सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः
उपनिषत्
( हरिभक्तस्यैव तत्प्राप्तिः)
सत्यमेव जयति नानृतं
सत्येन पन्था विततो देवयानः ।
येनाक्रमत्यृषयो ह्याप्तकामा
यत्र तत् सत्यस्य परमं निधानम् ॥६॥
भाष्यम्
'सत्यो हि भगवान् विष्णुः सद्गुणत्वात् प्रकीर्तितः ।
असुरास्तद्विरुद्धत्वादनृताः परिकीर्त्तिताः ।
तस्य विष्णोर्निधानं तु वैकुण्ठो लोक उत्तमः ॥' इति च ॥
श्रीवादिराजीयाप्रकाशिका
विद्वान् साम्यमुपैतीत्युक्ते स्वशक्त्या ज्ञानशक्त्या वा उपैतीति भ्रमो जायते । तत्परिहारायाऽऽह - सत्यमिति ॥ सत्यं सद्गुणविशिष्टत्वात् सत्यपदवाच्यं नारायणाख्यं परं ब्रह्मैव जयति संसारं जयति । सत्यपदापरपर्यायऋतपदवाच्यहरिविरोधिभूतं कल्यादिराक्षसकुलं संसारं न जयतीति श्रुतेरभिमतोऽर्थः । उपलक्षणया सत्यवचनं संसारं जयति । अनृतपदोपलक्षितानृतवचनं च मुक्तिविरोधीत्यपि ब्राह्यम् || ६ ||
पदार्थदीपिका
'सत्यमेव जयति नानृतम्' इत्यत्र सत्यानृतशब्दौ प्रसिद्ध- सत्यानृतवचनपराविति प्रतीतिनिरासाय तदर्थं प्रमाणेन दर्शयति- सत्यो हीति । तद्विरुद्धत्वादिति । सत्यनामकभगवद्विरुद्धत्वादित्यर्थः । ऋतसत्यशब्दयोरेकार्थत्वान्नञश्च विरुद्धार्थत्वादिति भावः । यत्र तत्सत्यस्य परमं निधानमित्यस्यार्थं प्रमाणशेषेण दर्शयति- तस्येति ॥ सत्यस्येत्य- स्यार्थस्तस्य विष्णोरिति । निधीयतेऽत्रेति निधानं स्थानमित्यर्थः ॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
अवश्यमधिकारिणा भगवन्निष्ठेन भाव्यम् । नान्यथेत्याशयेन भगवन्निष्ठं स्तुवन् तदनिष्ठं निन्दयति- सत्यमेवेति ।। सत्यं सत्यः सद्गुणत्वात् सत्यो भगवान् विष्णुः । अर्श आद्यजन्तत्वेन तद्वान् सत्यः । तन्निष्ठ एवेति यावत् । पुमान् जयति । तत्प्रसादेन बैकुण्ठादिदिव्यलोकान् प्राप्नोति । अनृतम् अनृतः । ऋतसत्यशब्दयोरेकार्थत्वात् सत्यनामक- भगवद्विरुद्धः पूर्वावगतवत् सदा स्थितेर्वा ऋतं विष्णुस्तद्विरुद्धोऽनृतः । असुर इति यावत् । न लोकं जयति । ननु कथमस्य सत्यनिष्ठस्य वैकुण्ठादि- लोकप्राप्तिस्तत्प्राप्तिसाधनीभूतमार्गाज्ञानादित्यत आह- सत्येनेत्या- दिना ॥ यत्र लोके वैकुण्ठादौ सत्यस्य सद्गुणस्य विष्णोस्तत्प्रसिद्धं परमं निधानं सन्निधानमस्ति यत्र स्थिता ऋषयो ज्ञानिन आप्तकामा भवन्ति तं लोकम् ऋषयो येन पथा आक्रमन्ति गच्छन्ति अयं देवयानस्तत्सञ्ज्ञकः पन्थाः सत्येन विष्णुनैव विततः प्रकाशितः । भगवानेव स्वाधिष्ठित- लोकप्राप्तिसाधनभूतं मार्गं प्रकाशयतीति भावः ।। ६ ।।