स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति
- उपनिषत्
- (ब्रह्मविदः फलम्)
- स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति । नास्याब्रह्मवित् कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९ ॥
- भाष्यम्
- पदार्थदीपिका
'यत्रामृतः स पुरुषो ह्यव्ययात्मा'
मुक्तभ्योऽपि मनुष्येभ्यो देवा एव गुणाधिकाः
स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति
उपनिषत्
(ब्रह्मविदः फलम्)
स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति । नास्याब्रह्मवित् कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९ ॥
भाष्यम्
'परं ब्रह्म विदित्वा तु बृंहितः स्यात् स्वयोग्यतः ।
नायोग्यं किञ्चिदाप्रोति कुत एव हरेर्गुणान् ॥' इति च ॥
'ब्रह्मत्वं बृंहितत्वं स्याज्जीवानां न परात्मता ।
अस्वतन्त्रस्य जीवस्य कुतो नित्यस्वतन्त्रता ॥'
इति स्कान्दे ||
पदार्थदीपिका
‘परमं ब्रह्म वेद ब्रह्मैव भवति' इति वाक्यं परब्रह्मवेत्तुर्मुक्तौ ब्रह्मत्वमेव भवतीत्यन्यथाप्रतीतिनिरासाय प्रमाणेन व्याचष्टे - परं ब्रह्मेति ।। अवधारणार्थस्य तुशब्दस्य स्वयोग्यत एवेति सम्बन्धः । ‘योग्यतः’ योग्यतानुसारेण। ‘बृंहितः ' पूर्णः । घटशरावोदञ्चनादिषु जल- पूर्णतायां तारतम्यं दृष्टमेवेति भावः । ननु स्वयोग्यत इति किमर्थमुच्यते निरवधिकपूर्णत्वमेव किन्न स्यादित्यत आह- नेति ॥ निरवधिकपूर्णत्वस्य भगवत्येव योग्यत्वादिति भावः । अत्रैव प्रमाणान्तरमाह - ब्रह्मत्वमिति ॥ जीवानां ब्रह्मत्वं नाम बृंहितत्वं पूर्णत्वमेव स्यान्न परमात्मतेत्यर्थः । ननु कुत एवं व्याख्यायते जीवस्य परमात्मतैवार्थः किन्न स्यादित्यतो विरुद्ध- धर्माधिकरणत्वादित्याह- अस्वतन्त्रस्येति ॥ कुतो नित्यस्वतन्त्रतेति । परब्रह्माभेदे नित्यस्वतन्त्रत्वस्यैव प्राप्तेरित्यर्थः । तथा संति हिताकरण- महितकरणं च न स्यादिति भावः ।