व्याप्तो विशेषेणापन्नः
(विहृताविहतशंसनप्रशंसावाक्यार्थीक्तिः)
मूलम्
४१- मूलम्- व्याप्तो विशेषेणापन्नः । अविहृतमसंसृष्टम् । कृच्छ्राद-यथावस्थितशंसननिमित्तदुःखादवाग्गतिं गतश्रीकतामेव न प्राप्नुयाम् । 'विलोमश्शत्रुक्ष (ज) यकृत्संसर्गः पापनाशनः । यथास्थितश्श्रीकरस्स्यास्वाध्यायरशंसनेsपि च' इति प्रवृत्ते । 'गतश्रियः श्रियो हानिं पापहानिं परस्य च । संसर्गश्छन्दसां कुर्याच्छ्रियो वृद्धिं यथास्थितः' इति स्वाध्यायतत्वे । 'किञ्चित्वे चोभयत्वे च संशये सदृशे तथा । इवशब्दः प्रयुज्येत न्यक्कारेऽपि च पण्डितैः ' ॥ इति शब्दनिर्णये । अतो गतश्रीत्वसंशयेऽपीत्यर्थः ॥
टीका
टीका- एवं विहृतपक्षे परिधानीयामेकामृचं विनाऽन्यच्छन्नं समापितम् । इदानीं विहृताविहृतभेदेन द्विधोक्तस्य शस्त्रस्य नानदगौरवीतसामानुयायि- त्वोक्त्या तत्फलेनैव फलवत्तयाभिहितस्य पुनः फलान्तरहेतुतया प्रशंसा क्रियते-स य इत्यादिना ॥ तत्राऽद्यं वाक्यमविहृतपक्षप्रशंसनार्थम् । तत्र व्याप्त इति पदस्य सर्वगतार्थताप्रतीतिनिरासायार्थमाहव्याप्त इति ॥ आपन्न आपदं गतः । अप्रतीतत्वादविहृतपदार्थमाह-अविहृतमिति ॥ ‘नेच्छन्दसां कृच्छ्रादवपद्यै' इत्येतद्विहरणोत्पादिताच्छन्दसां तदभिमानिनां दुःखात्तदापादन निमित्तकात्पापान्नरकाद्यवपत्तिं न गच्छेयमिति विहृतपक्षे निन्दा प्रतीयते । अतो यथावद्व्याचष्टे-कृच्छ्रदिति ॥ गतश्रीकताम् अपगतशोभत्वम् । एवेति नरकाद्यनर्थं व्यावर्तयति । तथाचायमर्थः- यः पुरुषः स्वात्मानं व्याप्तोऽस्मीति मन्येत । अपगमनकारणं दृष्ट्वा गतश्रीश्व भविष्यामीति मन्येत । छन्दसां कृच्छ्रात्तद्विहरणजनितश्रमनिमित्तकदुःखान्नैत्रावपद्यै गतशोभत्वं न प्राप्नुयामिति च मन्येत । स प्राप्तव्यापत्परिहाराय श्रीस्थैर्याय शोभापगमाभावाय चाविहृतमसंसृष्टम् ' अथ पोडशी' इत्यादिसूत्रोक्तप्रकारं शंसयेदिति । अत्र द्वे प्रयोजने यजमानगामिनी । तृतीयं होतृगामि । तत्राऽद्यद्वयार्थे कर्मणि होत्रा शंसयेदित्यर्थः । तृतीये तु स्वार्थे णिच् ।
ननु यथाश्रुतविहृतपक्षस्य निन्दैवेयं किं न स्यात् । मैवम् । तस्य पापपरिहारार्थत्वेनैव वक्ष्यमाणत्वात् । तर्हि वाक्यद्वयस्यान्यत्र तात्पर्यं परिकल्प्य फलमसत्यं कल्प्यतां किमेवं व्याख्यानेनेति चेन्न । स्वरूप-परेणागमेन द्वयोरुक्तफलवत्तायाः सत्यत्वस्याभिधानादित्याशयवानाह-विलोम इति ॥ विलोमायुपेतः । स्वाध्यायः यज्ञादन्यत्र जपरूपः । शंसनेऽपि चैवंविधफलमेतदित्यर्थः । गता भविष्यति श्रीर्यस्यासौ गतश्रीः | इदं फलमात्रानुक्तमेव । परस्यागतश्रियः । यथास्थिता इति ॥ यथास्थितशंसनम् । यद्वा छन्दसां संसर्गः स्वस्य होतुः परस्य यजमानस्य च पापहानिं कुर्यात् । यथास्थितशंसनन्तु गतश्रियः श्रियो हानिं परस्य अगतश्रियश्च श्रियो वृद्धिं च कुर्यादिति योज्यम् । गतश्रीरिव मन्येतेति इवशब्दः किमर्थः? इत्यतः प्रमाणपूर्वकं व्याचष्टे-किञ्चित्वे चेति ॥
भावदीपः
(रा.टि.) स य इत्यादिखण्डशेषस्य सङ्गतिमाह-एवमित्यादिना ॥ पूर्वखण्डोक्तस्य परामर्श:- विहृतपक्ष इति । संसृष्टऋक्शंसनपक्ष इत्यर्थः । परिधानीयामिति ।। ‘उद्यद्ब्रध्नस्य' इत्यन्तिमामेकामृचमित्यर्थः । समापितं पूर्वखण्ड इति भावः । नानदेति ।। 'गौरवीतं षोडशि साम कुर्वीत' इति द्वितीयखण्डे विहृताविहृतभेदेन शस्त्रस्य द्वैविध्यमुक्त्वा ' तद्यदि नानदं कुर्युरविहृतः षोडशी संस्तव्यः' इत्यविहृतशस्त्रस्य नानदाख्यसामानुयायित्वम् । ‘यदि गौरवीतं विहृतः षोडशी संस्तव्यः' इति विहृतशस्त्रस्य गौरवीताख्यसामानुयायित्वं चोक्तम् । तदुक्त्या च तस्य भ्रातृव्यहत्वतेजोरूपत्वफलश्रवणेन तत्फलेनैव फलवत्तयाऽभिहितस्येत्यर्थः । इत्येतदिति । यथावद्व्याचष्ट इत्यन्वयः । यथावद्व्याख्याने बीजमाह-विहरणोत्पादितेति । तदापादनेति ॥ देवानां दुःखापादनेत्यर्थः । व्याप्तोऽस्मीति ॥ विशेषेणापदं प्राप्तोऽस्मीत्यर्थः । गतश्रीरपगतसम्पदित्यर्थः । इति च मन्येतेति ॥ मन्येतेतिपदम् अवपद्यै इत्यत्राप्यनुषञ्जनीयमिति सूचितम् । स यः इत्यत्रत्यतच्छब्दस्यानुवादः- स प्राप्तव्यापत्परिहारायेति । प्राप्तातिदोषेण या आपत् तत्परिहारायेत्यर्थः ।सूत्रेति ॥ आश्वलायनसूत्रोक्तप्रकारमित्यर्थः । इतिपदस्य अयमर्ध इति पूर्वेणान्वयः । शंसयेदिति णिच्प्रयोगस्य निर्वाहमाह- अत्रेति ॥ प्राप्तव्यापत्परिहारादिरूपप्रयोजनत्रयमध्ये द्वे प्राथमिके प्रयोजने इत्यर्थः । होत्रेति ॥ यजमानार्थ इति योज्यम् । तृतीये शोभापगमाभावप्रयोजने तु शंसेदित्यर्थः । निन्दैवेति ॥ ‘विहरणेन' इत्यादिनोक्तदिशेति भावः । अन्यत्रेति ॥ प्राशस्त्यादावित्यर्थः । स्वरूपपरेणेति ॥ स्वार्थपरेणेत्यर्थः । द्वयोः विहृताविहृतशंसनयोरित्यर्थः । कः स्वाध्यायशब्दार्थ इत्यत आह-यज्ञादन्यत्र जपरूप इति ।। शस्त्रशंसने किमायातमित्यत उक्तं मूले-शंसनेऽपि चेति ॥ तद्व्याचष्टे- शंसनेऽपि चेति ॥ सप्तमी प्रथमार्थे इति भावेनोक्तम्- एवंविधं फलमेतदिति ।। विलोमाद्युपेतं शस्त्रशंसनमेवंविधफलं फलत्रयोपेतमित्यर्थः ।
‘अथ य:’ इत्यादिवाक्यव्याख्यानपरस्मृतौ गतश्रिय इत्यस्य यथाश्रुतार्थत्वे ‘श्रियो हानिम्’ इत्ययुक्तमत आह-गतेति ।। गता भविष्यतीति शङ्कयमाना इत्यर्थः । श्रोतृमनःसमाधानायाह- इदमिति ॥ अत्रेति ।। 'अथ यः' इत्यादिवाक्ये । होतुरिति ।। होतृनामकर्त्विजः । पूर्वं परपदं यजमानपरं व्याख्यातम् । पुनस्तदेवाऽवर्तमानं गतश्रीकपुरुषान्यागतश्रीकपुरुषपरमित्याह-परस्यागतश्रियश्चेति ॥
कर्मप्रकाशः
(स.टि.) आद्यद्वयार्थे इति ।। प्राप्तव्यो यत्परिहारः श्रीस्थैर्येचेत्याद्यद्वयार्थं यजमानहोत्रा शंसयेदित्यर्थः । तृतीये त्विति || शोभापगमाभावरूपहोतृगामि-प्रयोजनसिद्ध्यर्थं होता शंसेत् । शंसनं कुर्यादिति भावः । तर्हि वाक्यद्वयस्येति ॥ नेच्छन्दसां कृच्छादवपद्या इति वाक्यस्याविहृतषोळशीशंसनस्य प्राशत्स्ये । तात्पर्यमङ्गीकृत्य अत्रोक्तप्राप्तव्यात्परिहारादिफलत्रयमसत्यं कल्प्यताम् । तथा अथ यः पाप्मानमयजिघांसुः स्यादिति वाक्यस्य विहृतषोळशीशंसनस्य प्राशस्त्येतात्पर्यमङ्गीकृत्य पापपरिहारलक्षणफलमसत्यं कल्प्यतामित्यर्थः । भाष्ये अतो गतश्रीत्वेति तात्पर्यकथनमेतत् । अनेन स यो व्याप्त: विशेषेण पदं प्राप्तास्मीति मन्येत सः तथा स यच गतश्रीरहमिति संशयवान् स च होत्रा अविहृतं षोळशिनं शंसयेदिति ब्राह्मणस्यर्थः सूचितः । एतेन गतश्रीरिव मन्येतेत्यन्वये संशयज्ञानवानित्यर्थप्रसङ्गेन अतो गतश्रीत्वसंशयेऽपीति भाष्यमनुपपन्नं स्यादिति परास्तम् । मन्येतेत्यस्य व्याप्त इत्यनेनैव सम्बन्ध इत्यङ्गीकारात् । न चापगतकारणं दृष्ट्वा गतश्रीभविष्यामीति चमन्येतेति पूर्वटीकाविरोधः । मन्येतेत्यस्य गतश्रीरित्यनेन सम्बन्धाङ्गी- कारादिति वाच्यम् । तत्रैवशब्दमप्रयुज्य तदर्थकथनाय मन्येतेत्युक्तम् । न तु इवान्तस्य मन्येतेत्यनेन सम्बन्ध उक्त इत्यङ्गीकारात् ।
गूढवाक्यार्थपञ्चिका
(छ.टि.) परिधानीयामेकामिति । सर्वशस्त्राणां अधोभागाच्छादकवस्त्ररूपां ‘उद्यद्ब्रध्नस्य विष्टपं’ इत्येतद्रूपमित्यर्थः । ननु 'सयोव्याप्तागतश्रीरिव मन्येत' इति ब्राह्मणे अविहृतषोळशीशस्त्रशंसनस्य फलं लक्ष्मीप्राप्तिलक्षणं कथ्यते । तथा अथ ‘यः पाप्मानमपजिघांसु स्यात्' इति ब्राह्मणे विहृत-षोळशीशस्त्रशंसनस्य फलं पापनाशलक्षणं कथ्यते । तदुभयं ‘गौरवीतं षोळशी सोम कुर्वीत' इति द्वितीयखण्डे गौरवीतसाम्नोऽध्ययने तेजोरूपं शरीरकान्तिरूपं फलं, तथा ब्रह्मवर्चसरूपं वेदसच्छास्त्राध्यनजन्यकान्तिरूपं फलं कथ्यते । एवं नानदसाम्नोऽध्ययने सकलशत्रुपरिहाररूपं फलं कथ्यते । तदुभयसामानुसारित्वं च विहृताविहृतशंसनस्य तत्रैव तद्यदि नानदं कुर्युरित्यादिनोक्तम् । तेन विहृताविहृतशस्त्रशंसनयोः तेजोरूपादिफलवत्वस्य सिद्धत्वादित्याशंङ्कां परिहरति-इदानीमिति ॥ फलान्तरहेतुतया गौरवीतनानदसाम्नोऽपेक्षया विहृताविहृतशस्त्रशंसनयोः अधिकफलवत्वेन उत्तमत्वप्रतिपादनार्थमिति शेषः । सर्वगतार्थताप्रतीतीति । सर्वस्मिन् देशे काले च विद्यमानतया इत्यर्थः । विशब्दस्य अशेषार्थकत्वं आश्रित्य मूले व्याप्त इति श्रौतपदे विशेषेणापन्न इति व्याख्यातम् । तदपि अप्रतीतेर्व्याचष्टे आपदं गत इति ।। आध्यात्मकादिविपदं गत इत्यर्थः । मूले असंसृष्टपदेन ऋगन्तरस्थपादादिभिः असम्बद्धमुच्यते । मूले तेच्छन्दसां कृछ्रादिति वाक्यस्य व्याख्यानकारणीभूतां विप्रतिपत्तिं दर्शयति-एतद्विहरणोत्पादितादिति । छन्दसां ऋचां कृच्छ्रात् ऋगन्तरस्थ-संयोजनेन उत्पादितात् कष्टात् छन्दसां तदभिमानिनां इति तु आवृत्या व्याख्यातम् । देवानामिति शेषः । तस्य तात्पर्यं तदापादननिमित्तकात्पापादिति ॥ तेषां देवानां इतस्ततः वाक्यसंयोजनेन जातदुःखेन संयोजनकर्तुः जातात्पापात् । अहनेश्नैव अवपद्यै गच्छेयं प्राप्नुयामित्यर्थः ।
अवपूर्वात्पदगतावित्यतः लोटि आत्मनेपदे उत्तमपुरुषे इटि दिवादित्वात् इयनि ‘आडुत्तमस्य पिच्च' इति आडागमे 'आटश्च' इति वृद्धौ अव रूपस्य इति शब्दे परे अयादेशे 'लोपश्शाकल्यस्य' इति लोपस्य 'पूर्वत्रासिद्धम्' इति असिद्धत्वात् अवपद्या इतीति पुनः सन्ध्यभावः । नरकादेरवपत्ति प्राप्तिमिति तु शेषोक्तिः । अवपद्या इतीति शब्दस्य स यो व्याप्तो यजमानः ' इति बुद्ध्या होत्रा शंसयेदित्यनेनान्वयो ज्ञेयः । मूले अयथास्थितशंसननिमित्तादित्यस्य अन्यत्र विद्यमानवाक्यानां अनुसन्धानपूर्वकसंयोजननिमित्तकादित्यर्थो ज्ञेयः । तथा अवाग्गतिमिति अनेन श्रौतावपद्या इत्यत्रस्थ अवशब्दाक्षरार्थमुक्त्वा गतश्रीकतामिति तात्पर्यार्थानुवादपूर्वकं पद्या इत्यस्य प्राप्नुयामित्यर्थमभिप्रेत्य नेत्यनेनान्वय उक्तः । ‘स यो व्याप्त' इति ब्राह्मण- वाक्यस्य अन्वयादिज्ञानायाह तथा चायमर्थ इति ॥ व्याप्तोऽस्मि आपद्युक्तोऽस्मि । अपगमकारणं श्रिय इति शेषः ।
ननु असंसृष्टमित्यनेन यथास्थितमुच्यते । तथा च वेदपाठानुसारेण शस्त्रशंसने ओं शोमित्यनेन तथा एकश्रुतिस्वरेण अन्ते ओंकारेण च सह शस्त्रशंसनं न स्यादित्यत आह- अथ पोळशीत्यादिसूत्रोक्तप्रकारमिति ॥ आश्वलायनबोधायनादिसूत्रेषु यथाशस्त्रशंसनप्रकारः उपदिष्टः तत्प्रकारसहितमित्यर्थः ।
ननु तर्हि शंसयेदिति प्रयोजकणिजन्तं प्रति प्रयोजककर्त्ता 'स यो व्याप्त' इत्यनेनोक्तो यजमानः प्राप्तः । तस्य अवितशस्त्रशंसने आपत्परिहारः श्रीस्थैर्यं शोभाप्राप्तिश्रेति फलत्रयं स्यात् । तत्र युक्तम् । शोभाभावस्य विह्रुतशखरांरानेन होतरि विद्यमानत्वाच्छोभाप्राप्तेः तत्रैवाविहृतशंसनेन वक्तव्यत्वादित्यत आह अत्र हे प्रयोजन इति । तृतीयं होतृगामीति ॥ तथा च यः पुरुष इत्यनेन यजमानः होता चोच्यते । तर्हि शंसयेदित्यस्य यजमानपक्षे को वाक्यार्थ इत्यत आह- तत्राऽद्यद्वयार्य इति ।। आपत्परिहार- श्रीस्थैर्यरूपद्वयार्थे विवक्षिते कर्मणि क्रियायां प्रयोजकव्यापाररूपायां णिच्प्रत्यये होत्रा स्वतन्त्र कर्त्ता प्रयोजककर्त्ता यजमानः शंसयेदित्यर्थं इति भावः ।
ननु होतुः शोभाप्राप्तिरूपतृतीयार्थपक्षे णिजर्थाभावात् कथं शंसयेदिति प्रयोगापरिहार इत्यत आह-तृतीयेत्विति ।। तथा च स्वगतशोभार्यं स्वयं शस्त्रं शंसेदित्यर्थ इति भावः । भाट्टमतेन शङ्कते-नन्विति ॥ तथा च विहृतपक्षो न कार्यं इति पूर्वपक्षफलम् । पापपरिहारार्यत्वेनेति ॥ अथ यः पाप्मानमपजिघांसुः स्यादित्यादिना पापपरिहारार्थत्वेन वक्ष्यमाणस्यात्र पापजनकत्वेन निन्दायाः अयोगादित्यर्थः । प्रकारान्तरेण शङ्कते-तह्रिति ॥ अन्यत्रेति ॥ शस्त्रशंसनकर्तव्यत्वे फलं आपत्परिहारादिकम् । स्वरूपपरेणेति । 'स यो व्याप्तः' इति आगमः ' अथ यः पाप्मानं' इत्यागमश्च स्तुत्याद्यर्थवादाभावात् विहृताविहृतशंसनयोः फलकथनेन स्वरूपपरः । ‘अथ ज्योतिष्टोमेन स्वर्गकामो यजेत' इति वाक्यवत् आपत्परिहारादिफलवत्तायाः सत्यत्वस्यैवोक्तेः मिथ्यात्वासंभवादिति भावेन स्वोक्तार्थे प्रमाणमाहेत्यर्थः । प्रमाणे विलोमः पूर्वोत्तरार्धयोः वैपरीत्येनोच्चारणम् । संसर्गः ऋगन्तरस्थवाक्यसम्बन्धः । यथास्थितः वेदपाठानुसारेण पाठः । एते गृह्यन्ते । स्वाध्यायशब्देन समानाधिकरण्यासंभवादाह विलोमायुपेत इति । तथा च एतेषां त्रयाणां अर्शाद्यजन्तत्वेन स्वाध्यायविशेषणत्वं संभवतीति भावः । स्वाध्यायशब्दस्य 'स्वाध्यायोऽध्येतव्यः' इत्यादिवाक्यवत् वेद इत्यर्थप्रतीत वारयितुमर्थमाह जप इति ॥ यज्ञे शंसनेऽपि चेति विशेषोक्तेः यज्ञादन्यत्रे. त्युक्तम् । तथा च विलोमोऽस्यास्तीति विलोम ऋग्जपः शत्रुजयकृत् । एवं संसर्गसहितः यथास्थितपाठसहितश्चेति ग्राह्यम् । इदानीं शंसनेऽपि चेत्येतद्योजयति एवं विध इति ॥ यज्ञे विलोमादियुक्ते शस्त्रशंसनेऽपि शत्रुजयादिकं फलमित्यर्थः । अस्मिन्पक्षे स्वाध्यायो वेद विलोमयुक्तश्च शत्रुजयकृत्, तस्य वाक्यान्तरेण संसर्गः पापनाशनः । यथास्थितपाठः श्रीकर इत्यर्थो ज्ञेयः । विहरणशंसने बहुफलानि वक्तुं गतश्रीरिति प्रमाणान्तरं प्रवृत्तम् । तत्र नष्टश्रियः पुरुषस्य लक्ष्मीत्यागाभावलक्षणफलं कथ्यते इत्यतो व्याचष्टे-गता भविष्यतीति ।। भविष्यति गम्यादय इत्युक्तेः गतशब्दस्य गम्यादित्वात् भविष्यदर्थकत्वम् । ततश्च गतश्रीः भविष्यद्गमनश्रियः विरुद्धपुंसः विहृतऋक्-शंसनेन लक्ष्मीहानिर्न भवतीति भावः ।
ननु लक्ष्मीत्यागराहित्यं फलं अत्र प्रमाणे किमर्थं वक्तव्यम् । अथ यः पाप्मानमपजिघांसुः स्यादित्यत्र अनुक्तेः । उक्तार्थे प्रमाणस्य वक्तव्यत्वादित्यत आह-इदं फलमिति ।। यद्यप्यनुक्तं तथापि तस्य उपलक्षणार्थत्वं ज्ञापयितुं इदमुक्तम् । तथा श्रियो वृद्धिं यथास्थित इत्यत्रापि ज्ञेयम् । परस्यागतश्रियः इति परशब्दस्य अन्यवाचित्वात् पूर्वोक्तगतश्रीभिन्नस्य विवक्षितत्वादिति भावः । यथास्थितशंसनमिति ।। छन्दसामिति मूलेनान्वयः । प्रकारान्तरेण मूलं योजयति-यद्वेति । अस्मिन्व्याख्याने परशब्दप्रतियोगित्वेन पूर्वत्र प्राप्तं स्वशब्दं व्याचष्टे-स्वस्य होतुरिति ॥ होतुरित्युक्तिस्तु शस्त्रशंसनसम्बन्धेनेति ज्ञेयम् । तथा यजमानस्य फलसिध्यर्थं होत्रशंसनस्य क्रियमाणत्वात् परशब्देन यजमानो गृहीतः । गतश्रिय इति ।। होतुः यजमानस्येत्यर्थः । एवं अगतश्रिय इत्यत्रापि होतुः यजमानस्य चेत्यन्वयो बोध्यः । किञ्चित्वे चेति मूले किंचित्वं नाम अल्पत्वं । उभयत्वं तु इवशब्दान्वितविरुद्धार्थसहितम् । यथा 'य: नानेव पश्यति' इत्यत्र इवशब्देन भेदाभेदौ गृह्येते । यकारो नाम तिरस्कारो ग्राह्य: ।