अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विष:

( अतीदु शक्र इति मन्त्रार्थवर्णनम् )

मूलम्

३८-मूलम्-अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विष: । भिनत्कनीन ओदनं पच्यमानं परो गिरा || || विश्वा विश्वान् द्विषो अज्ञानपापादीन् अतीत्य शक्रो विष्णुः स्वभक्तमतिवहत्येव हि । 'यमेवैष वृणुते तेन लभ्यस्तस्यैव आत्मा विवृणुते तनूं स्वाम्', 'तेषामहं समुद्धर्ता मुत्युसंसारसागरात् । भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्इत्यादिप्रसिद्धमुशब्देनाह । द्विषोऽतीत्यातिशयेनात्मानं प्रत्येय ओहतेत्यनि-शब्दद्वयार्थः । ओदनम् उन्दतेः कर्मबन्धनम् अभिनद्भगवान् कानीनी वादरायणः । परः परमात्मा गिरैव पच्यमानं परिपाककाले । 'संश्लेषादो दनं कर्म पच्यमानं गिरैव हि । अभिनद्भगवान् व्यासरस्वभक्तानामशेषतः' इति व्याससंहितायाम् ॥ २ ॥

टीका

टीका- अति ॥ विश्वा विश्वानतीत्येत्यन्तर्णीतणिजर्थम् । शक्रः शक्तः । इच्छब्दस्यर्थः एवेति । उशब्दः प्रसिद्ध्यर्थः । अतो हीत्युक्तम् । कथमेतत्प्रसिद्धम्? यत्प्रतिपादयत्युशब्देनेत्यत आह-यमेवेति ॥ प्रसिद्धमित्यतः परम् इतिशब्दोऽध्याहार्यः । व्याख्यानेनैव प्रतीतमर्थं स्युटीक माह-द्वि इति ॥ न्दतेरुन्दनात्तत्कार्यात्संश्लेपान्निमित्तादोदनम् ।कन्यायाः कनीन च' । वृद्ध्यभावश्छान्दसः । अपत्यत्वोक्त्या प्राप्तां प्राकृतत्वभ्रान्तिमपाकर्तुं पर इत्युक्तम् । तत्तथा व्याचष्टे-पर इति ॥ गिरेव वेदवाक्यश्रवणादिनैव । परिपाककाल इत्यनेन शानचं समर्थयते ॥ २ ॥

भावदीपः

(रा. टि.) अतीति मन्त्रस्य, विश्वेति भाष्यस्य प्रतीकम् । 'अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः । भिनत्कनीन ओदनं पच्यमानं परो गिरा' विश्वत्यस्यार्थो विश्वानिति । विष्णोरेवेत्यर्थभ्रमनिरासायाह-अन्तर्णीतेति ॥ अपगमयित्वेत्यर्थः । शक्र इत्यस्य व्याख्यानं शक्त इति दर्शयति-शक्रः शक्त इति ।। हीति कस्य व्याख्येत्यत आह- उशब्द इति ॥ यमेवेतीति ॥ व्याख्यातैषा श्रुतिर्जिज्ञासासूत्रभाष्यटीकायाम् । व्याख्यानेनैवेति ॥द्विषोऽतीत्य' इत्यादिव्याख्यानेनैवेत्यर्थः । उन्दतेरित्यनुवादः उन्दनादिति व्याख्याउन्दी क्लेदने। तावता कथं कर्मबन्ध ओदनशब्दार्थ इत्यत आह-तत्कार्यात्संश्लेषान्निमित्तादिति ॥ कनीन इत्यस्य कानीन इत्युक्तिं साधयति-कन्याया इति ।। कन्याशब्दादपत्येऽर्थे परः प्रत्ययः कन्यापदस्य कनीनादेशश्च भवतीति सूत्रार्थ: । तर्हि 'तद्धितेष्वचामादे:' इति वृद्धया भाव्यम् । मन्त्रे कथं कनीन इत्युक्तिरित्यत आह-वृद्ध्यभाव इति || अपत्यत्वोक्त्येति ।। छान्दसकनीनेतिशब्देनेति भावः । तथेति ।। प्राकृतत्वभ्रमनिरासो यथा भवति येत्यर्थः । शानमिति ॥ पचतेर्लटि 'लट : शतृशानचावप्रथमासमानाधि- करणे' इति शानचि कृते, पच्यमानं वर्तमानपरिपाकमभिनदिति भेदनस्य परिपाककालीनतोक्त्या शानचः समर्थनं कृतं भवतीति भावः । अयमृगर्थ:-शक्रः शक्तः इन्द्रः परमेश्वरो विश्वा विश्वान् । अध्यापकास्तु विसर्गान्तं विश्वापदं पठन्ति । केचित्तु भाष्येऽपि विसर्गान्त एव पाठ इत्याहुः । द्विषोऽज्ञानादीन् अति अतीत्य अपगमयित्वा अत्योहते स्वात्मानं प्रति भक्तानिति योज्यम् । तदीयाज्ञानादिकं निवर्तयित्वा भक्तानात्मानं प्रापयतीत्यर्थः । कर्मबन्धसत्त्वात्कथमेतदित्यत उक्तं भिनदिति । कनीनः परः सर्वोत्तमो बादरायणो गिरा वेदवाक्यश्रवणादिनैव पच्यमानं कर्मबन्धनं भिनत् अभिनद् इति ।। २ ।।

कर्मप्रकाशः

(स.टि.)अतिदुः शक्र ओहत इन्द्रो विश्वा अति द्विषः । भिनत्कनीन ओदनं पच्यमानं परोगिरा' इति ऋचं प्रतीकतयोपादत्ते-अतीति ॥ अन्तर्णीतणिजर्थमिति । अतिक्रम्येत्यर्थ इति भावः । ननु भाष्ये ओदनं कर्मबन्धनमित्येव वक्तव्यम् । ओदनं उदतेः कर्मबन्धनमिति किमर्थमित्यत आह-उदतेतिरिति ।। उदतेरिति धातुनिर्देशोऽयम् । तेन तदर्थ क्लेदनं लक्ष्यते। तस्यात्रानुपपन्नत्वात् तत्कार्यबन्धो लक्ष्यते । ततश्चौदनमित्यनेन कर्मबन्धो लक्ष्यते । न तु मुख्यवृत्तिलभ्योऽर्थ इति अभिप्रेत्य ओदनं कर्मबन्धनमित्येव नोक्तमिति भावः । कानीनशब्दस्य कनीनशब्दपर्यायत्वसिद्ध्यर्थं कनीनशब्दं साधयति-कन्याया इति ॥ कन्याशब्दात् अपत्येऽण्-प्रत्ययो भवति । तत्सन्नियोगेन कन्याशब्दस्य कनीनादेशो भवतीति सूत्रार्थः । तर्हि आदिवृद्ध्या भाव्यमित्यत आह-वृद्ध्यभावं इति । ननु पच्यमानमिति शानजन्तप्रयोगोऽनुपपन्नः । कस्यचित्कर्मपाकस्यातीतत्वेन कस्यचिदेश्यलेन सर्वपाकस्य वर्तमानत्वाभावादित्यत आह- परिपाककाल इत्यादिनेति । शानचा सामान्य इत्यतः वर्तमानत्वमुच्यते । येनोक्तदोषः स्यात् । किं नाम तत्परिपाककालमादय' तस्य तस्य कर्मणः पाकस्य वर्तमानतोच्यते । तच न बाधितमिति शानजन्तप्रयोग उपपन्न इति भावः ।

गूढवाक्यार्थपञ्चिका

(छ.टि.) 'अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विपः । भिनत्कलीन ओदनं पच्यमानं परो गिरा' इति ऋचं प्रतीकतयोपादत्ते अतीति ॥ विश्वा विश्वानिति । श्रौतविश्वशब्दात् सार्थकात् द्वितीयाबहुवचनस्य शस पूर्वसवर्णदीर्घे 'तस्माच्छसो न' इति नत्वस्य छान्दसत्वादभावे रुत्वविसर्गे इति भावः । मूले द्विष इत्यस्य अज्ञानपापादीनित्यर्थः कृतः । अज्ञादीनां द्वेषित्वसंभवात् अतिशब्दस्य ससाधनक्रियावाचित्वेन योऽर्थो अतीत्येति सोऽनुपपन्नः, ईश्वरस्य स्वतः अज्ञानाद्यभावेन तदतिक्रमणासम्भवादित्यत आह-अन्तर्णीतेति । तथा च भक्तानां अज्ञानपापादीन् अतीत्य अतिक्रामयित्वेत्यर्थ उक्तो भवति । टीकायां अतीत्येतीतिपदानन्तरं पदमिति शेषः ।

मोक्षविरोधित्वेन ननु इन्द्र इत्युक्तेः श्रुतौ शक्त इति पुनरुक्तमित्यतः मूले नायं शक्रशब्दो रूढः किन्तु यौगिक इति भावेन शब्द : अर्थतोऽनुदित इति भावेनाह-शक्रः शक्त इति ।। इच्छव्दस्येति । इण् गतावित्यतः भावे क्विपि ह्रस्वस्य पिति कृति तुगिति तुगागमे निष्पन्नस्येति शेषः । मूले द्वितीयातिशब्दस्य ओहत इत्यनेनान्वयमभिप्रेत्य अतिवहतीति व्याख्याय इच्छब्दार्थेन एवेत्यनेनान्वय उक्तः- अतिवहत्यवेति ।। तत्र कर्माकाङ्क्षायां विश्वा इति पदस्य आवृत्या भक्तानिति व्याख्यानं कृतम् । तत्र हीति मूलस्थं पदं कस्य व्याख्यानमिति न ज्ञायत इत्यत आह-उशब्द इति । श्रुतिस्थ इति शेषः । यत्प्रतिपादयति यत्प्रमेयं श्रुतिः प्रतिपादयति एतत्प्रमेयं श्रुत्यादिना कथं प्रसिद्धमित्यर्थः ।

'यमैवैष वृणुते' इति श्रुतेः अयमर्थः । एषः विष्णुः यं भक्तं वृणुते स्वकीयत्वेनाङ्गीकरोति तेनैव लभ्यः प्राप्यः । तस्य भक्तस्य एषः आत्मा विष्णुः स्वां तनुं स्वस्वरूपं ईश्वरस्वरूपं वृणुते विवृणुते प्रकाशयति । अज्ञानादिनिवारणेन अपरोक्षीकरोतीति यावत् । अथवा जीवस्वरूपमेव प्रकटीकरोति । स्वरूपानन्दाविर्भावं करोतीति ।

तेषामिति भगवद्गीतार्थस्तु -मय्यावेशित चेतसां मन्निष्ठमनसां तेषां भक्तानां हे पार्थ अहं मृत्युसंसारसागरात् मृत्युर्मरणं संसारः अज्ञानादिरूपः तस्मात् सागरात् शीघ्रेण समुद्धर्ता भवामि तान् अज्ञानादिमृत्युरहितान् करिष्यामि' इति यावदिति ।

ननु मूले प्रसिद्धमुशब्देनाहेत्युक्तमसङ्गतम् । उशब्दस्य प्रसिद्धार्थकत्वात् प्रमाणोक्तभक्तमोचकत्वार्थकत्वाभावादित्यत आह-प्रसिद्धमित्यतः परमिति || तथा च श्रुतिः उशब्देन विष्णोः अज्ञानादिनाशपूर्वकं मोक्षदातृत्वं यमेवैष इत्यादिश्रुतिस्मृतिप्रसिद्धमित्याहेति मूलयोजना सूचिता ।

ननु अतिशब्दद्वयस्यार्थः विश्वा द्विषो अतीत्यनेन स्वभक्तान् अतिवहतीत्यनेन च अतिक्रमातिशयरूपः प्रतीयते अतः पुनः द्विषोऽतीत्यादिमूलेन किमर्थं उच्यत इत्यत आह-व्याख्यानेनैवेति ॥ विश्वा द्विष इत्यादिना स्फुटीकर्तुमिति । द्वितीयातिशब्दस्य अतिशयेनेति अर्थकर्थनात् आत्मानं प्रतीति कर्मोक्तेश्च स्फुटीकरणं ज्ञातव्यम् ।

ननु श्रौतं ओदनपदं धृत्वा मूले कर्मबन्धमिति वक्तव्ये मध्ये उन्दतेरिति वचनं असङ्गतमित्यत आह-उन्दतेरुन्दनादिति || अयमभिप्रायः । भक्तस्य दुष्कर्मबन्धः श्रुतौ ओदनशब्देनोक्तः । रूढ्या यद्यपि ओदनशब्दः अन्नवाचक तस्य प्रकृतेऽसङ्गतेः योगेन कर्मबन्धग्रहणे मूले उन्दतेरिति ओदन-शब्दप्रकृत्यर्थप्रवृत्तिनिमित्तत्वेन कथ्यते इति भावेन उन्दनादित्युक्तम् । 'उन्दी क्लेदने' इति धातोः क्लेदनादित्यर्थः । क्लेदनं नाम दु:खीकरणम् | असम्बन्धस्य कर्मबन्धस्य दुखजनकत्वासंभवादाह-तत्कार्यात्संश्लेपादिति || क्लेदनमेव कार्य यस्य संश्लेषस्य तस्मात्प्रवृत्तिनिमित्तादित्यर्थः । तथा च क्लेशजनकत्वात् ओदनशब्देन दुष्कर्मबन्धनं गृह्यते ।

ननु मूले श्रौतकनीनशब्दस्य 'कानीनो बादरायणः' कथं व्याख्यानमित्या शङ्कायां तत्साधनार्थं पाणिनीसूत्रं पठति- कन्यायाः कनीन चेति ॥ -अस्यार्थः । कन्याशब्दात् अपत्यार्थे अण्प्रत्ययः स्यात् । कन्याशब्दस्य कनीन इत्यादेशश्चेति । ननु तर्हि 'तद्धितेष्वचामादे:' इति आदिवृद्धौ कानीन इति स्यात् कथं कनीन इति ह्रस्व इत्यत आह-वृद्धयभाव इति || ' सर्वे विधयः छन्दसि विकल्प्यन्त' इत्युक्तेरिति भावः । ननु ऋचि 'परो गिरा' इति परशब्दो व्यर्थः । तथा मूले स्पष्टार्थकत्वात् परशब्दस्य व्याख्यानं च व्यर्थमित्यत आह-अपत्यत्वोक्त्येति । कनीनशब्देन कन्याशब्दस्य अपत्यार्थे आदेशभूतेनेति शेषः । पर इत्युक्तमित्येतत्पूर्वं ऋचीति शेषः । तत्तथेति ॥ व्यासस्य प्राकृतत्वभ्रान्तिः । यथा नायाति तथेत्यर्थः । परशब्दःपरोऽरि- परमात्मनो:' इत्यभिधानात् द्वाष्याद्यर्थकत्वेऽपि परमात्मार्थकस्य ग्रहणे 'निर्विकारोऽक्षर शुद्ध:' इति वचनात् परमात्मनो निर्विकारत्वात् व्यासस्य परमात्मत्वेन निर्विकारत्वसिद्धेरिति भावः । ओदनविशेषणं पच्यमानमिति तत्र ऋचि गिरेति करणत्वेनोक्तस्य यत्किंचिद्वाक्यस्य कर्मबन्धपाककारणत्वानुपपत्तेराह- गिरैव वेदवाक्यश्रवणादिनैवेति || आदिशब्दात् तदर्थज्ञानेनेति गृह्यते ।

ननु तर्हि पच्यमानमितिशब्दात् पचेः कर्मणि लडन्तात् शानजादेशे सतिआने मुक्' इति मुगागमे निष्पन्नात् वर्तमानार्थप्रतीतेः सर्वेषां कर्मबन्धस्य एकस्मिन् काले परिपाकासंभवात् कथमिदमुक्तमित्याशङ्कायां मूले परिपाककाले इत्युक्तं तत् घटयति-परिपाककाले इत्यनेनेति ।। न सर्वेषां कर्मपाकः एकस्मिन्काले उच्यते । किन्तु यस्य वेदादिश्रवणेन वेदार्थज्ञानपरिपाकः यस्मिन् काले जायते स एव कालः पच्यमान इत्यत्र वर्तमानत्वेनोच्यत इति भावः ।

मूले स्वोक्तार्थे प्रमाणमुक्तम्-संश्लेषादिति । अस्यार्थः । जीवे भोगतत्वज्ञानाभ्यां विनाऽनपगमेन अतिसम्बन्धान्निमित्ता तु ओदनशब्दवाच्यं स्वभक्तानामशेषकर्मप्रारब्धादिकं वेदादिश्रवणजनिततत्वज्ञानपरिपाककाले पच्यमानं परिपक्कं भगवान्व्यासः अभिनत् नाशितवानिति ।

मन्त्रार्थस्तु- शक्रः शक्तः शक्तेः स्फायितंचीत्यादिना रक् । इन्द्रो विष्णुः कनीनः कानीनः कन्यावस्थायां ऋतुस्रातत्वरहितत्वावस्थायां सत्यवत्यां प्रादुर्भूतः तत्र हेतुः परः परमात्मा पितृमातृशुक्लशोणितसम्बन्धशून्यः वेदव्यासरूपी गिरा वेदश्रवणादिना पच्यमानं भक्तानां प्रतिबन्धकं कर्म-परिपाककाले पक्कं ओदनं दुष्कर्मसम्बन्धं भिनत् अभिनत् 'भिदृ विदारणे' इत्यतः लङि रुधादित्वात् श्रमि छान्दसो अडभावः । नाशितवान् । तथा विश्वा समस्तान् द्विषः भक्तानां अज्ञानपापादिद्वेषिणः अति अतीत्य अतिक्रामयित्वा तद्रहितान् कृत्वेति यावत् । स्वभक्तान् अत्योहते इत् अतिवहत्येव अतिशयेनाऽऽत्मानं प्रापयति । दशगणिधातुपाठानन्तरं बहुलमेतन्निदर्शनमित्युक्तेः वहधातुसमानार्थक उहधातोर्ज्ञापितत्वात् प्रापयत्यर्थकोहधातोः लटि शिपि लघूपधगुणे ओहते इति रूपम् । उ प्रसिद्धम् ।श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम् ।।’ ‘यमेवैष वृणुते' इत्यादाविति शेषः ॥ छ ॥