेरिति भाव: । ससाधनेति ॥ प्रत्ययोत्पत्तौ यत्साधनं कर्तृकर्मादि तत्सहितक्रियां धात्वर्थमाहुरित्यर्थः । इह च व्याप्तिः तत्पूर्वशीन्गस्वप्न इति धात्वर्थरूपक्रियां कर्तृरूपसाधनसहितां वदतीति भावः । क्वसुश्चेद् द्विर्वचनेन भाव्यमित्यतो निपातनात्साधुरिति भावेनाह-दाश्वानिति || मीवांश्चेति सूत्रशेष: । छन्दसि लुङ्लङ् लिट:' इति सर्वलकारार्थेषु लुङ्लङ्लटो भवन्तीति सूत्रोक्तेरिति भावः । तद्वाचिपदाभावात्कथं रतानित्युक्तिरित्यत आह-इति तु तात्पर्यमिति || शक्तिप्रेरणविषयं दर्शयन् फलितमाह-भक्तानामिति ॥ भक्तेष्वित्यग्रे श्रवणादेवमुक्तिः । चतुर्भिरितीति || जन्मादिसूत्रे भाष्यटीकायां व्याख्यातैषा श्रुतिः । भवत्विति शेषोक्तिः । मधुमत्तमेत्यस्य पदार्थकथनपूर्वं तात्पर्यार्थमाह-मध्विति ॥ भूतिविश्रुवमिति पदद्वयं व्याचष्टे-ब्रह्मेति ॥ विशब्दार्थ :- विशेषेणेति ॥

कर्मप्रकाशः

(स.टि.) यो व्यतीँ रफाणयत्सुयुक्तां उपदाशुषे । तक्वो नेता तदिद्वपुरुपमा यो अमुच्यते । इति ऋचं प्रतीकतयोपादत्ते-य इति । ननु वि अतित्युपसर्गद्वयम् । उपसर्गाणां च ससाधनक्रियावाचित्वं नास्तीति व्यतीनित्यस्य कथं विशेषेणाधिकानिति व्याख्यानमित्यत आह-उपसर्गा हीति ।। ननु अतिशब्दस्य उपसर्गत्वमङ्गीकृत्य व्याख्यानमनुपपन्नम् । तथात्वे उपसर्गस्याव्ययत्वेन विभक्त्यभावप्रसङ्गादिति व्याख्यानमनुपपन्नम् । उपसर्गस्याप्येतस्यातिक्रमणकर्तृवाचित्वदशायां उपसर्गत्वाभावेन विभक्तिश्रवणोपपत्तेः । दृश्यते हि अव्ययस्यापि चशब्दादेः शब्दवाचितादशायां अनव्ययत्वेन सविभक्तिकत्वं 'चोऽवधारणे' इति सकलतान्त्रिकव्यवहारात् । कथं तर्हि उपसर्गाः ससाधनक्रियामाहुरिति वचनमिति चेत् । अद्रव्यार्थतादशायाम् उपसर्गा अपि उपसर्गत्वं परित्यज्य ससाधनक्रियासाधनं क्रियां च क्रियासहितं साधनमिति यावत् । आहुरिति ससाधनक्रियामाहुरिति वचनार्थत्वाङ्गीकारात् । एतेनोपसर्गाणां ससाधनक्रियावाचित्वे व्यतीनित्यस्य देवनामतिरिक्तमिति क्रियाप्रधान्येन व्याख्यानं कर्तव्यम् । न तु विशेषेणाधिकानिति साधनप्रधानतया व्याख्यानं युक्तमिति परास्तम् । ससाधनक्रियामाहुरिति वचनस्य क्रियासहितं साधनमाहुरित्यर्थात् । आधिक्यं पूज्यत्वेनेत्यभिप्रेत्य आह-पूजितान्वेति । व्यतीनित्यस्य विशेषेण पूजितानित्यर्थः इति भावः । ननु क्कसो लिङ्गादेशत्वात् द्विर्वचने दादाश्वानिति भाव्यमित्यत आह-दाधान् इति ॥ द्विर्वचनरहितस्य दाश्वानिति रूपस्य निपातनात् न द्विर्वचनमित्यर्थः । ननु भूतानद्यतनवाचिनो लङः भूतानद्यतनपरोक्षाद्यर्थवाचिलिडा थं व्याख्यानमित्यत आह-छन्दसीति ॥

गूढवाक्यार्थपञ्चिका

(छ. टि.) 'यो व्यर्ती रफाणयत्सुयुक्ताँ उप दाशुषे । तक्को नेता तदिद्वपुरुमा यो अमुच्यत' इति व्याख्यास्यमानतृतीयऋचस्थप्रथमचं प्रतीको गृह्णाति-य इति । ननु ऋचि व्यतीनित्यतः 'वि अती 'ति उपसर्गद्वयं प्रतीयते । तयोरव्ययत्वात् 'अव्ययादाप्सुपः' इति सुपो लुप्तत्वात् द्वितीया-बहुवचनस्य सः पूर्वसवर्णदीर्घनत्वयोरभावात् व्यतीनिति पदस्यैवासंभवात् कथं मूले व्यतीन् विशेषेणाधिकानिति व्याख्यानं कृतम् । क्रियमाणेऽपि वार्ये उभयोरुपसर्गयोः विशेषातिशयरूपधर्मप्रतिपादकत्वात् विशेषेणाधिकानिति धर्मिपरत्वेन व्याख्यानं कथमित्यत आह- उपसर्गा हीति । तदर्थावबोधेति ॥ धात्वर्थविशेषद्योतनादि हेतव इत्यर्थः । धातुसंबन्धे इत्यत्र सतीति शेष: ।उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥' इत्युक्तम् । केवलाः धातुसम्बन्धरहिताः ये उपसर्गाः ते ससाधनक्रियावचनाः धात्वनन्तरं प्रत्ययोत्पत्तौ कारणभूताः कर्तृकर्मभावाः तैः सहितक्रियावचना इत्यर्थः ।

नन्वत्राधिकानिति मूले ससाधनक्रियायाः अप्रतीतेः व्यतीनित्यस्यानव्ययत्वे इयं युक्तिः कथमित्यत आह-अधिकानिति ॥ ' अतिरतिक्रमणे च' इति सूत्रे चशब्दात् सुपूजायामित्यतः पूजायामित्यनुवर्तनात् अतिशब्दस्यातिक्रमणपूजार्थकत्वकर्तृलक्षणया मूले अतिक्रान्तत्वपूजितत्वरूपार्थाभिप्रायेणाधिकानित्युक्तम् । तेन व्यतिशब्दस्य द्रव्यवाचकत्वात् ' चादयोऽसत्वे प्रादयः' इति द्रव्यार्थानां प्रादीनां निपातसंज्ञाभावात् स्वरादिनिपातमव्ययमिति, अव्ययत्वाभावात् सुपो लुगभावात् सुष्कार्यसंभवात् व्यतीनिति पदसंभवात् अधिकानिति व्याख्यातेति भावः ।

ननु श्रुतौ दाशुषे इत्यत्र कथं रूपसिद्धिरित्यत आह-दाशृ दान इति । तर्हि 'लिटः वसुश्च' इति कस्वादेशे 'लिटि धातोरनभ्यास' इति द्वित्वं इडागमश्च स्यादित्यत आह- दाश्वान्साह्वान् इति निपातनादिति ॥ द्वित्वाभावस्यआर्धधातुकस्येड्वलादेः' इति अडभावस्य च निपातनादित्यर्थः । तथा च दाश्वस्शब्दात् ङेप्रत्ययेवसोः संप्रसारणं' इति संप्रसारणे षत्वे च दाशुषे इति रूपमिति भावः ।

ननु उपशब्दस्य समीपार्थस्य चतुर्थ्यन्तेन अन्वयासंभवात् मूले तत्समीप इत्युक्तं तद्घटयति-ष्ट्यर्थे इति ।। ननु फणधातोः झषति-फणति-अर्दतीति गतिकर्मसु पाठात् कथं विस्तारार्थत्वं मूले उक्तमित्यत आह-समर्थयते इति || चिरन्तनव्यासोक्तव्याकरणे फणते: विस्तारार्थत्वोक्तेः सोऽप्यर्थो ग्राह्य इति भावः ।

ननु अफाणयदिति लङ्, तस्य अनद्यतनभूतार्थमात्रवाचिनः अनद्यतनभूत-परोक्षवाचिना लिडन्तेन कथं प्रतिपदमित्यत आह-छन्दसीति । अस्मिन्सूत्रे लुङादित्रयाणां वेदे सार्वकालिकत्वोक्तेः ललिटोः एककालार्थकत्वादिति भावः । ननु 'युजिर् योगे' इति धातोः आदिकर्मणि क्तः 'कर्तरि च' इति क्तप्रत्यये निष्पन्नसुयुक्तशब्दस्य मूले सुयोगकर्तृनिति वक्तव्ये अतिशयाभिधायकस्यान्यस्याभावात् सुयोगरतानिति कथं अवयवार्थकथनमित्यत आह-योगकर्तृत्वमिति । अस्मिन्सूत्रे कर्तृशब्देन मुख्यामुख्यन्यायेन मुख्यकर्तृविवक्षणात् रतानित्युक्तचतुर्भिरित्यस्यायमर्थः । विष्णुनामभिः नाममात्रभूतैः वस्तुतो भेदरहितैः चतुभिर्वासुदेवादिरूपैः साकं नवतिं नवतिसङ्खाकान् व्यतीन् विशेषेणाधिकान् देवान् वृत्तं वर्तुलं, चक्रं चक्रमिव अवीविपत् प्रेरितवान् ।विष परिवर्तनेइति धातोः णिजन्तात् लुङि रूपमेतदिति । वसवोऽष्टौ,रुद्राः एकादश, विष्णुव्यतिरिक्तादित्या एकादश, ब्रह्मणा सह प्रजापतयो दश, मुख्यवायुना सह मरुतः पञ्चाशदिति देवानां नवतिः । बुद्धयादेरिति । बुद्धिः साक्ष्यनुभवः । आदिशब्देन मनश्चक्षुरादीनां ग्रहणं न पुरुषार्थः । सुखादिरूपत्वाभावादिति शेषः । पुरुषार्थहेतुत्वेनेति । परमेश्वरज्ञानमोक्षहेतुत्वेनेत्यर्थः । समेन्द्र इत्यादेः टीकानुसारेण योजना स इन्द्रः मा मेधया धारणायुक्तबुद्धया 'धीर्धारणावती मेधा' इत्यमरोक्तेः । स्पृणोतु स्पृहयतु बलयुक्तं करोत्विति तात्पर्यार्थः । हे देव अमृतस्य वेदस्य धारणः धारकः अहं भूपासम् । मे शरीरं विचर्षणं बहुशिष्यप्रजोपेतम् । चर्षणिशब्दस्य प्रजानामसु पाठात् भवत्विति शेषः । मे जिह्वा मधुमत्तमा । मधु ब्रह्म । तदस्यास्तीति मधुमत् । अतिशयेन मधुमती मधुमत्तमा । अतिशयेन तत्प्रतिपादकाभावात् । कर्णाभ्यां अहं ब्रह्म भूरि बहुलं यथाभवति तथा विशेषेणेति यावत् । विश्रुवं 'श्रू श्रवणे' इत्यतः लिङि मिपः अमादेशे धातोरुवङिबहुलं छन्दस्यमाग्योगे' इति अडभावः । छन्दसि लुलङ्लिटि इत्युक्ते: लोडर्थकत्वं बोध्यम् । अत्रैवेति ।। देवानां भक्तेन्द्रियप्रेरणे एवेत्यर्थः । स्मृतियोजना तु देवाः तत्वाभिमानिनः हरिभक्तिमिति शेषः । द्रक्षन्त्ि गोपालबत् काष्ठं गृहीत्वा अधर्मादिभ्यो वारयतीति न किन्तु यं भक्तं अधर्मादिनिवारणधर्मादिप्रवर्तनरूपलक्षणं युक्तं कर्तुमिच्छन्ति तं भक्तं बुद्ध्या वेदशास्त्रोक्तसुबुद्ध्या संयोजयन्ति संयुक्तं कुर्वन्तीति सर्वेन्द्रियप्रेरणस्याप्युपलक्षणमेतत् ।