यस्मिन् द्यौः पृथिवी चान्तरिक्ष- मतं मनः सह प्राणैश्च सर्वैः
उपनिषत्
(विष्णुरेव मुक्तिप्रदः)
यस्मिन् द्यौः पृथिवी चान्तरिक्ष-
मतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथ आत्मानमन्या
वाचो विमुञ्चथामृतस्यैष सेतुः ॥६॥
भाष्यम्
अमृतस्य मुक्तस्य सेतुः । ॐ मुक्तोपसृप्यव्यपदेशात् ॐ', 'मुक्तानां परमा गतिः' इत्यादेः ॥
पदार्थदीपिका
अमृतस्यैष सेतुरित्यत्रामृतशब्दः क्षीरार्णवसञ्जातप्रसिद्धामृतपर इत्यन्यथाप्रतीतिनिरासायार्थमाह- अमृतस्येति ॥ अत्रैकवचनं समुदाया- पेक्षम् । सेतुरिव सेतुराश्रयः प्राप्य इति यावत् । अत्रामृतशब्दोक्ता मुक्ता एवेत्यत्र ज्ञापकमाह- मुक्तोपसृप्येति ॥ भावप्रधानो निर्देशः । ‘यस्मिन् द्यौः' इत्यादिवाक्ये द्युभ्वाद्यायतनत्वेनोक्तः परमात्मा तदन्य एवेति संशयेऽन्ये एवेति प्राप्ते भ्वाद्यायतनं परमात्मैव नान्ये जीवादयः । कुतः अमृतस्येति वाक्ये मुक्तप्राप्यत्ववचनादिति सूत्रकृतैवोक्तत्वादित्यर्थः । स्यादिदं यदि मुक्तप्राप्यत्वस्य भगवलिङ्गत्वं स्यात्तदेव कुत इत्यतोऽत्र महाभारतसम्मतिमाह- मुक्तानामिति ॥ गम्यत इति गतिः गम्यत्वस्यार्चि- रादिसाधारण्यात्परमेत्युक्तम् । तथा च मुक्तानामिति कर्तरि षष्ठी । मुक्तैर्मुख्यप्राप्य इत्यर्थः ।
श्रीनिवासतीर्थविरचिताखण्डार्थः
अक्षरवत् प्राधान्येन ज्ञेयत्वमन्यस्य कस्यापि नास्तीत्याशयेन तन्महिमानमाह- यस्मिन् द्यौरित्यादिना ॥ अन्या वाचोऽन्यदेवता- विषयवाचो विमुञ्चथ । अन्यदेवताध्यानं मा कुरुतेत्यर्थः । प्राधान्याभि- प्रायेणायं निषेधः । ‘परिवारतया ग्राह्या अपि हेयाः प्रधानतः' इत्युक्त- त्वात् । अमृतस्येत्येकवचनं समुदायापेक्षया मुक्तवर्गस्य सेतुरिव सेतुराश्रयः मुक्तैः प्राप्य इति यावत् ॥ ६ ॥