न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्म्मणा वा

उपनिषत्

(प्राणप्रसादान्मुक्तिः)

न चक्षुषा गृह्यते नापि वाचा

नान्यैर्देवैस्तपसा कर्म्मणा वा ।

ज्ञानप्रसादेन विशुद्धसत्त्व-

स्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८ ॥

भाष्यम्

नान्यैर्देवैर्हरिं पश्येज्ज्ञानरूपेण वायुना ।

ब्रह्मणा परमज्ञानरूपेण हरिणा तथा ।

प्रसन्नेनैव तं पश्येदन्येऽनुज्ञाप्रदायिनः ' ॥ इति च ॥

षोडशकलाशरीरो न भवतीति निष्कलः ।

यदा पश्यः पश्यते रुग्मवर्णम्', 'आनन्दरूपममृतं यद् विभाति' इत्युक्तत्वात् ॥

पदार्थदीपिका

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः' इत्यस्य सर्वस्यापीदं तात्पर्यकथनम् । हरिचतुर्मुखवायुव्यतिरिक्तचक्षुरादिदेवानुग्रहमात्रेण हरिं न पश्येदित्यर्थः । ज्ञानप्रसादेनेत्यत्र प्रसिद्धज्ञानानुग्रहेणैव पश्येदित्यन्यथा- प्रतीतिनिरासाय ज्ञानशब्दार्थमाह- ज्ञानरूपेणेति ॥ ब्रह्मणा चतुर्मुखेन ब्रह्मवाय्वोहरेश्च ज्ञानरूपत्वं नैकप्रकारमित्याशयेन परमज्ञानरूपेणेत्यु- क्तम् । ज्ञानस्य परमत्वं च स्वपरगताशेषविशेषविषयकत्वरूपं द्रष्टव्यम् । नन्वेवमन्यदेवतानुग्रहस्य व्यर्थत्वे 'देवांश्च तारतम्येन ज्ञात्वा मुक्तिर्न चान्यथा' इति प्रमाणविरोध इत्यत आह- अन्य इति ।। तरतमभावज्ञानेन प्रसन्नाः सन्तो देवाः भगवदाराधनविषये सद्बुद्धिप्रदानद्वाराऽनुज्ञाप्रदायिन इत्यर्थः । यथोक्तम्-

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।

यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥' इति ॥

अनेन विशुद्धसत्त्व इत्यस्य तात्पर्यमुक्तं वेदितव्यम् । निष्कलमित्ये- तत्परेण व्याख्यातं करचरणाद्यात्मकशरीरमत्र कलोच्यते तद्रहितम् अशरीरत्वश्रुतेरिति । तदेतदपव्याख्यानमिति भावेन स्वयं व्याचष्टे - षोड-शेति ॥ एकादशेन्द्रियपञ्चमहाभूतरूपषोडशकलात्मकशरीरो न भवती- त्यर्थः । परोक्त एवार्थः किं न स्यादित्यतस्तत्र बाधकमाह - यदेति ॥ शरीराभावे रुग्मवर्णत्वस्यायोगात् । रुग्मवर्णोक्तया शरीरसिद्धिः । आंनन्दरूपम् । रूपशब्दः शरीरपरः । आनन्दात्मकशरीरमित्यर्थः । तथा च श्रुतिभिरानन्दात्मकविग्रहस्योक्तत्वात् परव्याख्याने तद्विरोधः स्यादिति भावः । श्रुतिस्तु प्राकृतशरीराभावविषयेति द्रष्टव्यम् । अर्थान्तरप्रतीति- निरासाय निष्कलशब्दं व्याचष्टे - षोडशेति ॥ सजीवस्य शरीरस्य भागाः कलाः । ताश्च षोडश । मुख्यप्राणाभिमन्यमानो जीवः । आस्तिक्यनिष्ठा- रूपा श्रद्धा ।खं वा॒युर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नं वीर्यं तपो मन्त्रा ऋगादिवेदरूपाः । पुण्यपापरूपं कर्म । गोलकाः देवदत्तादिरूपं नाम ' इति । तत्र जीवस्य सजीवशरीरभागत्वं प्रसिद्धमेव । श्रद्धायाः शरीरभागत्वं शरीरान्तर्गतवृत्तिरूपत्वात् । आकाशादिपञ्चभूतानां शरीरोपादानत्वात् तद्भागत्वम् । चक्षुरादीन्द्रियस्य शरीरप्रवृत्त्युपकरणत्वात्तद्भागत्वम् । मनसः प्रधानोपकरणत्वात् तत्त्वम् । अन्नस्य शरीरस्थितिकारणत्वात् तत्त्वम् । वीर्यस्य शरीरहेतुत्वात् तत्त्वम् । तपसो जीवं प्रति ज्ञानादिहेतुतया मुख्यकारणत्वात् तत्त्वम् । मन्त्राणां सम्यग्ज्ञानादिहेतुतया तत्त्वम् । कर्मणः सुखादिनिमित्तत्वात् तत्त्वम् । गोलकानामिन्द्रियाश्रयत्वात् तत्त्वम् । नाम्नस्तु शरीरे सङ्केतितत्वात् तत्त्वम् । तदेवं याः षोडशकलाः तद्युक्तशरीरो न भवतीति भगवान्निष्कल इत्युच्यत इत्यर्थः ।

ननु सौन्दर्याद्यभाव एव निष्कलशब्दार्थोऽस्तु । यद्वा 'करचरणात्मकं शरीरं कलोच्यते । तद्रहितं निष्कलम्' इति परेण व्याख्यातत्वाच्छरीर- मात्राभाव एव तदर्थोऽस्तु । किं षोडशकलाशरीरराहित्यार्थकत्वाङ्गी- कारेणेत्यत आह- यदेति ॥ रुग्मवर्णमिति सौन्दर्यस्योक्तत्वात् तदभावो न निष्कलशब्दार्थः । नापि शरीरमात्राभावस्तदर्थः । आनन्दरूपमिति आनन्दात्मककरचरणादिमत्त्वस्योक्तत्वादित्यर्थः । न चानन्दरूपपदेन कथमानन्दात्मककरचरणादिमत्त्वं लभ्यत इति वाच्यम् । 'रूपं स्वभावे सौन्दर्ये आकारे श्लोकशब्दयोः' इति नानार्थकोशानुसारेण रूपशब्द- स्याकारवाचकत्वेन तदुपपत्तेः । अत एव स्वगुणात्मकं रूपमित्यस्य शिरःपाणिपादात्मकमिष्यत इत्यनुव्याख्याने आनन्दाद्यात्मकशिरः- पाण्यादिलक्षणं रूपं भगवतोऽभिहितमिति ।।

॥ इति पञ्चमखण्डभाष्यार्थः ॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

एतादृशस्य हरेरपरोक्षज्ञानं न तपआदिसाधनसामर्थ्येन भवति नापि चतुर्मुखवाय्वन्यदेवताप्रसादेन किन्तु विष्णुचतुर्मुखवायुप्रसादा- देवेत्याह- न चक्षुषेत्यादिना ॥ भगवान् चक्षुषा तदभिमानिना सूर्येण । वाचा तदभिमानिनाग्निनान्यैस्तदरिक्तैर्देवैस्तत्प्रसादेनेति यावत् । तपसा कर्मणा वा तत्साध्यसामर्थ्येनेति यावत् । न गृह्यते नापरोक्षीक्रियते । तथा चक्षुरादीन्द्रियेण च न गृह्यत इत्यप्यर्थो द्रष्टव्यः । तर्हि देवतानुग्रहस्य सर्वथा वैय्यर्थ्यमिति न मन्तव्यम् । ततः परस्परं तारतम्यज्ञानेन प्रसन्न- तत्त्वाभिमानिदेवतानुग्रहाद् विशुद्धसत्त्वो विशुद्धान्तःकरणोऽधिकारी निष्कलं षोडाकलात्मकशरीररहितं विष्णुं ध्यायमानो भवति । तदनन्तरं ध्यानेन तं पश्येत् पश्यति । पश्यतीति यत् तत् ज्ञानप्रसादेन परमज्ञानरूपस्य विष्णोस्तथा ज्ञानरूपस्य चतुर्मुखस्य वायोश्च प्रसादेनैव नान्यथेत्यर्थः । ब्रह्मवाय्वोर्ज्ञानरूपत्वं तदभिमानित्वादिति द्रष्टव्यम् । षोडाकलाशरीरो न भवतीति निष्कलः।यदा पश्यः पश्यते रुग्मवर्णम्' 'आनन्दरूपममृतं यद्विभाति' इत्युक्तत्वात् ॥ ८ ॥

Load More