मन्त्रेषु कर्माणि कवयो यान्यपश्यन् तानि त्रेतायां बहुधा सन्ततानि

द्वितीयः खण्डः

तदेतत् सत्यम् ।

मन्त्रेषु कर्माणि कवयो यान्यपश्यन् तानि त्रेतायां बहुधा सन्ततानि ।

तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥

तदेतत्सत्यं भगवान् । तत्कामाः कर्माण्याचरथ । तदा साऽपि परविद्या । अन्यथा प्लवा ह्येते अदृढा यज्ञरूपाः ।

भगवद्विषयत्वेन कृत एष वः पुण्यः सुकृतो ब्रह्मलोकः । परब्रह्मलोकः ।

निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते ।

निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥ इति व्यासस्मृतिः ।

स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते इति च श्रुतिः ।

सहयज्ञाः प्रजाः सृष्ट्वा इत्युक्त्वा

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ इति च ।

यान्ति मद्याजिनोऽपि माम् इति च ।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ इति च ।

यस्त्वात्मरतिः इत्युक्त्वाऽपि कुर्याद्विद्वांस्तथा सक्तः इत्येवोक्तत्वाच्च ।

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।

सर्वज्ञानविमूढांस्तान् विदि्ध नष्टानचेतसः ॥ इति च ।

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ इत्युक्तत्वाच्च नाश्रमान्तरविरोधः । त्रेतायां बहुधा सन्ततानि कृते त्वेकप्रकारेणैव सन्ततानि ।

अग्निष्टोमादिभिर्यज्ञैः सर्वदेवस्थितं हरिम् ।

यजन्ति तांश्च कारित्वाद्वसुस्तस्मात् तथाऽयजत् ॥

पृथक् पृथक् च त्रेतायां यजन्ते देवतागणान् ।

यथा कृते तथा प्राज्ञास्त्रेतायां बहुधा ततः ॥ इति पाद्मे ।

यमिन्द्रमाहुर्वरुणं यमाहु र्यं मित्रमाहुर्यमु सत्यमाहुः ।

यो देवानां देवतमो जनित्रं वायोस्तस्मै सोममेभ्यो जुहोमि ॥

एवं वायोः पितरं विष्णुमेव यजन्ति देवैः सह ये कृते जनाः ।

एवं त्रेतायां केचिदन्ये पृथक् तानिष्ट्वा विष्णावर्पयन्ते न चान्यैः ॥

इति च ब्रह्माण्डे ।

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।

तदाऽऽज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥ २ ॥

यस्याग्निहोत्रमदर्शमपौर्णमासमनाग्रयणमतिथिवर्जितं च ।

अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३ ॥

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।

स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ।

तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५ ॥

एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।

प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।

एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ॥ ७ ॥

अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितंमन्यमानाः ।

जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८ ॥

अविद्यायां बहुधाः वर्तमाना स्वयं कृतार्था इत्यभिमन्यन्ति बालाः ।

यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९ ॥

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।

नाकस्य पृष्ठे ते सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ १० ॥

विष्णोः सर्वेभ्यः किञ्चिदुत्तमत्वं जानन्त इमं लोकमाविशन्ति ।

साम्यं हीनत्वं वा जानन्तो हीनतरं तम एवाविशन्ति ॥

देवेभ्यः उत्तमं विष्णुं राजवद्यस्तु मन्यते ।

याजी स मानुषं याति साम्यहीनत्ववित्तमः ॥ इति च ।

त्रैविद्या माम् इति तु येप्यन्यदेवता भक्ताः तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता इत्युक्तत्वादज्ञानपूर्वयाजिनस्त्रैविद्याः॥

तपःश्रद्धे येऽभ्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः ।

सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन ।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय ।

येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥

इति द्वितीयः खण्डः ॥