ऋषिपरम्परा
तुलनात्मक विश्लेषणम्
मुण्डकोपनिषत्
ऋषिपरम्परा
सृष्टेरादौ भगवतः नारायणस्य चतुर्मुखः प्रथमः पुत्रः समजनि । सः भगवतोपदिष्टां ब्रह्मविद्याम् अथर्वाय ज्येष्ठपुत्रायोपदिदेश, इति भगवती उपनिषदाह- ‘अथर्वाय ज्येष्ठपुत्राय प्राह' इति । यद्यपि पुराणेषु चतुर्मुखस्य सनकादयः प्रथमजाः पुत्रा इति, भगवान् शिवश्च प्रथमज इत्यपि तत्र तत्र श्रूयते । अथर्वनामकस्य ज्येष्ठत्वं कापि न श्रूयते । अत्र व्याख्यातं भगवत्पादाचार्यैः-
'मनोर्वैवस्वतस्यादौ अथर्वा ब्रह्मणोऽजनि ।
मित्रश्च वरुणश्चाथो प्रहेतिर्हेतिरेव च ।।
ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः ।
सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोऽग्रजः ॥' (पृ. ३३२)
इति ब्रह्माण्डे ।' इति ।
अनेन स्फुटं समाधिः लब्धा - पूर्वपरार्धस्यान्तिमे कल्पे (पद्मकल्पे ) शिवः ब्रह्मणः प्रथमजः सुतः, द्वितीयपरार्धस्य प्रथमे कल्पे ( वाराहे) सनकाद्याः सुताः । तत्रापि ब्रह्मणः प्रथमे दिने सप्तमे वैवस्वतान्तरे अथर्वा ब्रह्मणः प्रथमजः सुतः । ततः मित्रः, वरुणः, प्रहेतिर्हेतिरिति च चत्वारोऽजनिषत । तत्र प्रहेतिर्हेतिश्चेत्युभौ राक्षसौ, सूर्यरथचक्रप्रेरणया नक्षत्रतिथीनां वृद्धिह्रासहेतुभूतौ । एवं च चतुर्मुखस्य अथर्वा ज्येष्ठपुत्र इत्युक्तम् उपपन्नतरम् । अयमथर्वा अङ्गिरे ब्रह्मविद्यां प्रोवाच । स च भरद्वाजपुत्राय सत्यवहाय प्राह । अयं च सत्यवहोऽङ्गिरसे ब्रह्मविद्याम् उपदिदेश । अङ्गिरसा शौनक इमां विद्याम् अधिजगौ । ‘न ह वा अविदितार्षच्छन्दोदेवतादि' इति प्रमाणानुगुण्येन उपनिषदः |
ऋषिदेवतापरम्पराऽवश्यमेव विज्ञेया | अन्यथा नरकप्राप्तिरूपानर्थः श्रूयत इति भगवत्या श्रुत्या इयमुपदिष्टा ।
परापरविद्याविचारः
परापरविद्यास्वरूपविषये अस्ति वेदान्तिनां विप्रतिपत्तिः । तत्र आथर्वणोपनिषदि श्रूयते - 'द्वे वाव विद्ये वेदितव्ये परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदः अथर्ववेदः शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषमिति । अथ परा - यया तदक्षरमधिगम्यते' (आथ. १.४ - ५ ) इति । अत्र साङ्गान् वेदानपरविद्यात्वेनोत्तत्वा अक्षराधिगतिकरणस्य परविद्यात्वमुक्तम् । 'वेदा ह्येवैनं वेदयन्ति तस्मादाहुर्वेदा:' (त. उ.पै.) इति वेदानामक्षराधिगतिकरणत्वस्याबाधित- त्वेऽपि तेषामपरविद्यासु परिगणनं विवक्षाविशेषमनुरुध्येति भाति । स आशयविशेषः श्रीमध्वगुरुचरणैः प्रमाणोदाहरणपुरस्सरं निरूपितः –
‘ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः ।
ता एव परमा विद्या यदा विष्णोस्तु वाचकाः ।।' इति ( आ.भा. १ )
अयमाशयः-
वेदार्थनिर्णायकन्यायग्रथनात्मकब्रह्ममीमांसाशास्त्रानुप-
कृताः हि वेदादयः न परस्वरूपपरिचायकाः, अपि तु तदुपकृता एवेति वेदेन ईश्वरज्ञाने जननीये इतिकर्तव्यताभूतं मीमांसाशास्त्रम्, बीजनिष्ठाङ्कुर- जननशक्त्युद्बोधकजलमिव अक्षराधिगतिकरणं भवति । यागीयहिंसाया इतिकर्तव्यताभूतायाः प्राबल्यमिव, भगवदपरोक्षज्ञानसाधनेषु श्रवणादिषु गुरुप्रसादस्येतिकर्तव्यताभूतस्य प्राबल्यमिव च, मीमांसाशास्त्रस्यापीति- कर्तव्यताभूतस्य प्राबल्यमव्याहतम् । श्रुति-युक्ति आप्तिमूलकत्वाच्चास्य निरवधिकं प्रामाण्यम् ।
एतेन उपनिषदः परविद्येति व्याख्यातारो निरस्ताः । ऋगादिग्रहणेन तासामपि गृहीतत्वात् । उपनिषज्जन्यं ज्ञानं परविद्येत्यप्यचारु । अक्षराधि- गतिकरणत्वाभावात् ।
अपौरुषेयत्वेन सकलप्रमाणोपजीव्यानां वेदानामपरत्वं तदधीनप्रामाण्य- कस्य ब्रह्ममीमांसाशास्त्रस्य तु कथं परत्वमिति शङ्का निपुणतरं निराकृता तारस्वरूपप्रकाशे-
‘परापरत्वयोर्धर्मिविशेषाधीनत्वेनापरिनिष्ठितत्वात् प्रामाण्यस्थापक- निर्दोषतायाः स्वतःसिद्धत्वेन तेषामधिकं प्रामाण्यम्, सूत्राणामाप्तिमूलत्वेन निर्दोषत्वमिति तदमुख्यतयां प्रामाण्यस्यामुख्यत्वमिति स्थितावपि, विद्या- पदार्थतावच्छेदककोटिप्रविष्टस्य सूत्रसाध्यस्य यथार्थज्ञानस्य निश्चित- प्रामाण्यकत्वेन प्रवृत्तिद्वारा पुरुषार्थोपयोगितयाऽधिकेन विद्यात्वेनास्य परत्वात् परविद्याशब्दमुख्यार्थत्वम्, सूत्राननुगृहीतवेदसाध्यज्ञानस्या- निर्धारणात्मकस्य प्रवृत्त्यादिद्वारा पुरुषार्थानुपयोगितया तज्जनकानां केवल- वेदानामपरविद्यात्वं चोपपन्नमेव ।
यथा पित्रपेक्षया पुत्रस्य स्वभावतोऽवरत्वेन पितुः पुरः पूज्यत्वाभावेऽपि तपोज्ञानादिभिराधिक्ये तद्गुणप्रयुक्त श्रेष्ठचेन पितुरपेक्षया श्रेष्ठत्वादि, तद्वत् इति ।
अत एव ‘संहितापाठतः प्रोक्तं द्विगुणं पदपाठतः ।' इत्यारभ्य संहितापाठात् पदपाठस्य, ततः क्रमपाठस्य द्विगुणितफलहेतुत्वमुक्तत्वा 'प्रत्यक्षरं तु लभते गायत्रीशतजं फलम्' इत्यनेनात्यन्तं ब्रह्मज्ञानहेतुभूत- तु ब्रह्मसूत्राणामतिशयितफलत्वोक्तिरपि वराहपुराणोक्ता सुष्षूपपद्यते ।
एवमेव ब्रह्मसूत्राणामुत्तमत्वे पुराणान्तरवचनान्यप्यनुसन्धेयानि । यथा-
‘व्यासोक्तब्रह्मसूत्राणां सकृदावर्तनात् नृप ।
गायत्र्याः सर्ववेदानां सहस्रावृत्तिपुण्यभाक् ।
अर्थतात्पर्यवचनं सूत्रपाठं पठन् द्विजः ।
दशसाहस्रगायत्रीजपपुण्यफलं लभेत् ।
स भवेत् सिद्धसङ्कल्पः परत्राप्यत्र किं पुनः ।।' इति ॥
एवं च वेदब्रह्ममीमांसाशास्त्रयोरुभयोरपि परविद्यात्वेऽपि श्रुतियुक्ति- मूलत्वेन सर्वज्ञभगवद्बादरायणप्रणीतत्वेनाप्तिमूलत्वेन च निरतिशयं प्रामाण्यं परविद्यात्वं च ब्रह्मसूत्राणामेवेति विज्ञेयम् ।
कीदृशं कारणत्वम् ?
ब्रह्म जगत्कारणमित्यत्र न वेदान्तिनो विवदन्ते । तथापि जगत्कारणत्वनिरूपणावसरेऽस्ति महती विप्रतिपत्तिः । भास्कराचार्यास्तु मन्यन्ते- ‘यथा मृदेव घटात्मना परिणमते तथैव ब्रह्म विश्वात्मना परि- णमते' इति । मायावादिनो मन्यन्ते - निर्गुणं निष्कलं ब्रह्मैव जगदा- रोपाधिष्ठानम् । एवं चात्र जगदारोपाधिष्ठानत्वमेव जगत्कारणत्वं ब्रह्मणः तटस्थं लक्षणं भवितुमर्हति । 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुत्युक्तं स्वरूपलक्षणम् इति । ब्रह्मणः जगत्कारणत्वमुपवर्णयन्तोऽपि रामानुजीया अभिन्ननिमित्तोपादानकारणमिति व्याचक्षते । विकारापर्यवसायि अवस्थान्तरयोगित्वमुपादानत्वमिति उपादानशब्दार्थः दर्शनेऽ- स्मिन्नभिहितः ।
भगवती श्रुतिस्तु ब्रह्मण: जगन्निमित्तत्वमात्रमाहेति स्फुटं विज्ञायते- 'यथोर्णनाभिः सृजते गृह्णते च
`यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरुषात् केशलोमानि
तथाक्षरात् सम्भवतीह विश्वम् ।।' (खं. १, मं. ७) इति ।
अनेनेदमुदितं भवति - नामरूपात्मकमिदं विश्वं प्रकृत्यात्मना निलीनं प्रलये भगवदुदरे निष्क्रियमेवावतिष्ठते । सृष्टिकाले भगवान्नारायणः स्वोदरस्थां प्रकृतिं बहिर्निधाय महत्तत्वाद्यात्मना परिणमय्यान्ते पञ्चमहाभूतांश्च ससर्ज । तानेव पञ्चमहाभूतानुपयुञ्ज्य ब्रह्माण्डं निर्ममे । एवं चात्र स्वोदरे विद्यमानस्य जडवस्तुनः बहिर्निक्षेपः तस्यैव विकसनं च सृष्टिरिति स्फुटं विज्ञायते । बहिर्निक्षिप्तस्यैव संहारकाले पुनर्जठरे निधानं संहार इति च गेगीयते । एष एवार्थ उपनिषदि निरवकाशं सोदाहरणं चोपपादितः । ऊर्णनाभिर्जन्तुविशेषः स्वोदरस्थं वस्तु बहिर्निष्कासयति स्थापयति च । कञ्चित्कालानन्तरं बहिर्निक्षिप्तमेव स्वोदरे स्थापयति । अनेनेदं स्फुटं विज्ञायते नोर्णनाभिर्जन्तुविशेष एव बहिः स्थितवस्त्वात्मना परिणमत इति । अनेन परिणामवादिनः भास्कराः निरस्ताः । नापि रज्जौ सर्प इव ब्रह्मणि नामरूपात्मकमिदं विश्वमारोपितम् । तथात्वे उपनिषदि रज्जुसर्पदृष्टान्त एव निरूप्येत । तथा च ब्रह्मणा स्वोदरस्थप्रकृत्यात्मकजगतः ज्ञानपूर्वं बहिःस्थापनमेव सृष्टिः, तथैव स्वोदरे स्थापनं संहार इति च विज्ञायते । स्फुटीकृतोऽयमर्थ उत्तरत्रोपनिषदि - 'तपसा चीयते ब्रह्म ततोऽन्नमभिजायते' इत्यादि । अथ च ' यः सर्वज्ञः स सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते ।' इत्यत्र सृष्टेः ज्ञानपूर्वकत्वोपवर्णनेन ब्रह्मणः निमित्तत्वम्, सर्वज्ञत्वादिधर्मनिरूपणेन तस्य सगुणत्वं च सश्रद्धं प्रतिपादितम् । अनेन विवर्तवादिनो निरस्ताः ।
यदि ब्रह्म जीवजडात्मकस्य समग्रस्यास्य विश्वस्य कारणं भवति तर्हि कार्यप्रपञ्चे नानाविधवैषम्यसद्भावाद् ब्रह्मणोऽपि वैषम्यादिदोषः । उच्यते-नानाविधबीजानां जनन्यपि धरित्री यथा तत्तद्योग्यतानुसारेणाङ्कुरं जनयन्ती न वैषम्यादिदोषभाक् तथा ब्रह्म तत्तद्योग्यतानुसारेण अनादिकर्मानुसारेण च जीवानां सृष्टिं विदधत् न वैषम्यदोषभाक् ।
ननु कं प्रयोजनमुद्दिश्य विदधाति विश्वं ब्रह्म ? यदि न किमपि प्रयोजनं तर्हि 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायानुरोधेन प्रवृत्तिरेवानुपपन्ना । यदि किमपि प्रयोजनं प्रतीयते तर्हि प्राक् तस्याविद्य- मानत्वेन अपूर्णताप्राप्तिः । इयमाशङ्का श्रुत्यैव समाहिता- “यथा सतः पुरुषात् केशलोमानि' इति । अयमाशयः यथा निरोगस्य पुरुषस्य अना- यासेनैव केशलोमानि जायन्ते तथैव भगवताऽपि विश्वमिदं सृज्यते । अनायाससाध्यत्वादस्याः सृष्टेः न प्रयोजनप्रतीक्षा । दृश्यन्ते हि पर- प्रयोजनायैव नानाविधलोकसेवां कुर्वन्तः महान्तः । यद्यल्पमेधसां परार्थमेतादृशी प्रवृत्तिः तर्हि अनल्पचेतसः सर्वज्ञस्य पूर्णस्य भगवतः प्रवृत्तिरेतादृशीति किमस्ति प्रतिपादनीयम् । तदुक्तं भगवता सूत्रकारेण- ‘न प्रयोजनवत्त्वात्’ (ब्र.सू. २.१.३३) इति । सृष्ट्यादिना स्वस्य प्रयोजनाभावेऽपि परेषां तद्भावाद् अस्ति सार्थक्यमिति सूत्रार्थः । एवं चास्मिन् श्लोके सर्वज्ञं निर्विकारं ब्रह्म जगतः निमित्तकारणं भवत् परप्रयोजनायैव सृष्ट्यादिकं विधत्त इति विज्ञायते ।
द्वा सुपर्णा सयुजा
अत्रैकस्मिन्नेव देहाख्ये वृक्षे जीव - परमात्मानौ पक्षिणाविव विहरतः, तत्र जीवः स्वानुष्ठितं कर्मफलमुपभुङ्क्ते दुःखी च प्रतिभातीति जीवस्वरूपमुप- वर्णितम् । ब्रह्म तु जीवेन कर्म कारयत् कुर्वदपि च निर्लेप एवावतिष्ठते कर्मफलमभुञ्जन्नपि प्रकृष्टतया प्रकाशत इति ब्रह्मस्वरूपमुपवर्णितम् । एवं च विरुद्धधर्माधिकरणयोः जीवेश्वरयोः भेदोऽत्र कण्ठरवेणैव प्रतिपादितः।
अत्रैक आहुः- भगवती श्रुतिरियं प्रत्यक्षसिद्धमेव भेदमनुवदतीति न स्वार्थे तात्पर्यवती । श्रुतेस्तु निरस्तसमस्तभेदे निर्गुणे ब्रह्मण्येव तात्पर्य- मिति । अत्रोच्यते- जीवेश्वरौ न प्रत्यक्षप्रमाणेन प्रतीयेते । ईश्वरस्तु सर्वथाऽप्रत्यक्षः । जीवस्तु अहमित्याकारकमानसप्रत्यक्षेण वा साक्षिप्रत्यक्षेण वा प्रतीयात् । तथापि स किं देहादिव्यतिरिक्तः न वेत्यत्र अस्ति महती विप्रतिपत्तिः । तत्स्वरूपस्य प्रत्यक्षवेद्यत्वेऽणुत्वमहत्वादिविषये देहेन्द्रि- याद्यतिरिक्तत्वविषये च विप्रतिपत्तिर्नैव भायात् । तदेवमकामेनापि तत्स्वरूपं श्रुत्यैव सिद्ध्यतीति वक्तव्यम् । एवं च जीवस्याज्ञानबन्धनादिविकारान् बोधयन्ती श्रुतिः तद्विरुद्धधर्मवता ब्रह्मणा साकमभेदं कथं प्रतिपादयेत् । अथ च प्रत्यक्षसिद्धभेदमेव श्रुतिर्यद्यनुवदति तर्हि प्रत्यक्षानुमानसिद्ध- त्वादेव भेदस्य तद्विरुद्धार्थप्रतिपादकस्याऽगमस्य ‘यजमानः प्रस्तरः ' इत्यत्रेवार्थान्तरमुपवर्णनीयम् । अन्यथा आगमस्याप्रामाण्यं दुष्परिहरम् ।
अथैवमुच्येत- श्रुतिर्नानानिदर्शनैः जीवेश्वरस्वरूपं प्रतिपादयति । न कण्ठरवेण क्वापि भेदमिति । तन्न मनोरमम् । यदि विरुद्धधर्माधिकरणत्वेन श्रुतिर्जीवब्रह्मणी प्रतिपादयति किं ततोऽन्यद् भेदप्रतिपादनं नाम ? सिंह- ग्रामसिंहयोर्लक्षणे कथिते तादृशलक्षणविशिष्टपदार्थावगमे किं तयोर्न भेदः प्रतिभासते? वस्तुदर्शनमेव हि भेददर्शनम् । वस्तुस्वरूपत्वाद् भेदस्य । नाङ्गुलिद्वयवत् वस्तुभेदयोः प्रत्येकं प्रतिभासः । एवं च विरुद्धधर्माधि- करणत्वेन जीवेशयोः श्रुतौ प्रतिपादने भेदोऽपि स्फुटं प्रतीयत एव ।
एतेन प्रत्यक्षं वस्तुस्वरूपमात्रग्राहकमागमस्तु अभेदमवबोधयतीति वदन्तः परास्ताः । साक्षिप्रत्यक्षं हि अल्पज्ञत्वादिगुणविशिष्टत्वेनैव जीवं बोधयति । तद्विरुद्धस्वभावं चेश्वरम् । नाहमीश्वर इति सर्वेषां प्रतीतिसद्भावात् । एवं च प्रत्यक्षादिना प्रतीयमानो जीवः भिन्न एव प्रतीयत इति नागमः प्रत्यक्षविरुद्धमभेदं बोधयितुमलम् ।
निरञ्जन: परमं साम्यमुपैति
यदा जीवः विश्वकर्तारं रुग्मवर्णम् अनन्तकल्याणगुणपूर्ण ब्रह्म पश्यति तदा ब्रह्मणा परमं साम्यमुपैति इति भगवती श्रुतिराह । अत्रोक्तं च साम्यं, समानानन्दरूपमेवेति केचन व्याचक्षते । तन्न मनोरमम् । प्रकृतिबन्ध- पापनिमित्तकसकलदुःखानाम् आत्यन्तिकनिवृत्तिरेवात्राभिहिता । एवं च निर्दुःखपूर्णानन्दत्वादिना साम्यमिह विवक्षितम् । अत एवाऽह भगवान्- 'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥' (भ.गी. १४.२) इति ।
अत्र दुःखाभावपरानन्दादिनैव साम्यमुपवर्णितमिति आनन्दसाम्यवादः प्रमाणबहिर्भूत एव ।
स वेदैतत् परमं ब्रह्मधाम
अत्र भगवत्पादाचार्यैः अतिरोहितविज्ञानः, अज्ञानादिदोषानास्कन्दितः मुख्यप्राण एव ब्रह्मधामशब्देनाभिधीयत इति सप्रमाणं निरूपितम् । जीवस्य ब्रह्मसाक्षात्कारो नाम तारतम्यकक्ष्यान्तगकर्ममानिपुष्करान्तर्गत- ब्रह्मसाक्षात्कारपुरस्सरम्, अधिकार्युत्तमे सर्वेषां बिम्बभूते स्वहृदिस्थ- मुख्यप्राण एव स्वबिम्बरूपदर्शनम् । तच्च मुख्यप्राणप्रसादेन विना न कदापि सम्भवितुमर्हति । अतोऽच्छिन्नधर्मायं प्राणः सुधीभिः सदोपास्य इति उपनिषदाशयः विवृतः-
'प्रधानं धाम विष्णोस्तु प्राण एव प्रकीर्तितः ।
उपायैर्यो विजानीयात् प्राणस्थं परमेश्वरम् ।।
तस्य प्राणे हरिर्नित्यमाविष्टो भवति ध्रुवम् ।
नित्यं प्राणे स्थितस्यैव विष्णोरावेश एव हि ।।
मन्त्रादिभिस्तथा विष्णुः सदा प्राणस्थितोऽपि सन् ।
ज्ञानदीप्त्यादिकं कुर्याज्ज्ञानिनः पुनरेव तु ।।' (पृ. ४२६ ) इति ।
सर्व एकीभवन्ति
अत्र जीवब्रह्मणोरभेद एव प्रतिपादित इव दृश्यते । न ह्यापातप्रतीत एव वाक्यार्थः । अपि तूपक्रमाद्यविरुद्धः युक्तिशुद्धश्चार्थः सर्वैरनुसन्धेयः । एवं च प्रकृते जीवब्रह्मणोः न स्वरूपैक्यमिह प्रतिपादितम् अपि तु एकीभावशब्देन अविरोधः, अभिव्यक्ताप्राकृतज्ञानानन्दादिना सादृश्यं वैकुण्ठादिलोकस्थितिः (एकदेशस्थितिः) इह प्रतिपादिता । उक्तं भगवत्पादाचार्यै:-
'अविरोधश्च सादृश्यमेकदेशस्थितिस्तथा ।
एकीभावस्त्रिधा प्रोक्तो नैकीभावः स्वरूपयोः ।
कुतोऽभूतस्य भवनं स्वरूपस्यैक्यमेव हि ।। ' (पृ. ४७४ )
अत एवोत्तरत्र श्रुतिः- यथा स्यन्दमाना नद्यः समुद्रं प्राप्यादर्शनं गच्छन्ति, तथा जीवोऽपि ब्रह्म प्राप्याऽमुक्तैरज्ञेयः, अदृश्यश्च भवतीति व्याख्यास्यति । यद्यपि समुद्रं प्राप्तानां नदीनां स्वरूपनाश एव, न तत्र पार्थक्येन स्थितिरिति आपाततः प्रतीयते । परन्तु व्याख्यानतो विशेष - प्रतिपत्तिरिति न्यायेन पुराणेषु वेदव्याख्यानभूतेषु, समुद्रेषु पृथगेव विद्यमानानां नदीनां जलं मुख्यवायुः स्वीकृत्य मेघेषु संस्थाप्य यथाकालं प्रबर्षतीति श्रूयते-
‘स्वकीयमुदकं नद्यः समुद्रे नैव जानते ।
वायुस्तु तत् पृथग् ज्ञात्वा मेघे कृत्वा प्रवर्षति ।। ' (पृ. ४४३ ) इति ।
'सर्व एकीभवन्ति' इति वाक्यस्यापातप्रतीताभेदपरत्वे 'परेण ' 'अव्ययेन' इति च तृतीया स्यात् न सप्तमी ।
‘कर्माणि विज्ञानमयश्चात्मा' इत्यत्र कर्मणा ब्रह्मैक्यस्य श्रूयमाणत्वात् जीवेनेव कर्मणापि ब्रह्मैक्यमनभिप्रेतमङ्गीकरणीयं स्यात् ।
‘रथ्याजलं गङ्गाजलेनैकीभूतम्', 'गोष्ठे गाव एकीभूताः', 'एकीभूता सेना' इत्यादाविवात्रापि एकत्वव्यवहार उपपादनीयः । तदुक्तं न्यायामृते- 'रध्वाजलं विष्णुपदीजलेनैकत्वमागतम् ।
इतस्ततो गता गावः सायमेकत्वमागताः । एकीभूता तु सा सेना पाण्डवानभ्यवर्तत ।
इत्यादिवद् भवेदेकीभवन्तीत्यादिवेदवाक् ।' इति ।
एवं चात्र एकस्थानस्थितत्व-अप्राकृतज्ञानानन्दादिरूपत्वादिधर्म- पुरस्कारेणैवैक्यवचनं प्रवृत्तमिति विज्ञेयम् ।
अपि च न जलस्य जलान्तरेणैकीभावः क्वचनानुभूयते । वृद्धेर्दर्श- नात् । अतोऽत्र संश्लेष एवाभिमत: । अत एव ' तादृगेव' इति श्रुतिः सादृश्यमात्रं ब्रवीति ।
‘नदीपाथःपरमाणूनां समुद्रपाथः परमाणुभ्यः पूर्वावस्थितेभ्यो भेद एव नाभेदः' इति भामत्युक्तेः नदीसमुद्रदृष्टान्तेन जीवब्रह्मणोरभेदः वक्तुं न शक्यते । द्रवद्रव्यत्वेन अन्योन्यं व्यामिश्रणात्तु स्फुटं भेदाप्रतिभासः । तदुक्तं न्यायामृते-
'माषादिवच्च राश्यादौ सभादौ ब्राह्मणादिवत् ।
जले जलान्तरस्यापि संश्लेषो न त्वभिन्नता ।।' इति ।
ब्रह्मविद् ब्रह्मैव भवति
अत्र भगवती श्रुति: 'ब्रह्मविद् ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति' इत्याह । ब्रह्मविदां कुलेऽब्रह्मविदामपि जन्म पुराणेषु श्रूयते, अनुभूयते चाद्यापीति भगवत्पादैरस्या आशय उपवर्णितः । ब्रह्मविदां कुले ब्रह्मविदेव जायत इत्ययं नियमः देवसन्ततिविषयः । अपि च कृतयुगमात्रवर्ती । नराणां तु क्वचिज्ज्ञानिनामपि अज्ञानिनः जायन्त एव । ब्रह्मविदां ब्रह्मज्ञा जायन्त इत्ययं नियमः प्रायिक इति व्याख्यातम् । कलियुगे ब्रह्मज्ञानामपि कुलेऽब्रह्मविद एव प्रायः जायन्त इति कालस्य महती गतिः । तदुक्तम्-
‘देवानां सन्ततौ जाताः प्रायशो ज्ञानिनः कृते ।
बलवद्धेतुतश्चान्ये यस्माद् ब्रह्मविदः सुराः ।
न सन्ततौ ब्रह्मविदो नराणां ज्ञानिनामपि
प्रायशः स्युः सुराणां च नियमोऽयं कृते युगे ।।' इति ।