स वेदैतत् परमं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम्

षष्ठः खण्डः

स वेदैतत् परमं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम् ।

उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥

स आत्मज्ञार्चको ब्रह्मणो धाम प्राणं वेद । यत्र विश्वं पूर्णं ब्रह्म निहितम् ।

प्रधानं धाम विष्णोस्तु प्राण एव प्रकीर्तितः ।

उपायैर्यो विजानीयात् प्राणस्थं परमेश्वरम् ।

तस्य प्राणे हरिर्नित्यमाविष्टो भवति ध्रुवम् ॥

नित्यं प्राणस्थितस्यैव विष्णोरावेश एव हि ।

प्राणद्वारेण यज्ज्ञानदीपनं ज्ञानिनः सदा ॥

सन्निधानं यथा प्राप्ताः पिशाचाः पुरुषेष्वपि ।

तत्र स्थित्वाऽपि भुञ्जन्त आविशेयुः पुनश्च ते ॥

मन्त्रादिभिस्तथा विष्णुः सदा प्राणस्थितोऽपि सन् ।

ज्ञानदीप्त्यादिकं कुर्याज्ज्ञानिनः पुनरेव तु ॥ इति च ॥

एतच्छुक्रं प्रत्यन्यदतिवर्तन्ते ॥

सर्वं तीर्त्वा हरिं शुक्रं प्रतिवृत्तिर्भवेत्पुनः ।

ज्ञानिनः सा हि मुक्तिः स्यात्तन्नैवात्येति कश्चन ॥ इति महावाराहे ।

कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।

पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३ ॥

नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् ।

एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४ ॥

सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।

ते सर्वगं सर्वतः प्राप्य धीराः मुक्तात्मानः सर्वमेवापियन्ति ॥ ५ ॥

सर्वतो देहादेर्मुक्ताः सन्तः । सर्वगं भगवन्तं प्राप्य तमेवापियन्ति ।

देहादेः सर्वतो मुक्ताः सर्वगं पुरुषोत्तमम् ।

प्राप्य तस्मिन् प्रविश्याथ मोदन्तेऽन्तर्बहिस्तथा ॥ इति च ॥

वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद् यतयः शुद्धसत्त्वाः ।

ते ब्रह्मलोकेषु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ॥ ६ ॥

ब्रह्मलोकेषु स्थित्वा परान्तकाले परिमुच्यन्ति ॥ ६ ॥

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।

कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ७ ॥

अविरोधश्च सादृश्यमेकदेशस्थितिस्तथा ।

एकीभावस्त्रिधा प्रोक्तो नैकीभावः स्वरूपयोः ।

कुतोऽभूतस्य भवनं स्वरूपस्यैक्यमेव हि ॥

अतो नदीनां जीवानां विरुद्धानां नृणामपि ।

अब्धिना हरिणा चैव तथैव च नरान्तरैः ॥

एकीभावस्तु संश्लेषो विरोधस्य च वर्जनम् ।

स्वरूपैक्यं कुतस्तेषां नित्यभिन्नस्वरूपिणाम् ॥

हरेरपि स्वरूपाणामेकीभावो यदोच्यते ।

संश्लेष एव सिद्धत्वात् स्वरूपैक्यस्य नो भवः ॥ इति च ।

गताः मुक्ताः । प्राणादिपञ्चदशकलारूपा देवताः अन्ये च प्रतिदेवतासु देवताप्रतिबिम्बभूतासु प्रजासु प्रति प्रति स्थिताः कर्माणि विज्ञानमयो जीवश्च परमात्मनि प्रविशन्ति ।

प्रतिबिम्बो हरेः प्राणस्तस्य चान्याः कलाः क्रमात् ।

कलानां देवता अन्या देवतानां नरा अपि ॥

तस्मात् सर्वेषु मुक्तेषु नरेष्वपि नियामकाः ।

तिष्ठन्ति नात्र सन्देहः परमात्मनि चाखिलाः ॥ इति मुक्तिविवेके ॥

कलाभ्यश्चान्यदेवेभ्यः कर्म प्रत्यवरं यतः ।

कलाभ्यः पृथगुक्तं तत् पुष्करः कर्म चोच्यते ॥ इति च ।

अन्यथा गता भविष्यन्तीत्यध्याहारो दोषः । न च मूलरूपाणि प्रतिदेवता इत्युच्यन्ते देवानाम् । प्रतिरूपशब्दवदि्ध प्रतिदेवताशब्दः । विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र इमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति इति यथा सोम्येमाः समुद्रायणाः इति नदीदृष्टान्तपूर्वकं पुरुषप्राप्तिकथनाच्च मुक्ता देवता एवोच्यन्ते । स प्राणमसृजत इत्यादेश्च पुरुषो भगवान् ॥ ७ ॥

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।

तथा विद्वान्नामरूपाद् विमुक्तः परात् परं पुरुषमुपैति दिव्यम् ॥ ८ ॥

अगम्यनामरूपत्वादमुक्तैर्मुक्तिगा नराः ।

विहीननामरूपास्तु न हि तद्रहितत्वतः ॥

अशरीरो यथा वायुः सामान्यागम्यदेहतः ।

एवं नद्यः समुद्रस्थाः सामान्यागम्यरूपतः ॥ इति च ।

स्वकीयमुदकं नद्यः समुद्रे नैव जानते ।

वायुस्तु तत्पृथग्ज्ञात्वा मेघे कृत्वा प्रवर्षति ॥ इति च ।

विमुक्त इत्यमुक्त इत्यर्थः । विप्रिय इतिवत् । अविहायेति च । अनन्तं वै नाम इति श्रुतिः ॥ ८ ॥

स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित् कुले भवति ।

तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९ ॥

परं ब्रह्म विदित्वा तु बृंहितः स्यात् स्वयोग्यतः ।

नायोग्यं किञ्चिदाप्नोति कुत एव हरेर्गुणान् ॥ इति च ।

ब्रह्मत्वं बृंहितत्वं स्याज्जीवानां न परात्मता ।

अस्वतन्त्रस्य जीवस्य कुतो नित्यस्वतन्त्रता ॥ इति स्कान्दे ।

यत्रामृतः स पुरुषो ह्यव्ययात्मा यत्र तत्सत्यस्य परमं निधानम् अमृतस्यैष सेतुः शरवत् तन्मयो भवेत् ब्रह्म तल्लक्ष्यमुच्यते निरञ्जनः परमं साम्यमुपैति इत्यादिना मुक्तस्य सर्वत्र भगवत्सकाशाद्भेदस्यैवोक्तत्वाच्च । मुक्तोपसृप्यव्यपदेशात् जगद्व्यापारवर्जम् प्रकरणादसन्निहितत्वाच्च इत्यादिना भगवताऽपि सर्वत्र भेदस्यैव सूचितत्वात् ।

न ते महित्वमन्वश्नुवन्ति । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता

ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।

तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इत्यादेश्च ।

मुक्तेभ्योऽपि मनुष्येभ्यो देवा एव गुणाधिकाः ।

तेभ्यो वायुस्ततो विष्णुः परिपूर्णगुणः सदा ॥

ये त्वेतदन्यथा विद्युस्ते हि यान्त्यधरं तमः ।

ये त्वेतदेवं जानन्ति ते यान्ति परमं हरिम् ॥ इति च ।

देवानां सन्ततौ जाताः प्रायशो ज्ञानिनः कृते ।

बलवद्धेतुतश्चान्ये यस्माद् ब्रह्मविदः सुराः ॥

न सन्ततौ ब्रह्मविदो नराणां ज्ञानिनामपि ।

प्रायशः स्युः सुराणां च नियमोऽयं कृते युगे ॥

तस्मात् स भगवान् विष्णुर्ज्ञेयः सर्वोत्तमोत्तमः ।

सदा सर्वगुणैः पूर्णो योऽनन्तः पुरुषोत्तमः ॥ इति च ।

तदेष श्लोकः ।

क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षीन् श्रद्धयन्तः ।

तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥ १० ॥

तदेतत् सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते ।

ॐ नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् मुण्डकोपनिषद्भाष्यम्

समाप्तम् ॥

प्रीयतां भगवान् मह्यं प्रेष्ठप्रेष्ठतमः सदा ।

मम नित्यं नमाम्येनं परमोदारसद्गुणम् ॥