यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने

उपनिषत्

(यज्ञानुष्ठानप्रकारनिरूपणम्)

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।

तदाऽऽज्यभागावन्तरेणाऽहुती: प्रतिपादयेत् ॥२॥

श्रीनिवासतीर्थविरचिताखण्डार्थः

प्रकृतकर्माचरणप्रकारं दर्शयति- यदेति । हव्यवाहनेनौ समिद्धे फूत्कारादिना सम्यगिद्धे सति यदार्चिज्वला लेलायते 'ली परिवर्तने' इति धातोः परिवर्तते तदा तस्मिन्नर्चिषि आज्यभागावन्तरेण आज्य- भागयोर्मध्ये आहुतीः क्षीरचरुपुरोडाशाद्याहुतीः प्रतिपादयेद् दद्यात् । आदावेकमाज्याहुतिं हुत्वानन्तरं क्षीरचर्वाद्यवदानं दत्वा पुनरप्याज्याहुतिं दद्यादित्यर्थः । अनेनाग्निहोत्रकरणमुक्तं वेदितव्यम् || २ ॥