स वेदैतत् परमं ब्रह्मधाम यत्र विश्वं निहितं भाति शुभ्रम्

॥ अथ षष्ठः खण्डः ॥

उपनिषत्

(ब्रह्मज्ञाः मुक्ताः भवन्ति)

ॐ ।। स वेदैतत् परमं ब्रह्मधाम

यत्र विश्वं निहितं भाति शुभ्रम् ।

उपासते पुरुषं ये ह्यकामास्ते

शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥

भाष्यम्

स आत्मज्ञार्चको ब्रह्मणो धाम प्राणं वेद ।

यत्र विश्वं पूर्णं ब्रह्म निहितम् ।

'प्रधानं धाम विष्णोस्तु प्राण एव प्रकीर्तितः ।

उपायैर्यो विजानीयात् प्राणस्थं परमेश्वरम् ।

तस्य प्राणे हरिर्नित्यमाविष्टो भवति ध्रुवम् ॥

नित्यं प्राणे स्थितस्यैव विष्णोरावेश एव हि ।

प्राणद्वारेण यज्ज्ञानदीपनं ज्ञानिनः सदा ॥

सन्निधानं यथा प्राप्ताः पिशाचाः पुरुषेष्वपि ।

तत्र स्थित्वाऽपि भुञ्जन्त आविशेयुः पुनश्च ते ॥

मन्त्रादिभिस्तथा विष्णुः सदा प्राणस्थितोऽपि सन् ।

ज्ञानदीप्त्यादिकं कुर्याज्ज्ञानिनः पुनरेव तु' इति च ।

एतच्छुक्रं प्रत्यन्यदतिवर्तन्ते-

'सर्वं तीर्त्वा हरिं शुक्रं प्रति वृत्तिर्भवेत् पुनः ।

ज्ञानिनः सा हि मुक्तिः स्यात् तन्नैवात्येति कश्चन ॥' इति महावाराहे ।॥

पदार्थदीपिका

अत्र स इति तच्छब्देनात्मज्ञपदोक्तापरोक्षज्ञान्येव परामृश्यते । तथा च स आत्मज्ञपदोक्तापरोक्षज्ञानी यत्र विश्वं जगत् निहितमत एव धाम विश्वाश्रयं ब्रह्म वेदेति व्याख्यानमसदिति भावेन स्वयं व्याचष्टे - स इति ।। तथा चार्चयेदित्युक्तात्मज्ञार्चकपरामर्शक एवायं तच्छब्द इत्यर्थः । ब्रह्मधामेत्येकं पदमित्यभिप्रेत्य तस्यार्थमाह- ब्रह्मण इति ॥ धाम गृहम् । ब्रह्मधामत्वस्यैव विवरणं यत्र विश्वमित्यादिकमित्यभिप्रेत्य व्याचष्टे - यत्रेति । यत्रं प्राणे । विश्वं समस्तं पूर्णं चेत्यभिधानाद् विश्वं पूर्णमित्यु- क्तम् । ननु ब्रह्मधामशब्देन प्राण एवोच्यत इति कुतः ? परब्रह्मसन्निधानस्य सर्वत्र विद्यमानत्वेन सर्वेषामपि ब्रह्मधामत्वादित्यतः प्राणस्यैव ब्रह्मधामशब्दवाच्यत्वे निमित्तं वदन्ने तैरुपायैरिति वाक्यमपि व्याचष्टे - प्रधानमिति || मुख्यसन्निधानपात्रमिति यावत् । उपायैः प्रवचनाद्युपायैः । यतत इत्यस्यार्थः- विजानीयादिति ॥ सदा ज्ञानिन इति वक्ष्यमाण- त्वादत्रापि नित्यं विजानीयादित्यन्वयः । सर्वदा ज्ञानाय यत्नं कुर्यात् । एष आत्मेत्यस्यार्थः- हरिरिति ॥ तस्य ब्रह्मधाम विशत इत्यस्यार्थस्तस्य तदर्थे प्राणे आविष्टो भवतीति । नित्यं हरेः प्राणे सन्निहितत्वादधिकारि- निमित्तं हरेः प्राणे आवेशो नाम क इत्यत उक्तं विवृणोति - नित्यमिति ॥ सदा ज्ञानिनः प्रवचनाद्युपायैर्ज्ञानार्थं यततोऽधिकारिणो यत्प्राणद्वारा ज्ञानदीपनं ज्ञानोद्दीपनकरणं तत्राविर्भाव इति यावत् । तदेव नित्यं प्राणस्थितस्यैव विष्णोः प्राण आवेश उच्यत इति प्रसिद्धमित्यर्थः । तथा च तस्यैष आत्मेत्यादेः प्राणे स्थित्वा तद्द्वाराधिकारिणो ज्ञानोद्दीपनं करोति । अधिकारिणां तत्राविर्भवतीति तात्पर्यार्थः ।

ननु पूर्वं विद्यमानस्यैव किञ्चिदतिशयकरणेनाविष्टव्यवहारगोचरत्वं कुत्र दृष्टमित्यत आह- सन्निधानमिति । यथा पुरुषदेहेषु सन्निधानं प्राप्ता अपि ते पिशाचास्तत्र स्थित्वा विषयान् भुञ्जन्तोऽपि मन्त्रौषधादिभिर्युन- राविशेयुर्वाग्व्यवहारविशेषकरणेन पुनः सन्निधानं प्राप्ता भवन्ति तदभि- प्रायेणाविशेयुरित्युच्यन्ते, इदानीमाविष्टा जाता इत्युच्यन्ते, तथा विष्णुः सदा प्राणस्थितोऽपि सज्ज्ञानिनः पुनरेव प्राणद्वारा ज्ञानदीप्त्यादिकं ज्ञानोद्दीपनादिरूपातिशयविशेषं कुर्यात् करोति प्राणरूपेऽधिष्ठाने आविर्भवतीति यावत् । तदभिप्रायेण ब्रह्मधाम प्रविष्ट इच्युच्यत इति शेषः । ' ते शुक्रमेतदतिवर्तन्ति धीरा:' इत्यत्र शोकरहितत्वाच्छुक्रं ब्रह्म अतिक्रम्य वर्तन्ते इत्यन्यथाप्रीतितिनिरासाय व्याचष्टे - एतदिति ॥ ब्रह्मधामाब्दोक्तमुख्यप्राणावस्थितमित्यर्थः । शुक्रं शोकरहितम्। 'शुक्रं तच्छोकराहित्यात्' (ई.भा.मं. ८) इति वचनात् । प्रतिगन्तुमिति शेषः । अन्यदिति श्रुतौ शेषोक्तिः । अन्यत् संसारजातम् । वृतु धातोर्नित्या - त्मनेपदित्वादाह- अतिवर्तन्त इति ॥ परित्यजन्तीति यावत् । ब्रह्मातिक्रम्य गच्छन्तीत्येवार्थः किन्न स्यादित्यतस्तत्र बाधकमाह - सर्वमिति ॥ शुक्रमित्यनूद्य हरिमिति व्याख्यातम् । शुक्रं प्रतिगन्तुं सर्वं संसारजातं तीर्त्वा स्थितस्य ज्ञानिनो या वृत्तिर्भवेद् भगवत्समीप एव या स्थितिर्भवति सैव मुक्तिरिति प्रसिद्धमित्यर्थः । प्रतीतार्थे बाधकमाह - तं नैवेति ॥ तमतिक्रम्य कोsपि न गच्छतीत्यर्थः ॥ १ ॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

आत्मज्ञार्चको भूतिमान्भवतीत्युक्तं तां भूतिमेवाह स वेदैतदित्यादिना ॥ स आत्मज्ञार्चकस्तदर्चनप्रभावाद् ब्रह्मधाम ब्रह्मणो धामभूतं प्राणं वेद । मुख्यप्राणज्ञानावाप्तिरेव तस्य भूतिरिति भावः । प्राणस्य ब्रह्मधामत्वं कुत इत्यत उक्तम् - यत्रेति ॥ यत्र प्राणे शुभ्रं शुद्धं विश्वं पूर्णं ब्रह्म निहितं सन्निहितं सद्भाति अतस्तस्य ब्रह्मधामत्वमित्यर्थः। ये अकामाः सन्तः पुरुषमात्मज्ञमुपासते सेवन्ते ते एतन्मुख्यप्राणस्थितं शुक्रं शोकरहितं परं ब्रह्म प्रतिगन्तुम् अन्यदिति शेषः । संसारजात- मतिवर्तन्ति अतिवर्तन्ते परित्यजन्ति तदुपदेशेनेत्यर्थः ॥ १ ॥

Load More