यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि

उपनिषत्

( हृदयाकाशे विष्णुर्विराजते)

यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि ।

दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा सम्प्रतिष्ठितः॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

तद्ध्यानस्थानमाह- दिव्य इति ॥ दिव्ये द्योतमाने ब्रह्मणः पुरे देहे तत्र हि व्योम्नि आकाशे एष आत्मा सम्प्रतिष्ठितः ।। ९ ।।

Load More