तदेतत् सत्यम् । मन्त्रेषु कर्माणि कवयो यान्यपश्यन् ..

॥ अथ प्रथमे द्वितीयः खण्डः ॥

उपनिषत्

(यदा अक्षर(ब्रह्म)प्रतिपादकाः वेदा: तदा परविद्या उच्यन्ते)

ॐ ।। तदेतत् सत्यम् ।

मन्त्रेषु कर्माणि कवयो यान्यपश्यन्

तानि त्रेतायां बहुधा सन्ततानि ।

तान्याचरथ नियतं सत्यकामा

एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥

भाष्यम्

तदेतत् सत्यं भगवान् । तत्कामाः कर्माण्याचरथ । तदा साऽपि परविद्या । अन्यथा 'प्लवा ह्येते अदृढा यज्ञरूपाः'

पदार्थदीपिका

किं तत्सत्यमित्यत उक्तम्- तदेतदिति ॥ यदक्षरं प्रकृतं तदेतदक्षरमेव सत्यम् । तथा च नित्यनिरतिशयानन्दानुभवरूपत्वाद् भगवानेव सत्यशब्दार्थ इत्यर्थः । एषः ज्ञानद्वारा भगवत्प्रीत्यर्थमनुष्ठितो निवृत्तकर्मसन्दर्भो वो भवतां सुकृतस्य सुकृतलभ्यस्य लोके लोकस्य । यद्वा सुकृतस्य फलभूते लोके लोकप्राप्तिविषये तदर्थमिति यावत् । पन्थाः मार्गोऽपरोक्षज्ञानद्वारा भवतीत्यर्थः । तदेतत्सत्यमिति वाक्यं तदेतद्वक्ष्यमाणं प्रमेयं सत्यं यथार्थं न मृषेति परेण व्याख्यातम् । तदसत् । तथात्वे पूर्वप्रकृतपरामर्शकतच्छब्दानुपपत्तेः । 'भगवत्प्रीतिकामैस्तु कार्यं कर्माखिलैर्नृभिः' इत्यादिवाक्यानुसारेण सत्यनामकभगवत्प्रीतिकामास्तानि कर्माण्याचरथेत्यवश्यं तदर्थस्य वक्तव्यत्वे एकप्रकरणोक्तसत्यशब्दस्या- नेकार्थकल्पनापत्तेरित्याशयेन तद्वाक्यं सम्यग् व्याचष्टे - तदेतदित्या-

दिना ।। निर्दुःखनित्यनिरतिशयानन्दानुभवरूपत्वाद् भगवान् सत्य- मित्युच्यत इत्यर्थः । यथोक्तं भागवततात्पर्ये- 'सत्यं परं धीमहि' इत्यत्र 'सत्यं निरतिशयानन्दानुभवरूपम्' इति । तत्कामाः अपरोक्षज्ञानद्वारा तत्प्रीतिकामाः । तथा च सत्यकामाः कर्माण्याचरथेति उक्ते किं तत्सत्यमित्यपेक्षायां यदेतत्सर्वं प्रकृतमक्षरनामकं परं ब्रह्म तदेव सत्य- मित्युच्यत इत्युक्तमङ्गिरसेत्यर्थः । ' तदेतत्सत्यं यथा सुदीप्तात् पावकात्' इत्युत्तरत्र तु एतादृशबाधकाभावात्तत्राबाधितत्वार्थक एव सत्यशब्द इत्यवगन्तव्यम् |

ननु सत्यनामकभगवत्प्रीतिकामाः कर्माण्याचरथेति व्याख्यानमयुक्तम् ।प्लवा ह्येते अदृढा यज्ञरूपा:' इत्यादिनोत्तरत्र कर्मणां निन्दितत्वादिति चेत्, तत्राह- तदा सापीति ॥ भगवत्प्रीत्यर्थं कर्मप्रतिपादनदशायां कर्म- प्रतिपादिकापि सा विद्या परविद्यैव । अन्यथा भगवत्प्रीत्यर्थत्वेन तद्विषयक- निवृत्तकर्माऽप्रतिपादकत्वे काम्यकर्मप्रतिपादनपरत्व इति यावत् ।प्लवाइत्यादि निन्दा प्रवृत्तेति शेषः । तथा च सा तदानीमपरविद्येति भावः।।१।।

श्रीनिवासतीर्थविरचिताखण्डार्थः

अपरविद्यया विज्ञातं कर्मादिकं परविद्याविषयपरमात्मज्ञानेन सफलं भवतीत्येवमपरविद्या परविद्याङ्गमित्युक्तम् । तत्कथमित्यतस्तत्प्रकारं दर्शयति तदेतत्सत्यमित्यादिना ॥ कवयो ज्ञानिनो मन्त्रेषु यानि कर्माण्यपश्यन् प्रतिपाद्यत्वेन ज्ञातवन्तस्तानि कर्माणि त्रेतायां बहुधा सन्ततानि । कृतयुगे भगवन्मात्रविषयत्वेन सन्ततानि, त्रेतायां बहुधा भगवत्तदितरदेवताविषयकत्वेन सन्ततानि सम्यक्प्रवृत्तानीत्यर्थः । अतः हे सत्यकामाः सत्यस्यापरोक्षज्ञानद्वारा भगवत्प्रीतिकामाः यूयं नियतं नियमेन तानि कर्माण्याचरथ || ||