नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाऽप्यलिङ्गात्
- उपनिषत्
- (श्रवणाद्युपाया अनुष्ठेयाः)
- नायमात्मा बलहीनेन लभ्यो
- न च प्रमादात् तपसो वाऽप्यलिङ्गात् ।
- एतैरुपायैर्यतते यस्तु विद्वां-
- स्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४ ॥
- श्रीनिवासतीर्थविरचिताखण्डार्थः
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः
नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाऽप्यलिङ्गात्
उपनिषत्
(श्रवणाद्युपाया अनुष्ठेयाः)
नायमात्मा बलहीनेन लभ्यो
न च प्रमादात् तपसो वाऽप्यलिङ्गात् ।
एतैरुपायैर्यतते यस्तु विद्वां-
स्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४ ॥
श्रीनिवासतीर्थविरचिताखण्डार्थः
ननु तर्हि श्रवणादीनां वैयर्थ्यं स्यादित्यत आह- नायमिति ॥ अयमात्मा बलहीनेन श्रवणमननबलहीनेन लभ्यो ज्ञेयो न भवति । वाशब्द उपमायाम् । यथा प्रमादान्मिथ्याज्ञानात् अलिङ्गात् 'लिङ्गं स्वरूप- मुद्दिष्टं लिङ्गं ज्ञापकमेव च' इति वचनाज्ज्ञापकशून्यात् प्रमाणादुक्तादिति यावत् । तपसश्च लभ्यो न तथेत्यर्थः । तस्माच्छ्रवणादिकमप्यावश्यकमिति भावः । यमेवैष इत्युक्तं विशदयति- एतैरिति । यो विद्वानधिकारी एतैः प्रवचनाद्युपायैर्यतते ज्ञानाय यत्नं करोति तस्याधिकारिणो ज्ञानदानार्थम् एष आत्मा प्रसन्नः सन् ब्रह्मधाम मुख्यप्राणं विशते मुख्यप्राणद्वारा ज्ञानदीपनं करोति । अधिकारिणां तत्राविर्भवतीत्यर्थः ॥ ४ ॥