open/close
पञ्चमः खण्डः
षष्ठः खण्डः
टीका_टिप्पणि
अपर_ परविद्यास्वरूपम्
कृते समग्रमपि वैदिकवाङ्मयं विष्णुपरम्
ता एव परमा विद्या:
ब्रह्मस्वरूपम्
ब्रह्म जगतः नोपादानं न वा विवर्तकारणम्
ज्ञानपूर्विका विश्वसृष्टिः
द्वितीयः खण्डः
यज्ञानुष्ठानप्रकारनिरूपणम्
विहितयज्ञकर्माद्यननुष्ठाने प्रत्यवायः
होमाधिकरणनिरूपणम्
सम्यग्यज्ञादिकुर्वतां फलम्
भगवदविषयककर्मणां बन्धकत्वनिरूपणम्
विष्णुप्रीतयेऽनुष्ठितानि कर्माणि ज्ञानद्वारा मुक्तिफलकानि
विरक्तः गुरुमेव समाश्रयेत्
तृतीयः खण्डः
विष्णुकृतायाः सृष्टेः निरूपणम्
चतुर्थः खण्डः
विष्णुरेव विजिज्ञास्यः
प्रणवेन ब्रह्मविद्धि
विष्णुरेव मुक्तिप्रदः
विष्णुर्गुणपूर्ण इति ध्यायते
हृदयाकाशे विष्णुर्विराजते
अपरोक्षज्ञानमहिमा
सूर्यमण्डले विष्णुरुपास्यः
पञ्चमः खण्डः
अश्नन्नपि जीवः दुःखी ईशस्त्वनश्नन् नित्यसुखी
निर्दुःखत्वपूर्णानन्दत्वादिना साम्यम्
जीवन्मुक्तस्थितिः
हरिभक्तस्यैव तत्प्राप्तिः
प्राणप्रसादान्मुक्तिः
आत्मवेदिन: महिमा
षष्ठः खण्डः
यं भक्तत्वेन भगवान् वृणुते तस्यैव स लभ्यः
श्रवणाद्युपाया अनुष्ठेयाः
अपरोक्षानन्तरमेव न मुक्ति:
एकीभावो न स्वरूपैक्यम्
मुक्तौ नामरूपादिनाऽविमुक्त एव ब्रह्मणा सह तिष्ठति
ब्रह्मविदः फलम्
उपनिषदध्ययने अधिकारिणः के?
भाष्येऽन्तिममङ्गलाचरणम्
श्रीराघवेन्द्रतीर्थपूज्यपादविरचितः मुण्डकोपनिषत्खण्डार्थ:
द्वितीयः खण्डः
तृतीयः खण्डः
चतुर्थः खण्डः
पञ्चमः खण्डः
षष्ठः खण्डः
तुलनात्मक विश्लेषणम्
प्रश्न-उत्तर
open/close
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन
उपनिषत्
(यं भक्तत्वेन भगवान् वृणुते तस्यैव स लभ्यः)
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य-
स्तस्यैष आत्मा विवृणुते तनुं स्वाम् ।। ३ ।।
श्रीनिवासतीर्थविरचिताखण्डार्थः
पूर्वं ज्ञानप्रसादेनैव तं पश्यतीत्युक्तम् । तदयुक्तम् । प्रवचनादिनैव ज्ञानोत्पत्त्युपपत्तेरित्यत आह- नायमात्मेति । अयमात्मा भगवान् प्रवचनेन सावधारणमेतत् । व्याख्यानेन शास्त्राभ्यासरूपोपासनयेति यावत् । मेधया प्रज्ञया तत्पूर्वकं विचारेण मननेनेति यावत् । बहुना श्रुतेन श्रवणेन । एतत्साधनसामर्थ्येनैव लभ्यो ज्ञेयो न भवति किन्तु एष आत्मा प्रसन्नः सन् मदीयोऽयमिति यं भक्तं वृणुते तेनैव लभ्यः । तदेव विवृणोति - एष आत्मा तस्याधिकारिणः स्वां तनुं विवृणुते स्वस्वरूपं प्रकाशयति अपरोक्षो भवतीत्यर्थः ।। ३ ।।